OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, March 9, 2018

एकाकी भूत्वा यात्रां कृतवत्भ्यः स्त्रीभ्यः पट्टिकायाने षट् शायिकारक्षणः लभन्ते|

         कोच्ची> पट्टिकायाने एकाकी वा स्त्रीणां वृन्दः वा यात्रां कारोति चेत् तेषां कृते षट् संख्या पर्यन्तं शायिकारक्षणानि लभन्ते इति दक्षिणरयिल् संस्थया निष्कर्षिताः। प्रति यानशालां षट् शायिका क्रमेण संक्षेपयिष्यते। वातानुकूलगृहे तृतीये द्वितीये च तिस्रः शायिका इति क्रमेण संक्षेपयिष्यते।
         आर् ए सि पट्टिकायं एकाकिनी भूत्वा स्त्रियः सन्ति चेन् प्रथगणा प्रथम स्थानीयान् विगणय्य स्त्री यात्रिकाय दातव्यं इति रयिल् मन्त्रालयेन निर्दिष्टम्I द्वितीयपरिदृष्टिः वृद्धजनानां कृते एव परिकल्पिता अस्ति। अस्मिन् काले स्त्रियः एकाकी भूत्वा अधिकतया विचरन्ति इति ज्ञात्वा एव रयिल् मन्त्रालयस्य अयम् आदेशः।

Thursday, March 8, 2018

प्रतिमाविध्वंस: गर्हणीयः  प्रधानमन्त्री। 
       नव दिल्ली > राष्ट्रे कतिपयस्थानेषु सामाजिकपरिष्कर्तृृणां नेतॄणां च प्रतिमाविध्वंसनम् अपलपन् प्रधानमन्त्री नरेन्द्रमोदी! एतादृशानां विध्वंसकप्रवर्तनानां विरुध्य तीक्ष्णः क्रियाविधिः आवश्यक इति प्रधानमन्त्री अब्रवीत्!  एतादृशानां घटनानाम् उत्तरदायिनः  जिल्लाधिकारिणः आरक्षकाधिकारिणश्च भवेयुरिति तेन प्रोक्तम्।
          गतदिनेषु त्रिपुरराज्ये लेनिनस्य , तमिल्नाटु मध्ये पेरियार् वर्यस्य , वंगदेशे श्यामप्रसाद् मुखर्जी वर्यस्य, उत्तरप्रदेशे अम्बद्कर् महोदयस्य च प्रतिमाः विध्वसिताः आसन्!
गुरुग्रामे संस्कृतकार्यशाला सम्पन्ना
         ह्यःचैत्र कृष्ण षष्ठ्यां संवत् २०१८ बुधवासरे (०८-०३-२०१८) सरलमानक संस्कृतम्-एकदिवसीया कार्यशालाया: आयोजनं गुरुग्रामस्थ द्रोणाचार्य महाविद्यालये अभवत । अस्याः कार्यशालायाः आयोजनं हरियाणा संस्कृत अकादमी पञ्चकूला ONGC-CSR-SPF परियोजनायाः संयुक्ततत्वाधाने कृतवती। अस्मिन् कार्यक्रमे मुख्यातिथिःडॉ श्रेयांश द्विवेदी उपाध्यक्ष,हरियाणा संस्कृत अकादमी ।

