त्रिपुरानिर्वाचनम् - घोषप्रचरणस्य अद्य परिसमाप्तिः।
अगर्तला > त्रिपुराराज्ये रविवासरे प्रचाल्यमानस्य निर्वाचनस्य घोषप्रचारः अद्य सायं परिसमाप्यते। सि पि एम् दलस्य नेतृत्वे विद्यमानः शासनपक्षः , भा ज दलं, कोण्ग्रस् दलं च मुख्यप्रतिद्वन्दिरूपेण जनमतसम्मतिम् ईक्षन्ते। शासनपक्षायख्यमन्त्री मणिक् सर्कारः, भाजपादलाय प्रधानमन्त्री नरेन्द्रमोदी, कोण्ग्रस् दलाय देशीयाध्यक्षः राहुल्गान्धी च प्रचाराङ्कुशं वहन्ति।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, February 16, 2018
Thursday, February 15, 2018
पञ्चाब् नाषणल् वित्तकोशस्य एकस्याः शाखायाः ११,३३४ कोटि रूप्यकाणि अपहृतानि।
मुम्बई > राष्ट्रस्य सामान्यमण्डलीयवित्तकोशसंस्थासु द्वितीयस्थानमलङ्कृतायाः पञ्चाब नाषनल् बैंक् वित्तकोशसंस्थायाः मुम्बई शाखातः ११,३३४ कोटिरूप्यकाणाम् अपहरणं संवृत्तमिति विज्ञातम्। गतेषु सप्तसंवत्सरेषु वित्तकोशाधिकारिणां साहाय्येन संवृत्तैः भ्रष्टाचारप्रवर्तनैः एव एतादृशमपहरणं कृतमिति सि. बि. ऐ संस्थया उक्तम्।
Wednesday, February 14, 2018
पौराणां प्रत्यभिज्ञान-प्रमाणं प्रष्टुं सर्वकारस्य अर्हता नास्ति वा? -सर्वोच्चन्यायालयः।
नवदिल्ली> आधारपत्रं विरुद्ध्य न्यायाय-व्यववहारः सर्वोच्चन्यायालये प्रचलत् अस्ति। सर्वोच्च न्यायालयस्य मुख्य-न्यायाधीशस्य दीपक् मिश्रस्य आध्यक्ष्ये पञ्चन्यायाधीशाः वादान् श्रूयन्ते। पौराणां प्रत्यभिज्ञान प्रमाणं प्रष्टुं सर्वकारस्य अर्हता नास्ति वा? - इत्यासीत् मुख्य न्यायाधीशस्य दीपक् मिश्रस्य प्रश्नकरणम् । कश्चन साहाय्यः वा आनुकूल्यानि वा भवतु तानि अर्हानां हस्ते प्रदातुं सर्वकारेण प्रत्यभिज्ञान-प्रमाणस्य आधारेण एव शक्यते। तदर्थं सर्वकारस्य प्रत्यभिज्ञान प्रमाणम् आवश्यकं खलु ? पञ्चाङ्ग-संविधानपीठः अपृच्छत्l वादः गुरुवारे अनुवर्तिष्यते।
Tuesday, February 13, 2018
भीकरतां प्रति ओमानेन सह भारतस्य सहयोगः।
मस्कत्> भीकरतां प्रति भारतं ओमान् च ऐक्यमत्येन प्रवर्तेते। आशयतया तथा आर्थिकतया भीकरान् ये सहाय्यं कुर्वन्ति तान् प्रति अपि नकारात्मकं प्रवर्तनं करिष्यतः तदर्थं राष्ट्रान्तरैक्यं आवश्यकमिति संयुक्तप्रस्तावे ओमानेन उक्तम्।
मेय्क् इन् इण्डिया पद्धत्याः भागत्वेन प्रतिरोध उत्पन्नानां निर्माणे सहयोगपद्धतेः कार्यान्वयनं करिष्यति। ओमान् भारतात् तेषां उत्पन्नानां क्रयणं करिष्यति। व्याजरुप्यकाणि, लहरि उत्पन्नानि इत्यादि क्षेत्रेषु मिलित्वा प्रवर्तनं करिष्यति। संयुक्त सैनिकपरिशीलनाय भारतस्य इण्स्ट्टिट्यूस् फोर टिफन्स् स्टटीस् आण्ट् अनालिसिस् तथा ओमान् राष्ट्रस्य नाषणल् टिफन्स् महाविद्यालयः च धारणापत्रे हस्ताक्षरं अकुरुताम्। अस्य वर्षस्य सैनिकसमिति येगः ओमाने मस्कत् नगरे प्रचलिष्यति।
