OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 13, 2025

 केरले विद्यालयेषु विशिष्टदिनेषु छात्राणां गणवेषः निरस्तः।

शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं कण्णूर् सर्वकारोच्चतरविद्यालयछात्राः उत्सवदिनेषु गणवेषनिरासमधिकृत्य निवेदयन्ति। 

कण्णूर्> केरले विद्यालयेषु श्रावणोत्सवः, क्रिस्तुमस् इत्यादीनां विशिष्टदिनानां कार्यक्रमेषु भागं कर्तुं वर्णवस्त्रं धर्तुं अवकाशः स्यात्। सोमवासरे कण्णूरस्थे मुण्टेरि सर्वकारीयोच्चतरविद्यालये नूतनं कक्ष्यासमुच्चयमुद्घाटनं कर्तुं आगतं शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं  छात्राणां निवेदनमासीत् उत्सवदिनेषु गणवस्त्रात् मुक्तिः। 

  तदनन्तरं कुजवासरे तृश्शूर् जनपदे सम्पन्ने विद्यालयीयकलोत्सवस्य स्वागतसंघरूपीकरणवेलायां  मन्त्रिवर्यः छात्राणामपेक्षाम् अङ्गीकृत्य प्रस्तावं कृतवान्।