       कार्यशालायां चत्वारि सत्राणि  आसन्। प्रथमसत्रे किमर्थं सरलमानकसंस्कृतम् ? इति विषये मुख्यवक्ता आसीत् डा. श्रेयांश द्विवेदी । द्वितीयसत्रे सरलमानकसंस्कृतस्य स्वरूपम् इति विषये वक्ता डॉ जगदम्बे वर्मा आसीत् ।  तृतीयसत्रे प्रौढसंस्कृतस्य सरलमानकसंस्कृतेनपरिवर्तनाभ्यासः इति विषये वक्ता गौरीश:,परास्नातकश्छात्र,देहलीविश्वविद्यालय: आसीत्। चतुर्थसत्रे सर्वमान्य कसंस्कृतस्य क्रियान्वयनम् इति विषये वक्ता रूपेण डॉ मीनाक्षी पाण्डेयआसीत् ।
अस्मिन् अवसरे अनेका: संस्कृतानुरागिणःशोधकर्तारश्छात्राः च सोत्साहं भागं गृहीतवन्तः ।
आन्ध्रप्रदेशस्य सविशेषस्थानं नास्ति, टि डि पि मन्त्रिणः त्यागपत्रं समर्पितवन्तः। 
           नवदिल्ली > आन्धप्रदेशराज्यस्य सविशेषस्थितिः आर्थिकसञ्चयश्च आवश्यकः इत्यावेदनस्य अनङ्गीकारं प्रतिषिध्य केन्द्रसर्वकारात् तेलुगु देशं पार्टी [टि डि पि] दलीयाः मन्त्रिणः स्वस्थानानि त्यक्तुं निर्णयः। हैदराबादे आन्ध्रप्रदेशमुख्यमन्त्रिणः तथा दलाध्यक्षस्य च  चन्द्रबाबुनायिडोः नेतृत्वे सम्पन्ने डि पि दलस्य उन्नताधिकारोपवेशने एवायं निर्णयः। त्यागपत्रसमर्पणम् अद्य भविष्यति।
             आन्ध्रप्रदेशाय सविशेषपदवीं दातुं न शक्यते इति केन्द्रगृहमन्त्रिणा अरुण् जय्टिलिना पत्रकारसम्मेलने प्रख्यापनं कृत्वा होराणामाभ्यन्तरे एव टि डि पी नेतृत्वस्य निश्चयोऽयं जातः।
सागरमहातरङ्गं जित्वा एका कूपी, तस्यां १३२ वर्षपुरातनः सन्देशः च।
          पेर्त् > सङ्रणक यन्त्रस्य जी पि. एस् पथस्य पूर्वं सागरे जायमानान्‌ व्यत्ययान्‌ज्ञेतुम् उपयुक्तः मार्गः आसीत् । तदेव सन्देशान् काकदे विलिख्य कूप्यां संस्थाप्यः सागरे निक्षिप्य आसीत् । एतावत्  विश्वस्य पुरातनेषु पुरातनः सन्देशः गत दिने सागर तीराल्लब्धम्। अस्य कूप्याः सन्देशस्य च पुरातनत्वं द्वात्रिंशदधिकेकशतं (१३२) संवत्सराणि एव। ओस्ट्रेलिया भूखण्डस्य पश्चिमभागतीरदेशात् कूपी लब्धा। सागरस्य प्रवाहमधिकृत्य ज्ञातुं १८८६ तमे संवत्सरे निक्षिप्तः सन्देशः भवति अयम्।  सागरतेरे अटन्तः डोणिय इल्मान् इति महिलायै एव यदृछया सन्देशः लब्धः। कूप्याः विशेषतयाम् आकृष्टा सा कूपी ततः ग्रहीता। 
त्रिपुरायां व्यापकः अक्रमः अनुवर्तते।
अगर्तला > निर्वाचन फलप्रख्यापनानन्तरं त्रिपुराराज्यस्य विविधेषु स्थानेषु अक्रमप्रवर्तनानि अनुवर्तन्ते। कम्म्यूणिस्ट् नेतुः लेलिनस्य प्रतिमाः सि पि एम् दलस्य कार्यालयाश्च भग्नाः जाताः। निर्वाचनविजये मतिभ्रमग्रस्ताः भाजपादलानुयायिनः एव अक्रमस्य कर्तारः इति सिपिएम् दलीयैः आरोप्यन्ते।

