OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 13, 2025

 नीतिज्ञं यश्वन्तवर्मणं विरुध्य अभिशंसनाय प्रारम्भः। 

अन्वेषणाय अङ्गत्रयोपेतसमितिः रूपीकृता।

नवदिल्ली> औद्योगिकभवनस्य सम्भरणप्रकोष्ठात् बहुप्रमाणेन धनपत्राणि अधिगतानि इत्यस्मिन् प्रकरणे अलहबादे उच्चन्यायालयस्य नीतिज्ञं यश्वन्तवर्मणं विरुध्य अभिशंसनाय लोकसभायाम् अभिशंसनप्रक्रियायै प्रक्रमः आरब्धः। सभापतिः ओं बिर्लावर्यः एतदधिकृत्य सभां निगदितवान्। 

  सर्वकारस्य नेतृत्वे प्रथमतया एव कञ्चन न्यायाधिपं विरुध्य अभिशंसननिवेदनं प्रस्तुतम्। पक्षभेदं विना १४६ सदस्यैः हस्ताक्षरीकृतनिवेदनस्य आधारे एव अभिशंसनक्रियान्वयः आरब्धः। विपक्षनेता राहुल गान्धी, भाजपा नेता रविशङ्करप्रसाद‌ः इत्यादयः निवेदने हस्ताक्षरं कृतवन्तः। 

  आरोपणमन्वेष्टुं त्रीणां न्यायाधिपानां समितिः रूपीकृता। सर्वोच्चन्यायालयस्य न्यायाधिपः अरविन्दकुमारः, मद्रास् उच्चन्यायालयस्य मुख्यन्यायाधिपः मनिन्दर् मोहन श्रीवास्तवः, कर्णाटके उच्चन्यायालयस्य वरिष्ठः न्यायवादी बी वी आचार्यः इत्येते भवन्ति समितिसदस्याः। अस्याः समित्याः आवेदनस्याधारे अनन्तरक्रियाविधयः भविष्यन्तीति लोकसभापतिः अवदत्।