OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 7, 2018

एम् जी आर् महोदयस्य अनुपुरुषवत् आगच्छामि।
चेन्नै> अयम् आगच्छामि जयललिता महाभागया कृता शून्यता-निवारणाय इति तमिल् नटः रजनीकान्तः। तमिळ् नाट् राज्यस्य कृते कश्चन नेता आवश्यकः, सः नेता अयमेव भवामि इति तेन उक्तम्। डा. एम् जि आर् एट्यूकेषन् आन्ट् रिसर्च् संस्थायां एम् जि आर् महोदयस्य प्रतिमायाः अनाच्छादन सन्दर्भे भाषमाणः आसीत् सः। कोऽपि राजनैतिकदलीयाः  मम राजनैतिक-दलप्रवेशः न अभिलषन्ति। किमर्थं मत्तः बिभेति। एम् जि आर् महोदयमिव उत्तमं शासनं कर्तुं ममापि शक्यते।  रजनीकान्तः अवदत्। राजनैतिक प्रवर्तनानि न सुकराणि। इतः पर्यन्तं जयललिता महा भागा तथा एम् जि आर् महाभागः च आस्ताम्। द्वावपि शक्तौ वैय्यक्तिक सविशेषतायुक्तौ अस्ताम् I एतौ इदानीं न स्तौ। एतयोः स्थाने स्थित्वा जनसेवनमेव मम अभिलाषः इति रजनीकान्तः अवदत्। एम्. जि आर् महाभागमिव उत्तमं शासनं कर्तुं मम शक्यते इति मम विश्वासः इत्यपि सः अवदत्।