Wednesday, March 7, 2018

EPISODE 78 Sanskrit News
एम् जी आर् महोदयस्य अनुपुरुषवत् आगच्छामि।
चेन्नै> अयम् आगच्छामि जयललिता महाभागया कृता शून्यता-निवारणाय इति तमिल् नटः रजनीकान्तः। तमिळ् नाट् राज्यस्य कृते कश्चन नेता आवश्यकः, सः नेता अयमेव भवामि इति तेन उक्तम्। डा. एम् जि आर् एट्यूकेषन् आन्ट् रिसर्च् संस्थायां एम् जि आर् महोदयस्य प्रतिमायाः अनाच्छादन सन्दर्भे भाषमाणः आसीत् सः। कोऽपि राजनैतिकदलीयाः  मम राजनैतिक-दलप्रवेशः न अभिलषन्ति। किमर्थं मत्तः बिभेति। एम् जि आर् महोदयमिव उत्तमं शासनं कर्तुं ममापि शक्यते।  रजनीकान्तः अवदत्। राजनैतिक प्रवर्तनानि न सुकराणि। इतः पर्यन्तं जयललिता महा भागा तथा एम् जि आर् महाभागः च आस्ताम्। द्वावपि शक्तौ वैय्यक्तिक सविशेषतायुक्तौ अस्ताम् I एतौ इदानीं न स्तौ। एतयोः स्थाने स्थित्वा जनसेवनमेव मम अभिलाषः इति रजनीकान्तः अवदत्। एम्. जि आर् महाभागमिव उत्तमं शासनं कर्तुं मम शक्यते इति मम विश्वासः इत्यपि सः अवदत्। 

Tuesday, March 6, 2018

प्रतिरोधक्षेत्रे चीनस्य विहितं भारतस्य विहितात् त्रिगुणम्।
              बैजिङ्- प्रतिरोधक्षेत्रे ८.१ प्रतिशतं  वृद्धिःकृत्वा चैनायाः आर्थिकपद्धतिः।अस्मिन् आर्थिकवर्षे १७५ बिल्यण् (१७,५०० कोटि रूप्यकाणि) अमेरिका टोलर् प्रतिरोधक्षेत्राय चैनया दत्ता। भारतस्य विहितस्य त्रिगुणमेतत्। गतवर्षे १५०.५ बिल्यण् (१५०५० कोटि रूप्यकाणि) डोलर् चैना प्रतिरोध क्षेत्रे व्ययीकृता।अमेरिक्का अनन्तरं विश्वे प्रतिरोधक्षेत्रे अधिकं धनं चैना एव व्ययीकरोति।अन्यराष्ट्रान् अनुबन्ध्य जी टी पि मध्ये देशीय आर्थिकोपभोगे च आगतस्य वृद्धेः प्रतिफलनमेव अस्यां आर्थिकपरियोजनायां वर्तते इति चैनायाः औद्योवक्ता साङ् येसूयि उक्तवान्।
दोक्ला प्रदेशे चीनेन उदग्रयानचत्वराः निर्मीयन्ते। - प्रतिरोधमन्त्रिणी।
         नवदिल्ली> दोक्ला प्रदेशेषु चीनया उदग्रयानचत्वराः तथा गर्ताः च निर्मीयन्ते इति भारतप्रतिरोधमन्त्रिणी निर्मलासीताराममहोदयया उक्तम्। निर्माणप्रवर्तनानि भारताय भीषा न इत्यपि तया विधानसभायां निवेदितः। शैत्यकाले सैन्यान् दोक्लायां संस्थापयितुमुद्दिश्य एव निर्माणप्रवर्तनानि। सार्धद्वयमासं यावत् दीर्घां  सङ्घर्षावस्थां २०१७ ओगस्ट मासे अवसिता। तदनन्तरम् उभौ राष्ट्रौ तयोः सौनिकबलं न्यूनीकृतम्। सम्मुखीकृताः सैनिकाः प्रतिनिवृत्ताः। तदनन्तरं दोक्लामस्य स्थिति विगतयः भारतेन ससूक्ष्मतया विक्ष्यते इत्यपि मिर्मलासीताराम महाभागया उक्तम्। ध्वजमेलनानि, वैयक्तिकसीमोपवेशनानि, नयतन्त्रबन्धानि च अनुवर्त्यन्ते इति च प्रतिरोध मन्त्रिण्या उक्तम्I
'दि षेप्ओफ् वाटर्' चलच्चित्रस्य चत्वारः ओस्कार् पुरस्काराः।
      लोस् आञ्चलस् > मेक्सिक्को देशीयेन गिल्लेर् मो डेल् नामकेन निदेशं कृतं 'दि षेप् ओफ् वाटर्' [जलाकृतिः] नामकं चलच्चित्रं नवतितमेन ओस्कार् पुरस्कारेण श्रेष्ठीकृतम्। मो डेल् वर्यः उत्तमनिदेशकरूपेण पुरस्कृतश्च।  
     महिला-जलमनुष्ययोः अगाधप्रणयमस्ति दि षेप् ओफ् वाटर्' चलच्चित्रस्य इतिवृत्तम्। 'डार्केस्ट् अवर्' नामके चित्रे विन्स्टण् चर्चिल् इति अमेरिक्कन् राष्ट्रपतिरूपेण अभिनयं कृतवान् 'गारी ओल्ड्मान्' नामकः  श्रेष्ठाभिनेता अभवत्। श्रेष्ठाभिनेत्री तु 'फ्रान्सस् मक्डोर्मन्ट्' नामिका ।