प्रतिरोधं, बहिराकाशं, स्वास्थ्यं, भक्ष्यसुरक्षा, खननं, विनोदसञ्चारं, इतेयादि अष्ट समयेषु भारतं ओमान् च हस्ताक्षरे अकुरुताम्। मस्कते सुल्तान् खाबूस् ग्राण्ट् आराधनालये तथा पुरातने शिवमन्दिरे च दर्शनानन्तरमेव मोदिना भारतं प्रति यात्रा आरब्धा।
Monday, February 12, 2018
आधारपत्रस्य अभावेन अवश्यसेवनानि निषिद्धानि मा भवतु - प्राधिकारी
नवदिली > आधारपत्रस्य अभावेन आनुकूल्यानि तथा अवश्यसेवनानि कदापि निषिद्धानि भवतु इति आधारपत्र प्राधिकारिणा पुनरपि आदिष्टा। आतुरसेवनं, विद्यालयप्रवेशः, सार्वजनिक-वितरणसम्प्रदायः इति कार्येषु आधारपत्रं न निर्बद्धम् इति प्राधिकारिणा प्रकाशिते वार्तालेखे संसूच्यते। गत वर्षे सेप्तंबर् चतुर्विंशति दिनाङ्गे प्रधिकारिणा आदेशः प्रदत्तः आसीत् । किन्तु इतःपर्यन्तं जननां परिदेवनानि सन्ति इत्यनेन पुनरपि आदेशः प्रसारितः।
राजनैतिकदलानां अड्गीकारं रोद्धुम् अधिकारः आवश्यकः इति निर्वाचकायोगः।
नवदेहली> राजनैतिक दलानां अड्गीकारं रोद्धुम् अधिकारः तथा दलेषु आभ्यन्तर जनाधिपत्यं चालयितुं अधिकारः आवश्यकः इति निर्वाचकायोगः। १९५१ तमे वर्षे आगतेन जनप्रातिनिध्य नियमेन इदानीं वर्तमानेभ्यः राजनैतिक दलेभ्यः अड्गीकारं दातुं अधिकारः निर्वाचकायोगस्य वर्तते किन्तु अड्गीकारं रोद्धुम् अधिकारः नास्ति। अतः जनप्रातिनिध्य नियमे भेदगतयः आवश्यकाः।अमित् शर्मा अश्विनी उपाध्याया इत्येते अभिभाषकौ कलड्किताः जनाः दलानां रूपीकरणात् रोद्धव्याः इति उच्चतरनीतिपीठं निवेदितवन्तौ। तयोः समाधानरूपेण निर्वाचकायोगस्य प्रस्तावः। गत विंशति वर्षेभ्यः जनप्रातिनिध्य नियमे भेदगतयः आवश्यकाः इति केन्द्र सर्वकारं प्रति पत्रप्रेषणं कुर्वन्तः स्मः। किन्तु किमपि प्रयोजनं न लब्धम्। २०१६ फेरुवरी तः डिसंबर पर्यन्तं कृते अन्वेषणे २५५ राजनैतिक दलाः केवलं पत्रेषु एव वर्तते।
राजनीतिं अक्रममुक्तं कर्तुं प्रयत्ने जागरूकः अस्ति निर्वाचकायोगः। तदर्थं सर्वकारस्य साहाय्यं तथा नियमभेदगतिः च आवश्यकौ इति सत्यप्रस्तावे निर्वाचकायोगेन उक्तम्। आगामिनि मंगलवासरे उच्चतरनीतिपीठं निवेदनमिदं गणयिष्यति।
Sunday, February 11, 2018
भारतदक्षिणाफ्रीकादलयो: एकदिवसीयाया: क्रिकेट्स्पर्धामालिकाया: चतुर्थो द्वन्द्व: अद्य
