OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, February 27, 2018

चीनाः शाकाहारी भवन्ति। मांस भोज्यानि त्यक्तवतां सङ्ख्याः वर्धते।
           बेय्जिङ्> विश्वस्य बृहतमः मांसविपणी भवति चीना। इदानीं ततः नूतनावेदनानि उपलभ्यते। बहोः कालात् पूर्वं चीनादेशे शाकाहारिणः विरलाः आसीत्। किन्तु इदानीं स्थिति: विपरीता अभवत्। चीना देशे सर्वत्र शाकाहारी भक्षणालयाः  अत्यधिकतया वर्धिताः इति च आवेदने उच्यन्ते। स्वास्थ्याय शाकाहारः एव युज्यते इति मन्वानः  बहवः सन्ति इति नूतन परिवर्तनस्य कारणत्वेन वदन्ति।
             मांसरहितं पूर्णतया प्रकृति सैहृदतया रोपितं शाकाहारमेव भोक्तव्यम् इति चीनानां अभिलाषः। २०१२ तमे संवत्सरे षाङ् हाय् प्रविश्यायां ४९ शाकाहारी भक्ष्यशालाः एव आसन्I किन्तु २o१७ तमे वर्षो अस्याः भोज्यशालायाः संख्या शाताधिका इति वर्धिता। अन्यासां प्रविश्यायामपि  एतादृश वर्धनम् अभवत्I विश्वस्य शाका विपणिषु उपभोगस्य ४०%  चीनराष्ट्रे  इत्येव गण्यते। मांसाहारः रक्तातिमर्दस्य अतिशरीरस्य च हेतुः इति बोधकरणः चीना राष्ट्रे सर्वत्र प्रचलत् अस्ति।