OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 9, 2018

जैवौषध-चिकित्सायां नूतनाविष्कारेण- भारतीयाः।
            सिंहपुरम् > अर्बुदसमान रोगान् आरंभकाले प्रत्यभिज्ञाय चिकित्सां करोति चेत्‌रोगपरिमार्जनं शक्यते। किन्तु रोगस्य आधिक्यावस्थायामेव प्रत्यभिज्ञानप्रप्तिः इत्यनेन रोगान्मुक्तिः नास्ति। अतः रोगबाधायाः आरंभकाले एव प्रत्यभिज्ञानम् आवश्यकम्। 
           अस्याम् अवस्थायाम् सिंहपुरदेशस्थ  नान् याङ् टेक् निक्कल् विश्वविद्यालयस्य गवेषकः डा. श्रीकान्त् के वि (केरलम्) नाषणल् विश्वविद्यालयस्य डा शिवरामपणिक्कर् श्रीजित्तः , याङ् विश्व विद्यालयस्य प्राध्यापकः डा. रञ्जन् सिंहः (बिहार्) च मिलित्वा परीक्षण निरीक्षणानि कृतवन्तः।
२०१६ ओक्टोबर् मासे आरब्धगवेषणम् एव इदानीं सफलतां प्राप्तम्। बयोसेन्सर् नाम नूतनविद्यया अर्बुदादिरोगान् आरम्भकाले  एव प्रत्यभिज्ञातुं शक्यते। सूक्ष्मातिसूक्ष्मवस्तुः वा आकारयुक्तवस्तुः वा ततः प्रतिफलित प्रकाशान् उपयुज्य अवगन्तुं बहुप्रयत्नः आवश्यकः । किन्तु इदानीं  'नानो बयो सेन्सर्' नामिकया नूतन विद्यया वैषम्यानां पारंगताः एते श्रमशालिनः गवेषकाः।