भारतदक्षिणाफ्रीकादलयो: एकदिवसीयान्ताराष्ट्रियक्रिकेट-स्पर्धामालिकाया: चतु्र्थो द्वन्द्व: अद्य जोहानिसबर्गनगरे भविष्यति । भारतीयसमयानुसारेण अपराह्णे सार्धचतु: वादनात् स्पर्धेयं प्रारप्स्यते । षड्स्पर्धान्वितायां शृङ्खलायां स्पर्धात्रयं विजित्य भारतीयवृन्दम् अग्रेसरत्वं वहति। अद्यतनद्वन्द्वं जेतुं भारतीयदलं सन्नद्धं वर्तते। स्पर्धां विजित्य भारतीयक्रिकेट्वृन्दं शृङ्खलामपि जेष्यति।
भारतदक्षिणाफ्रीकादेशयो: महिलाक्रिकेट्दलयोर्मध्ये स्पर्धा अद्य
भारतदक्षिणाफ्रीकादेशयो: महिलाक्रिकेट्दलयो: एकदिवसीयान्ताराष्ट्रियक्रिकेट-स्पर्धामालिकाया: अन्तिमस्पर्धा अद्य पोचेस्ट्रम् क्रीडाङ्गणे भविष्यति। भारतीयसमयानुसारेण अपराह्णे सार्धैकवादनात् स्पर्धेयं प्रारप्स्यते । शृङ्खलायां भारतीयवृन्दस्य २-० इति अन्तरालेन अग्रेसरत्वं वर्तते।
परीक्षा भीः - १६ दिनाङ्के छात्राः मोदिना सम्बुद्ध्यन्ते।
नवदिल्ली > छात्रेभ्यः परीक्षा भीतिं निर्मार्जयितुम् उद्दिश्य प्रधानमन्त्री नरेन्द्रमोदी दूरदर्शनद्वारा छात्रान् प्रति संवक्ष्यति। कथं भीतिं विना परीक्षां लिखामः, सम्मर्द रहितया रीया कथं परीक्षाकालं यापयामः इति प्रतिपाद्यते अस्मिन् कार्यक्रमे। अस्मिन्मासस्य षोडश दिनाङ्के (१६) प्रभाते द्वादशवादने (११) कार्यक्रमोऽयं प्रसारयिष्यते ।
'परीक्षा पे चर्चा' इति कार्यक्रमः विद्यालये, कलालये, साङ्केतिक कलाशालायां च छात्राणां पुरतः प्रदर्शनीयः इत्युक्तवा, विश्वविद्यालय -साहायधनायाेगः शिक्षा संस्थाभ्यः पत्रम् अलिखत्। दिल्यां तल्कतोरा क्रीडागृहे एव कार्यक्रमः प्रचालयिष्ते।
Saturday, February 10, 2018
'नाथुल' मार्गेण कैलसयात्रा चीनया अनुज्ञा प्रदत्ता।
नवदिल्ली> कैलासः मानससरोवरं च दृष्टुमुत्सुकानां तीर्थाटकानां कृते नाथुल पर्वतमार्गः उद्घाटयितव्यम् इति अभिलाषः चैनाराष्ट्रेण अङ्गीकृतम् । दोक्ला विषयसंबन्ध-रोषेण गतबर्षे अयं मार्गः चीनेन पिधानं कृतम् आसीत्। उभयराष्ट्रयोः चर्चायां भारतेन अयं विषयः उन्नीतः चीनेन अनुकूल प्रकिया स्वीकृता इति च विदेशकार्यमन्त्रिणा वि के सिंहेन लोकसभायाम् उक्तम्।
Friday, February 9, 2018
एकं प्रत्यभिज्ञानपत्रं तत्र दोषः किम्- सर्वोच्च न्यायालयः।
नवदिल्ली>एकं राष्ट्रं एकं प्रत्यभिज्ञानपत्रं तत्र दोषः किम् इति सर्वोच्च न्यायालयः अपृच्छत् । आधारपत्रं विरुद्ध्य बंगालराज्य सर्वकारेण प्रदत्ते न्यायव्यवहारे न्यायवादाः प्रचलत् अस्ति। सर्वकारस्य कृते उपस्थितस्य न्यायवादिनः कपिल् सिबिलस्य वादान् श्रुत्वा आसीत् सर्वोच्च न्यायालयस्य मुख्यन्यायाधीशस्य दीपक् मिश्रस्य प्रश्नकरणम्। केन्द्रीकृत्य संरक्षितानि विवरणानि चोरणं कर्तुं शाक्यते इत्यनेन पूर्णतया चोरणं शक्यते इति अर्थः नास्ति। विवरणानां संरक्षणाय अधिकसुरक्षितप्रक्रमाः अवश्यकाः इत्येव सूच्चते इति न्यायाधीशः चन्द्रचूडः अवदत्। आधारपत्रस्य शासन संविधानुसारं साधुता नास्तीति कपिल् सिबिलः स्ववादमुन्नीतवान् - वादप्रतिवादाः अनुवर्तन्ते।