Monday, March 5, 2018

मेघालया नागालान्ट् राज्ययोरपि भाजपा भागभागित्वेन शासनम्।
नवदिल्ली > त्रिपुरायां प्राप्तम् उज्वलविजयमनुगम्य मेघालया नागालान्ट् राज्ययोरपि भाजपा सख्यदलानां सर्वकारयोः साध्यता वर्धते। मेघालयायां 'नाषणल् पीपिल्स् पार्टी' [एन् पि पि] दलस्य नेतुः कोण्राट् साङ्मा नामकस्य नेतृत्वे एन् पि पि-भा ज पा सख्यसर्वकारः श्वः सत्यप्रतिज्ञां करिष्यति। नाममात्रस्थानेषु विजयीभूतानि अनेकानि लघुदलानि वशीकृत्य एव केवलं स्थानद्वये विजयं प्राप्तं भाजपादलं  १९ स्थानभूतं एन् पि पि दलं च शासनाय आवश्यकी ३१ इति केवलभूयिष्ठसंख्यां प्रापतुः।
अनुरक्त्याम् अनुरक्ताः प्रेक्षकाः ।
प्रप्रथम 3D संस्कृतचलन चित्रस्य प्रेक्षकाणां अभिन्दनप्रवाहः|
    त्रिश्शिवपेरूर्> त्रिश्शिवपेरूर्> केरले सम्पन्ने विश्व चलनचित्रमेलायां भारत 'पनोरम' विभागे 'अनुरक्तिः' नाम त्रिमान (3D ) संस्कृतचलनचित्रमपि चितम् आसीत्। ह्यः (२०१८ मार्च् ४) प्रातः ९:३० वादने आसीत् प्रथम प्रदर्शनम्। त्रिश्शिवपेरूरस्थ 'श्री'  चलनचित्रगृहे एव प्रदर्शनम् आरब्धम् । बहवः जनाः, संस्कृतप्रेमिणः विद्यालयछात्राः, कलाशाला छात्राः च चलनचित्रं द्रष्टुम् आगताः। राज्यान्तरात् अपि चलचित्रं द्रष्टुम् जनाः आगाताः आसन्। प्रदर्शनानन्तरं चलनचित्र संरम्भकाः प्रेक्षकाः च मिलित्वा सङ्गोष्ठिरपि प्रचलिताः। संस्कृतचलनचित्रम् अनुरक्तिं द्रष्टुम् आगतान् जनान् दृष्ट्वा चलनचित्र प्रवर्तकाः अत्भुतस्तब्धाः अभवन्।
पाकिस्थानस्य सेनट् प्रति हिन्दु दलितयुवती।
    इस्लामबाद्> महम्मदीयानां राष्ट्रमिति सुज्ञातः पाकिस्थाने इदं प्रथमतया एका हिन्दु वनिता सेनट् इति शासनसभां प्रति चिता अस्ति। सिन्ध् प्रविश्यायाः कृष्णकुमारी कोल्हि (३९) एव शासन सभां प्रति एवं चिता वनिता। बिलावल् सर्दारि भुट्टो इत्याख्येन नेतृत्वं वोढमाणः पाकिस्थान् पीप्पिल्स् पार्टी अङ्गः भवति सा। सिन्धस्य न्यूनपक्ष स्थानतः एव कृष्णकुमारी चिता इति PTI संस्थया आवेदिता।

