OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 7, 2018

एकेन सूचिना सूचीकर्मः ४६ जनाः एच् ऐ वि रोगबाधिताः।
          उन्नावो> उत्तरप्रदेशस्थ उन्नावोदेशे एकेन सूचिना कृते सूची प्रयोगे षट्चत्वारिंशत् (४६) जनाः एच् ऐ वि रोगबाधिताः अभवत्I गत-दशमासाभ्यन्तरे एव रोगबाधितानां संख्या एतावत् वर्धिता। एतस्य पृष्टभूमौ कृते अन्वीषणे एव निर्णायकः विशदांशाः  लब्धाः।  अनेन प्रकारेण चिकित्सां कृतवत्भ्यः व्याज -चिकिन्सकेभ्यः अन्वीषणम् आरब्धम् । एप्रिल् मासतः जूलैपर्यन्तं कृतान्वीषणे  द्वादशजनाः (१२) रोगाणुबाधिताः इति स्पष्टः  अभवत्I बंगर्मौ मण्डले एव आसीत्  अयम्। नवंबर् मासे कृते अध्ययनेऽपि त्रयोदशजनाः अणु बाधिताः आसन् इत्यपि आवेदितः इति प्रधान चिकित्सकाध्यक्षेण डा एस् पि चौधरिणा उक्तम्। 

        गतमासे प्रवृत्ते निरीक्षणे द्वात्रिंशत् (३२) जनाः रोगबाधिताः। रोगबाधितेभ्यः षट्वयस्कः शिशुरपि अन्तर्भवति। राज्यसर्वकारेण विषयमधिकृत्य अन्वीषणं क्रियते इति उत्तरप्रदेशस्य स्वास्थ्यमन्त्रिणा सिद्धार्थ  नाथसिंहेन उक्तम्।