जैवौषध-चिकित्सायां नूतनाविष्कारेण- भारतीयाः।
सिंहपुरम् > अर्बुदसमान रोगान् आरंभकाले प्रत्यभिज्ञाय चिकित्सां करोति चेत्रोगपरिमार्जनं शक्यते। किन्तु रोगस्य आधिक्यावस्थायामेव प्रत्यभिज्ञानप्रप्तिः इत्यनेन रोगान्मुक्तिः नास्ति। अतः रोगबाधायाः आरंभकाले एव प्रत्यभिज्ञानम् आवश्यकम्।
अस्याम् अवस्थायाम् सिंहपुरदेशस्थ नान् याङ् टेक् निक्कल् विश्वविद्यालयस्य गवेषकः डा. श्रीकान्त् के वि (केरलम्) नाषणल् विश्वविद्यालयस्य डा शिवरामपणिक्कर् श्रीजित्तः , याङ् विश्व विद्यालयस्य प्राध्यापकः डा. रञ्जन् सिंहः (बिहार्) च मिलित्वा परीक्षण निरीक्षणानि कृतवन्तः।
२०१६ ओक्टोबर् मासे आरब्धगवेषणम् एव इदानीं सफलतां प्राप्तम्। बयोसेन्सर् नाम नूतनविद्यया अर्बुदादिरोगान् आरम्भकाले एव प्रत्यभिज्ञातुं शक्यते। सूक्ष्मातिसूक्ष्मवस्तुः वा आकारयुक्तवस्तुः वा ततः प्रतिफलित प्रकाशान् उपयुज्य अवगन्तुं बहुप्रयत्नः आवश्यकः । किन्तु इदानीं 'नानो बयो सेन्सर्' नामिकया नूतन विद्यया वैषम्यानां पारंगताः एते श्रमशालिनः गवेषकाः।
Thursday, February 8, 2018
भूचलनेन महासौधानि भूमेः अन्तर्गतानि। ५ जनाः मारिताः २४७ क्षताः
हुवालिन्> तैवान् राष्ट्रे भूचलनेन महान्तः नाशनष्टः। पञ्चः जनाः मृताः सप्तचतवारिंशतधिक द्विशतं क्षताः। बहवः अप्रत्यक्षाः च । रिक्टर् मापिन्यां भूचलनस्य शक्तिः ६.४ इति अङ्किताI द्वादश अट्टयुतहर्म्यस्य अट्ट चतुष्टयः भूमेः अन्तः मग्नाः। विंशतिजनाः अट्टात् रक्षिताः। रक्षाप्रवर्तनानि प्रचलन्ति। नवशतं जनान् सुरक्षितस्थानं प्राविशत् । विद्युत्बन्धः विनष्टः। उपशतम् अनुबन्धचलनानि अजायत इत्यनेन अपघातस्य व्याप्तिः विस्तृता अभवत् ।
१९९९ तमे आसीत् भूतपूर्व भूचलनम्। तस्मिन् समये भूकम्पस्य तीव्रता ७.६ इत्यासीत् । तदा चतुश्शतोत्तर-द्विसहस्रं जनाः मारिताः ।
Wednesday, February 7, 2018
एकेन सूचिना सूचीकर्मः ४६ जनाः एच् ऐ वि रोगबाधिताः।
उन्नावो> उत्तरप्रदेशस्थ उन्नावोदेशे एकेन सूचिना कृते सूची प्रयोगे षट्चत्वारिंशत् (४६) जनाः एच् ऐ वि रोगबाधिताः अभवत्I गत-दशमासाभ्यन्तरे एव रोगबाधितानां संख्या एतावत् वर्धिता। एतस्य पृष्टभूमौ कृते अन्वीषणे एव निर्णायकः विशदांशाः लब्धाः। अनेन प्रकारेण चिकित्सां कृतवत्भ्यः व्याज -चिकिन्सकेभ्यः अन्वीषणम् आरब्धम् । एप्रिल् मासतः जूलैपर्यन्तं कृतान्वीषणे द्वादशजनाः (१२) रोगाणुबाधिताः इति स्पष्टः अभवत्I बंगर्मौ मण्डले एव आसीत् अयम्। नवंबर् मासे कृते अध्ययनेऽपि त्रयोदशजनाः अणु बाधिताः आसन् इत्यपि आवेदितः इति प्रधान चिकित्सकाध्यक्षेण डा एस् पि चौधरिणा उक्तम्।
