केरले विद्यालयेषु विशिष्टदिनेषु छात्राणां गणवेषः निरस्तः।शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं कण्णूर् सर्वकारोच्चतरविद्यालयछात्राः उत्सवदिनेषु गणवेषनिरासमधिकृत्य निवेदयन्ति।
कण्णूर्> केरले विद्यालयेषु श्रावणोत्सवः, क्रिस्तुमस् इत्यादीनां विशिष्टदिनानां कार्यक्रमेषु भागं कर्तुं वर्णवस्त्रं धर्तुं अवकाशः स्यात्। सोमवासरे कण्णूरस्थे मुण्टेरि सर्वकारीयोच्चतरविद्यालये नूतनं कक्ष्यासमुच्चयमुद्घाटनं कर्तुं आगतं शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं छात्राणां निवेदनमासीत् उत्सवदिनेषु गणवस्त्रात् मुक्तिः।
तदनन्तरं कुजवासरे तृश्शूर् जनपदे सम्पन्ने विद्यालयीयकलोत्सवस्य स्वागतसंघरूपीकरणवेलायां मन्त्रिवर्यः छात्राणामपेक्षाम् अङ्गीकृत्य प्रस्तावं कृतवान्।