जम्मु-काश्मीरे भीकराणां गुप्तनिलयः भञ्जितः।
श्रीनगरं> जम्मु-काश्मीरे किष्त्वारवनमण्डले भीकरैः गुप्तवासाय उपयुक्ता गुहा सैन्येन 'रोकट् लोञ्चर्' उपयुज्य भञ्जिता। द्वौ हिस्बुल् मुजाहिदीन् भीकरौ एतां गुहां सोमवासरस्य प्रभातपर्यन्तम् उपयुक्तवन्तौ इति सूच्यते।
अतीतैः कतिपयदिवसैः किष्त्वार - कुलगामप्रदेशेषु सुरक्षासेना तीव्रमन्वेषणं कुर्वन्ती अस्ति। पाकिस्थानात् परिशीलनं लब्धवन्तः भीकराः पर्वतप्रान्तेषु निलीयमानाः वर्तन्ते इति सूचना लब्धा आसीत्। भीकरैः सह प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युं प्राप्तवन्तौ आस्ताम्।