गतमासे प्रवृत्ते निरीक्षणे द्वात्रिंशत् (३२) जनाः रोगबाधिताः। रोगबाधितेभ्यः षट्वयस्कः शिशुरपि अन्तर्भवति। राज्यसर्वकारेण विषयमधिकृत्य अन्वीषणं क्रियते इति उत्तरप्रदेशस्य स्वास्थ्यमन्त्रिणा सिद्धार्थ नाथसिंहेन उक्तम्।
कुलभूषणजादवस्योपरि अधिकतया दुष्टारोपं कृत्वा पाकिस्थानः।
इस्लामबादः> मृत्युदण्डं लब्ध्वा पाकिस्थानस्य कारागृहे उषितः कुल् भूषण् जादवस्योपरि नूतनया अधिकदोषाः आरोपिताः इति आवेदनम् लब्धम्। आतङ्कवादः, विरुद्धप्रवर्तनानि च एतस्योपरि अधिकतया संयोजिता दुरारोपः इति पाकिस्थानस्य वार्ता पत्रिकयाम् आवेदितम्। २०१६ मार्च् मासे बलूचिस्थानस्य प्रविश्यातः, एव कुलभूषणः पाकिस्थानस्य सेनया गृहीतः
Tuesday, February 6, 2018
शिलातैलात् सौरोर्जं प्रति- नवीनया योजनया सौदि अरेब्य।
रियाद्> प्रधान आयमार्गः शिलातैलः आसीत्। किन्तु इदानीं तैल्यस्य विपण्यां मूल्यं न्यूनं अभवत् इत्यनेन नूतनम् आयमार्गं अन्विष्य सौदि अरेब्या। विविधमण्डलेषु स्वदेशीयकरणं कृत्वानान्तरं सौरोर्ज-योजनायाः आयोजनम् आलोच्यन्ते सौदीशासकाः। भाविनिकाले प्रधान आयस्य स्रोतः इति रूपेण सौरोर्जं परिवर्तितुं सुसज्जाः भवितुं निश्चितं सौदीराष्ट्रेण। आर्थिक व्यवस्थां विविधतया विपुलीकर्तुं राजकुमारस्य सल्मान् बिन् मुहम्मदस्य नेतृत्वे भवति नूतना पद्धतिःI
मालद्वीपे आपत्कालघोषणा।
माले> राजनैतिक-सन्निग्धता अनुवर्तमाने सति मालद्वीपे राष्ट्रपतिना अब्दुल्लायमीन् इत्याख्येन आपत्कालघोषणा ख्यापिता। पञ्चदश दिनपर्यन्तमेव घोषणाकालः। सन्दर्भेस्मिन् भारतीयैः जाग्रता पालनीया इति विदेशकार्य मन्त्रालयेन उक्तम्I मालद्वीप सन्दर्शनम् इदानीं मास्तु इति मन्त्रालयेन उपदिष्टाः।Monday, February 5, 2018
सीमनि पाक् आक्रमणम् - चतुर्णां सैनिकानां वीरमृत्युः।
श्रीनगरम्> पाक् सैन्यस्य आक्रमणेन चत्वारः भारतसैनिकाः वीरमृत्युं प्राप्ताः। जम्मूकाश्मीरे नियन्त्रण-रेखायाः समीपे पूञ्च् रजौरी जनपदयोः एव भुषुण्डिप्रयोग-विरामसन्धिः उल्लङ्घ्य आसीत् पाक् सैन्यस्य आक्रमणम् । भारतेन शक्तया रीत्या प्रतिक्रिया कृता च । प्रकोपनं विना रविवासरे प्रभातादारभ्य 'षेल्' आक्रमणम् आरब्धम् आसीत्I 'मोर्टार्' नियन्त्तायुधाः मिसैल् आदयः आक्रमणाय उपयुक्ताः। पूञ्च् जनपदे