Saturday, March 3, 2018

भारतवंशवैज्ञानिकाय अमेरिकातः 7.5 कोटि रुप्यकाणां पुरस्कारः।
 टेक्सास्> भारतवंशवैज्ञानिकाय नवीन् वरदराजाय क्यान्सर् रोगानुबन्ध अध्ययनाय ११ लक्षं डोलर् धनस्य पुरस्कारः लब्धः। डेक्सास् कान्सर् प्रिवन्ट्षन्आन्ट्  रिसर्च् इन्स्टिट्यूट्ट् द्वारा पुरस्कारः प्रख्यापितः। अपि च गवेषकाय सङ्क्युक् च पुरस्काराय अर्हतां प्राप्ता।

नवीन् वरदराजाय 1,173,420 डोलर् धनं(  7.65 कोटि भारत रुप्यकाणि) पुरस्कारत्वेन लब्धे सति
 811,617 डोलर् धनं सङ्क्युक् चुङाय लब्धम् । ( 5.29 कोटि भारत रुप्यकाणि) हू स्टण् विश्वविद्यालयस्य केमिक्कल् आन्ट् बयोमोलिकुलार् एञ्चिनीयरिङ् विभागे असोसियेट्‌ प्रोफसर् एव भवति नवनीत् वरदराजः। बयो केमिस्ट्रि विभागे असोसियेट्‌ प्रोफसर् एव भवति सङ्क्युक् चुङ्। कान्सर् चिकित्सायां टि सेल् इम्यूणोतोरापि विद्यायाः उपयोगान् अधिकृत्य आसीत् नवीनस्य अध्ययनम्। गर्भाशयमुखस्य कान्सर् अधिकृत्य कृताध्ययनाय भवति सङ्क्युक् चुङस्य पुरस्कारः।
विधानसभानिर्वाचनफलानि - भाजपायै आह्लाददायकानि!
        नवदिल्ली > त्रिपुरा, नागालान्ट्, मेघालया राज्येषु सम्पन्नेषु  विधानसभा निर्वाचनेषु भाजपादलस्य श्रेष्ठविजयः। त्रिपुरा विधानसभानिर्वाचने  वामपक्षदलं निष्प्रभं कृत्वा इदंप्रथमतया भाजपादलं शासनाधिकारं सम्प्राप्तवत्। नागालान्ट् राज्ये 'नागा पीपिल्स् फ्रन्ट्' नामकं एन् पि एफ् दलं विजयसोपानं प्राप्तवत्। किन्तु मेघालयायां न केनापि दलेन शासनानुकूलभूरिपक्षं सम्प्राप्तम्। 
         त्रिपुरायां पञ्चविंशतिसंवत्सराणां सिपिएम् नेतृत्वे विद्यमानस्य वामपक्षदलस्य शासनपरम्परायाः अन्त्यं कृत्वा एव २/३ परिमितैः स्थानैः भाजपादलेन विजयपीठमायातम्! सि पि एम् दलन्तु १५ स्थानेषु सङ्कोचते स्म। शासनाय येनकेनापि दलेन केवलभूयिष्ठभागप्राप्तिमलभमाने मेघालयाराज्ये २१ स्थानैः कोण्ग्रस् दलं बृहद्दलम् अभवत्।
जयेन्द्रसरस्वतिस्वामिनां 'वृन्दावनप्रवेशकार्यक्रमः' सम्पन्नः। 
चेन्नै > शतशः भक्तानां शिष्याणां च सान्निध्ये  गतदिने समाधिस्थानां  काञ्चि मठाधिपतिनां स्वामिनां जयेन्द्रसरस्वति शङ्कराचार्याणां वृन्दावनप्रवेशनामकः समाध्युपावेशकार्यक्रमः सम्पन्नः।  काञ्चि कामकोटिमठस्य पृष्ठतः सम्पन्ने कार्यक्रमे नियुक्तमठाधिपतिः विजयेन्द्रसरस्वतिस्वामिनः मुख्यकार्मिकत्वम् अभजत। तमिळ्नाट् राज्यपालः बन्वारि लाल् पुरोहितादयः प्रमुखाः कार्यक्रमे$स्मिन् सन्निहिताः आसन्!   काञ्चिकामकोटिमठस्य आचार्यस्थाने विजयेन्द्रसरस्वतिस्वामिनः नियुक्ताः अभवन्!

