OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 12, 2018

राजनैतिकदलानां अड्गीकारं रोद्धुम् अधिकारः आवश्यकः इति निर्वाचकायोगः।
            नवदेहली>  राजनैतिक दलानां अड्गीकारं रोद्धुम् अधिकारः तथा दलेषु आभ्यन्तर जनाधिपत्यं चालयितुं अधिकारः आवश्यकः इति निर्वाचकायोगः।   १९५१ तमे वर्षे आगतेन जनप्रातिनिध्य नियमेन इदानीं वर्तमानेभ्यः  राजनैतिक दलेभ्यः अड्गीकारं दातुं अधिकारः निर्वाचकायोगस्य वर्तते किन्तु अड्गीकारं रोद्धुम् अधिकारः नास्ति। अतः जनप्रातिनिध्य नियमे भेदगतयः आवश्यकाः।
अमित् शर्मा अश्विनी उपाध्याया इत्येते अभिभाषकौ कलड्किताः जनाः दलानां रूपीकरणात् रोद्धव्याः इति उच्चतरनीतिपीठं निवेदितवन्तौ। तयोः समाधानरूपेण निर्वाचकायोगस्य प्रस्तावः। गत विंशति वर्षेभ्यः जनप्रातिनिध्य नियमे भेदगतयः आवश्यकाः इति केन्द्र सर्वकारं प्रति पत्रप्रेषणं कुर्वन्तः स्मः। किन्तु किमपि प्रयोजनं न लब्धम्। २०१६ फेरुवरी तः डिसंबर पर्यन्तं कृते अन्वेषणे २५५ राजनैतिक दलाः केवलं पत्रेषु एव वर्तते।
            राजनीतिं अक्रममुक्तं कर्तुं  प्रयत्ने जागरूकः अस्ति निर्वाचकायोगः। तदर्थं सर्वकारस्य साहाय्यं तथा नियमभेदगतिः च आवश्यकौ इति सत्यप्रस्तावे निर्वाचकायोगेन उक्तम्। आगामिनि मंगलवासरे उच्चतरनीतिपीठं निवेदनमिदं  गणयिष्यति।