प्रवृत्ते सैनिकाक्रमणे एका बालिका एकः सैनिकः च क्षतौ। साम्ब घण्डे सीमा-सुरक्षासेनया पाक् सैन्यस्य निलीनप्रवेशः निरुद्धः आसीत्। एतस्य पश्चात् एव पाक् सेनया भुषुण्डिप्रयोगः आरब्धः। जनुवरि १८तः २२ पर्यन्तं जम्मुप्रदेशो आपन्ने आक्रमणे ८ प्रदेशवासिनः ६ सैनिकाः आहत्य १४ जनाः मारिताः। ६० अधिकाः क्षताः च । सुरक्षानुबन्धतया रजैरी पूञ्च् जम्मु साम्ब जनपदेषु ३०० विद्यालयानां गतदिनेषु विरामः प्रदत्तः आसीत् । Sunday, February 4, 2018
गुजरातसर्वकारेण संस्कृतसाहित्य-ज्ञानवर्धकं जीवन्त-प्रश्नोत्तरी प्रतियोगिता आयोजिता ।
G.C.E.R.T - गांधीनगस्य, ESSAR OIL - जामनगरस्य च उपलक्ष्ये जनपद-शिक्षण-प्रशिक्षण-भवन-जूना गढपक्षत: (DIET) आयोजितं जूनागढ-गीर सोमनाथजनपदस्तरीय शिक्षणक्षेत्रे शैक्षणिक: नवीकरण-प्रदर्शनं (educational innovation fair-2018) गीर सोमनाथजनपदस्य वेरावलप्रान्तस्य इणाजग्रामे गुजरातसर्वकारेण संचालित: 'इणाज मॉडल स्कूल' इति विद्यालये गतदिने समायोजित: । सर्वप्रथमं कार्यक्रमस्य आरम्भ: अभवत् । अनन्तं मञ्चोपरि नवीकरणस्य लघु-चलचित्राणां प्रदर्शनम्। अस्यां नवीकरण-प्रदर्शने संस्कृतभाषाया: प्रचार-प्रसारार्थं (innovation fair-2018) गीर सोमनाथजनपदस्य वेरावलप्रान्तस्य सर्वकारीय श्रीकाजली प्राथमिक-शालाया: शिक्षक: श्री जगदीश: डाभीमहोदयेन जनसञ्चारमाध्यमोपरि संस्कतसाहित्यज्ञानवर्धकं जीवंत-प्रश्नोत्तरी प्रतियोगिता (सोशल मिडिया फेसबुक) पर लाइव प्रश्नोत्तरी प्रतियोगिता द्वारा संस्कृत शिक्षण) प्रतिरूप-परियोजना स्वरुपे प्रस्तुता जाता । अस्मिन् जनपदस्तरीय प्रदर्शने गीर सोमनाथजनपदस्य ३३ नानाविध-प्रतिरूप-परियोजना: प्रस्तुता: जाता:। इत्यस्मिन् समारोहे आयोजकपक्षत: जगदीश: डाभीमहोदयेन सह परियोजना प्रस्तुतं कृतवता: ३३ शिक्षकान् प्रमाणपत्रं दत्त्वा सम्मानितं कृतवान्। अस्मिन् समारोहस्य सुव्यवस्थितम् आयोजनं जूनागढजनपद-शिक्षण-प्रशिक्षण- भवनस्य प्राचार्य: श्री वि.एम. पंपाणियामहोदय: प्राचार्य: मुकेश: धारैयामहोदयश्च कृतौ । जगदीश: डाभीमहोदयेन प्रस्तुता परियोजना संस्कृतसाहित्य-ज्ञानवर्धकं जीवंत-प्रश्नोत्तरी प्रतियोगिता प्रत्येक-रविवासरे रात्रौ नववादनत: दशवादन-पर्यन्तम् आमुखपटलस्य (फेसबुक) संस्कृतं जनभाषा भवेत् इति समूहोपरि प्रचलन् अस्ति ।
