OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, August 13, 2025

 नागार्जुन-उमेश-संस्कृत-महाविद्यालये संस्कृतसप्ताहस्याभवत् भव्यसमापनम्

संस्कृतसप्ताहः–परम्परा नवाचारयोरद्वितीय-सङ्गमः– डॉ.छबिलालन्यौपानेः

बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामेऽवस्थितेन कामेश्वरसिंहदरभङ्गा-संस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन अगस्तमासस्य षड्दिनाङ्कादारभ्य आयोजितस्य संस्कृतसप्ताहस्य समापनं भौमवासरे 12.08.2025 दिनाङ्के सम्पन्नम्।

संस्कृतसप्ताहस्य अन्तिमदिवसे “डिजिटल् युगे संस्कृतभाषा– परम्परासंवाहिका उत भविष्यभाषा ? इति विषयिण्याः वाद-विवादप्रतियोगितायाः, “भारतीयज्योतिषशास्त्रम् – परम्परा, विज्ञानम्, आधुनिकजीवने च तस्य प्रासङ्गिकता” इति विषयकव्याख्यानस्य, समापनसत्रस्य च आयोजनम् अभवत्।

वादविवादप्रतियोगितायां बालकृष्णः, अञ्जलिः, अञ्जूः, कबीरः, श्रुतिः, सुरेशः, राजभूषणः, मुरारी, अभिलाषा, मन्नूः, महेशः, राकेशः, कृष्णः, अमनः चेत्यादयः प्रतिभागिनः स्वोत्कृष्टस्मरणशक्त्या, भावपूर्णप्रस्तुतिना, संस्कृतप्रेम्णा च प्रेक्षकान् प्राभावयन्।

मुख्यवक्त्री डॉ.सरस्वतीकुमारी प्रावोचद्यद् ग्रह-नक्षत्राणां गतीनामध्ययनाधारितं भारतीयज्योतिषशास्त्रं वैदिककालात् प्रवर्त्तमानमेकं प्राचीनविज्ञानपरम्परारूपमस्ति। अस्य विकासः गणित-खगोल-पर्यवेक्षणादीनां सुदृढसिद्धान्तैः अभवत्। पञ्चाङ्गनिर्माणम्, कालचक्रम्, कुण्डल्यनिर्माणम् चेत्यादयो विधयः समाजे मार्गदर्शनस्य साधनानि अभवन्। आधुनिकयुगेऽपि शास्त्रमिदं आत्मबोधे मानसिकशान्तौ सम्यङ्निर्णयग्रहणे च साहाय्यकरम् अस्ति। अङ्कप्रणालीयप्रौद्योगिकीमाध्यमेन अद्यत्वेऽस्य शास्त्रस्य विस्तारोऽधिको जातो वर्तते।

सन्दर्भेऽस्मिन् सहायकप्राचार्येण वीरसनातनपूर्णेन्दुरायेणोक्तं यत् संस्कृतसप्ताहो न केवलं शैक्षणिककार्यक्रमः, किन्तु अस्माकं सांस्कृतिकमूलैः सह सम्बद्धतां प्राप्तुं सेतुभूतोऽस्ति। अवसरेऽस्मिन् आयोज्यमानाः विविधाः कार्यक्रमाः छात्राणां भाषाकौशलं, तर्कक्षमतां, सृजनशीलतां, सांस्कृतिकजागरूकतां च वर्धयन्ति।

मुख्यातिथिः पं.महानन्दझाः संस्कृतं भारतस्य सांस्कृतिकचेतनायाः, दार्शनिकगहनतायाः, नैतिकमूल्यानां च अमूल्यं निधिरूपम् अभिधाय एतद् भाविसन्ततीनां बौद्धिक-नैतिक-विकासानां कृते आवश्यकमस्तीति प्रतिपादितवान्।

कार्यक्रमसमन्वयकः डॉ.छबिलालन्यौपानेः संस्कृतसप्ताहं परम्परायाः आधुनिकतायाश्च संगमरूपेण वर्णयन् वादविवादैः, निबन्धैः, श्लोकपाठैः, व्याख्यानैः च छात्राणां प्रतिभा, सृजनशीलता, तर्कक्षमता, सांस्कृतिकबोधश्च वर्धिता इति उक्तवान्।

अध्यक्षीयोद्बोधने प्रभारिप्रधानाचार्यः डॉ.रामसंयोगरायः प्रोक्तवान् यत् संस्कृतम् अस्माकं सांस्कृतिकम् आत्मभूतम्, ज्योतिषशास्त्रं च अस्य बौद्धिकरत्नं भवति। प्रतियोगिताः व्याख्यानानि च परम्परायाः आधुनिकदृष्टेः च संगमं प्रकाशयामास।

कार्यक्रमे डॉ.आलोककुमारः, डॉ.नियतिकुमारी, डॉ.विभूतिनाथझाः, डॉ.सरिताकुमारी, मुकुन्दकुमारः अन्ये च संस्कृतप्रेमिणः उपस्थिताः आसन्।

कार्यक्रमस्य समापनं संस्कृतजयघोषेन राष्ट्रगीतेन च अभवत्, येन परिसरे संस्कृतगौरवस्य, राष्ट्रियचेतनायाः च उत्साहपूर्णं वातावरणं व्याप्तम्।