Friday, March 2, 2018

आतपस्य मासाः आगमिष्यते। अत्युष्णेन केरलम् अपिI
           कोच्ची > केरलेषु फेब्रुवरि मासस्य अन्तिमभागे एव अत्युष्णम् आरब्धम्।  उष्णमापिन्यां तापः ४०° सेल्स्यस्  पारंगतः इत्यनेन अत्युष्णम् भविष्यति इति अभिज्ञानां मतम्। शनिवासरपर्यन्तं सामान्यतापमानात् चत्वारः आरभ्य दशडिग्री पर्यन्तं वर्धनं भविष्यति इति वातावरणनिरीक्षणकेन्द्रेण उच्यते। २७तः २९° पर्यन्तमासीत् केरलस्य सामान्यतापमानः। मार्च् मासतः मेय् मासपर्यन्तम् सामान्यतापमाने ०.५° वर्धनं भविष्यति इति वातावरणनिरीक्षणविभास्य आवेदने अस्ति। पालक्काट् जनपदे तापमानः ४०° इदानीमेव अभवत्। मार्च् मासस्य मध्यभागे  सूर्यः भूमध्यरेखायाः उपरि आगमिष्यति। तदा मेघशकालानि अपि न भविष्यन्ति इत्येनन सूर्यातपः भूमौ साक्षात् पतिष्यति। अतः सूर्याघातस्य सन्दर्भः भविष्यति इति कुसाट्‌ रडार्  नीरीक्षण केन्द्रस्य गवेषकेण डा. एम् जि मनोजेन उक्तम्।
भीकरवादान्  विरुद्ध्य एव युद्धम् माहम्मदीयान्  विरुद्ध्य न- जोर्दानस्य राजा।
             नवदिल्ली>  आतङ्कवादान्  विरुद्ध्य आगोलयुद्धम् किञ्चन धर्मं वा माहम्मदीयान् वा विरुद्ध्य न जोर्दान् राष्ट्रस्य  राजा अब्दुल्ला द्वितीयः अवदत्। नवदिल्याम् 'इस्लामिक् हेरिट्टेज् , प्रोमोट्टिङ् ऑटर स्टान्टिङ्‌ आन्ट् मोडरेषन् इति विषये आयोजिते चार्चाकार्यक्रमे भाषमाणः आसीत् सः। एतदेव मम विश्वासः । मया मम पुत्राः एतदेव पाठिताः I १८० कोटि जनैः स्वांशीकृतः विश्वासः अपि एषः एव । आतङ्कवादान् विरुद्ध्य आगोलयुद्धम् धर्मविरुद्धं न॥ धर्मानुष्ठानविरुद्धं न। इति जोर्दानस्यराज्ञा उक्तम्।

