OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 28, 2018

जम्मु - काश्मीरे भीकराणां सान्निध्यमस्ति इति आरक्षकाधिकारी
                श्रीनगरम् > जम्मुकाश्मीरे आतङ्कवादिनां सान्निध्यमस्ति इति  आरक्षक विभागाध्यक्षः  एस् पी वैदः। इस्लामिक् स्टेट् दलाध्यक्षः अबू बक्कर् बाग्दादि इत्यस्य प्रभाषणेन प्रभावितः जनः स्वयमेव आक्रमणोत्सुकाः भवितुम् अर्हति इति आरक्षकविभागेन पूर्वसूचना प्रदत्ता। विगते शनिवासरे राज्ये एकः आरक्षकः हतः । हननस्य दायित्वम् इस्लामिक् स्टेट् दलेन  स्वीकृतम् आसीत् । एतस्य पश्चात् एव राज्ये भीकरदलानां सान्निद्ध्यम् अस्ति इति आरक्षकाध्यक्षेण प्रस्तावितम्। D TV एव एतत् आवेदितम्।
                      यूरोप् भूखण्डे एतादृश आशये मग्नैः केचन अङ्गुलीपरिमितैः क्रियमाणाः आक्रमणाः प्रतिकूलतां वर्धते। ईदृशी अवस्था काश्मीरे जयते चेत् बहुक्लेशः भविष्यति इति आरक्षकाधिकारी वैदः अवदत्।