अस्या: प्रतियोगिताया: आयोजक: गुजरातत: जगदीश: डाभी अस्ति । सहायका: पण्डितः दीपकशास्त्री (राजस्थानम्), अमित: ओली (उत्तराखंड:), मञ्जु भट्टाचार्य: (महाराष्ट्र:), डॉ. सन्ध्याठाकुर: (उत्तरप्रदेश:), डॉ. योगेशव्यास: (राजस्थानम्), शिवांगी शर्मा (देहली), प्रकाश रंजन मिश्र: (बिहार:) च सन्ति ।अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजकाः सुरतत: (गुजरातम्) दैनिक-संस्कृतसमाचारपत्रं 'विश्वस्य वृत्तान्तम्', हरिद्वारत: भुवनेश्वरी बालकुमारी ट्रस्ट, जयपुरत: भारती संस्कृत-मासपत्रिका च सन्ति ।
कान्सर् रोगस्य औषधं सम्प्राप्तम्।
न्यूयोर्क्> अर्बुदचिकित्सायां पुरोगतिं प्रख्याप्य वैज्ञानिकाः। तैः वैज्ञानिकैः दृष्टं रासवस्तून् उपयुज्य मूषिकेषु कृते गवेषणे अर्बुद-रोगशान्तये औषधं सफलम् इति प्रमाणम् अभवत्। अतः इदं ओषधं मनुष्येषु प्रयोगं कर्तुं यतन्ते। अतिसूक्षमपरिमाणपरिमितं द्वे प्रतिरोधवर्धक-वस्तुनी अर्बुदकोशेषु सूचिद्वारा सिन्नवेश्य आसीत् पर्यवेषणम् । तदा रोगेण वर्धितांशाः अप्रत्याक्षाः अभवन्I स्टाफट् विश्वविद्यालयस्य 'ओङ्कोलजी' विभागास्य प्राध्यापकः रोणाल्ड् लेवि वदति यत् लिम्फोम कान्सर् रोगं विरुद्घ्य नवति-संख्या-परिमितेषु मूषिकेषु कृतेषु पर्यवेषणेषु सप्ताशीति संख्याकाः मूषकाः पूर्णतया रोगान्मुक्ताः अभवन्। अवशिष्टेभ्यः पुनरपि सूचीकर्म क्रियते । science translational medicine journal मध्ये एव अध्ययनमिदं प्रकाशितम्I
Saturday, February 3, 2018
अन्त: ऊनविंशति: वयोमितानां विश्वचषकक्रिकेटस्पर्धा भारतेन विजिता
पुरुषोत्तम शर्मा
न्यूजीलैण्डदेशे समायोजिताया: अन्त: ऊनविंशति: वयोमितानां विश्वचषकक्रिकशृङ्खला भारतेन स्वायत्तीकृता शनिवासरे न्यूजीलैण्डस्य मॉउण्ट् मौनगनयूस्थे क्रीडाङ्गणे क्रीडिते निर्णायकद्वन्द्वे ऑस्ट्रेलियादलेन प्रथमक्रीडयता भारताय षोडशोत्तरद्विशतं धावनाङ्कानां लक्ष्यं प्रदत्तमासीत्। लक्ष्यमनुसरता भारतीयदलेन ऑस्ट्रेलियावृन्दम् अष्टक्रीडकाणां सुरक्षापुरस्सरं पराजितम्। । मनजोतकालड़ा एकोत्तरशतं धावनाङ्का: समर्ज्य क्रीडापुरुषत्वेन चित:।
विद्यार्थिनः कृते मोदिना विरचितं पुस्तकं अद्य प्रकाश्यते।
नवदिल्ली> परीक्षां अभिमुखीकर्तुं छात्रेभ्यः आत्मविश्वासप्रदायकं पुस्तकं विरच्य प्रधानमन्त्री नरेन्द्रमोदी। पुस्तकस्य नाम 'Exam-warriors' इति भवति। पुस्तकमिदम् अद्य प्रकाश्यते। चाणक्यपुरस्थस्य प्रवासी भारतीयकेन्दे पादोन-चतुर्वादने प्रकाशन-कार्यक्रमः प्रचाल्यते। भारतस्य विदेशकार्य-मन्त्रिणी सुषमा स्वराजः मुख्यातिथि रूपेण वर्तिष्यते। मानव-संसाधन-विकसन-मन्त्री प्रकाश् जावदेक्करः अपि कार्यक्रमे विशेषभाषणं करिष्यति। प्रधानमन्त्रिणः मन् की बात् इति प्रतिमास कार्यक्रमद्वारा अपि, परीक्षावेलायां छात्राः समाश्वसिताः आसन्।
Subscribe to:
Comments (Atom)