Thursday, March 1, 2018

अतिशैत्येन कम्पते ब्रिट्टन् देशः
          लण्टन्> सैबीरियस्य शैत्य वाते हिमपाते च भीत्या ब्रिट्टण् देशः। अतिशैत्यहिमः सुशक्तवातः च  युगपदेन अभवत् इत्यनेन  जनाः बहु श्रान्त्राः। रोड् ट्रयिन् व्योमगतागताः  वातावरणव्यतिलोमेन स्तगिताः। शताधिकानां पट्टिकाशकटानां यात्रा निवारिता। अपघाते त्रयः मृताः। कठिनहिमपातः अनुवर्तते इत्यनेन ग्रामाः प्रथक् पृथक् अभवन् । रूक्षहिमपात प्रदेशेषु विद्यमानविद्यालयानां विरामः प्रख्यापितः।
         केन्ट्, सरे, सफोक्स्, ससेक्स् प्रदेशेषु हिमपातः रूक्षतया अनुवर्तते। दशसेन्टीमीट्टर् अधिकं घनीभूतानि भवन्ति अत्र हिमावरणानि।

Wednesday, February 28, 2018

काञ्चि-कामकोटि पीठाधिपतयः जयेन्द्र-सरस्वती स्वामिनः समाधिस्थाः।

            काञ्चीपुरम्> काञ्चि-कामकोटि पीठाधिपतयः जगद्गुरु जयेन्द्र-सरस्वती स्वामिनः समाधिस्थाः अभवत्। अद्य प्रातः नववादने आसीत् गुरोः देहत्यागः। त्र्यशीतिवर्ष देशीयः स्वामिपदाः विगतेमासे पञ्चदश-दिनाङ्के श्वासस्थगनेन अतुरालयं प्राविशत्। 
काञ्ची पीठस्य नवषष्ठी तमः अधिपः आसीत् जगद्गुरु जयेन्द्र सरस्वती। १९९४ तमात् आरभ्य एषः मठाधिपतिः आसीत्।
जम्मु - काश्मीरे भीकराणां सान्निध्यमस्ति इति आरक्षकाधिकारी
                श्रीनगरम् > जम्मुकाश्मीरे आतङ्कवादिनां सान्निध्यमस्ति इति  आरक्षक विभागाध्यक्षः  एस् पी वैदः। इस्लामिक् स्टेट् दलाध्यक्षः अबू बक्कर् बाग्दादि इत्यस्य प्रभाषणेन प्रभावितः जनः स्वयमेव आक्रमणोत्सुकाः भवितुम् अर्हति इति आरक्षकविभागेन पूर्वसूचना प्रदत्ता। विगते शनिवासरे राज्ये एकः आरक्षकः हतः । हननस्य दायित्वम् इस्लामिक् स्टेट् दलेन  स्वीकृतम् आसीत् । एतस्य पश्चात् एव राज्ये भीकरदलानां सान्निद्ध्यम् अस्ति इति आरक्षकाध्यक्षेण प्रस्तावितम्। D TV एव एतत् आवेदितम्।
                      यूरोप् भूखण्डे एतादृश आशये मग्नैः केचन अङ्गुलीपरिमितैः क्रियमाणाः आक्रमणाः प्रतिकूलतां वर्धते। ईदृशी अवस्था काश्मीरे जयते चेत् बहुक्लेशः भविष्यति इति आरक्षकाधिकारी वैदः अवदत्।
श्रीदेव्याः अन्त्येष्टिकर्म अद्य - मृतदेहः मुम्बय्यां प्रापितः। 
              मुम्बई > गतदिने दुबाय् मध्ये दिवंगतायाः अभिनेत्रिप्रतिभायाः श्रीदेव्याः अद्य अन्त्यसंस्कारः विधीयते। मुम्बय्यां 'पवन हान्स्' समीपस्थे श्मशाने अपराह्ने  सार्धत्रिवादने अन्येष्टिक्रियाः समर्पयिष्यन्ते। 
         श्रीदेव्याः मरणसम्बन्धिनी दुरूहता ह्यः एव समाप्ता। मरणकारणं न हृदयाघातः किन्तु जले निमज्य इति मरणोत्तरशोधनायां निर्णीतमासीत्। अपि च रक्ते मदिरासान्निध्यं च दृष्टम्। अतः मरणविषयः दुबाय् आरक्षकैः सर्वकारस्य 'पब्लिक् प्रोसिक्यूषन्' संस्थायै समर्पितः। तेषां विशदान्वीक्षणस्य निर्णयस्य चाधारे दुरूहता अपगता। मद्योन्मादेन स्नानागारे विद्यमाने स्नानद्रोणीं पतित्वा तस्मिन् निमज्य एव मरणमभवदिति स्थिरीकृतः! तत्परमेव मृतदेहः बन्धुजनेभ्यः दत्तः!

Tuesday, February 27, 2018

चीनाः शाकाहारी भवन्ति। मांस भोज्यानि त्यक्तवतां सङ्ख्याः वर्धते।
           बेय्जिङ्> विश्वस्य बृहतमः मांसविपणी भवति चीना। इदानीं ततः नूतनावेदनानि उपलभ्यते। बहोः कालात् पूर्वं चीनादेशे शाकाहारिणः विरलाः आसीत्। किन्तु इदानीं स्थिति: विपरीता अभवत्। चीना देशे सर्वत्र शाकाहारी भक्षणालयाः  अत्यधिकतया वर्धिताः इति च आवेदने उच्यन्ते। स्वास्थ्याय शाकाहारः एव युज्यते इति मन्वानः  बहवः सन्ति इति नूतन परिवर्तनस्य कारणत्वेन वदन्ति।
             मांसरहितं पूर्णतया प्रकृति सैहृदतया रोपितं शाकाहारमेव भोक्तव्यम् इति चीनानां अभिलाषः। २०१२ तमे संवत्सरे षाङ् हाय् प्रविश्यायां ४९ शाकाहारी भक्ष्यशालाः एव आसन्I किन्तु २o१७ तमे वर्षो अस्याः भोज्यशालायाः संख्या शाताधिका इति वर्धिता। अन्यासां प्रविश्यायामपि  एतादृश वर्धनम् अभवत्I विश्वस्य शाका विपणिषु उपभोगस्य ४०%  चीनराष्ट्रे  इत्येव गण्यते। मांसाहारः रक्तातिमर्दस्य अतिशरीरस्य च हेतुः इति बोधकरणः चीना राष्ट्रे सर्वत्र प्रचलत् अस्ति।

Monday, February 26, 2018

राष्ट्रपतिपदं - अनुवर्तिता व्यवस्था षि जिन् पिङ् इत्यस्य कृते  निरस्यते।
           बैजिङ् > चीनाराष्ट्रस्य राष्ट्रपतिपदे द्विवारात् अधिकम् अनुवर्तमानं व्यवस्थां  विरुद्ध्य आसीनः नियमः कम्यूणिस्ट् दलस्य शासन संविधानात् निष्कास्यते। राष्ट्रपतेः षि जिन् पिङ् इत्यस्य २०२३ तम संवत्सरान्तरमपि शासकरूपेण अनुवर्तितुं सन्दर्भकरणाय एतत् इति वार्तासंस्थया सिन् हुवया आवेदितम्। आधुनिक चीनस्य शक्तः नेता इति षि जिन् पिङ्: व्यवह्रियते। अतः अपरिमेयः शासनकालः तस्मै दातुमेव शासनसंविधानस्य परिष्करणमिति मन्यते।