३२ धीवराः श्रीलङ्कानौसेनया निगृहीताः।
कोलम्बो> भारतीयाः ३२ धीवराः श्रीलङ्कायाः नौसेनया निगृहीताः। १२ नौकासु मत्स्यबन्धनं कुर्वन्तः आसन्। समुद्रसीमामुल्लङ्घितवन्तः इत्यारोप्य आसीत् निग्रहणम्।
तेलङ्काने ८ कर्मकराः सुरङ्गे लग्नाः।
रक्षाप्रवर्तनं अनुवर्तते।
हैदराबादः> तेलङ्कानराज्ये नागरकुर्णूरजनपदे अंरबादे निर्माणे वर्तमानस्य सुरङ्गस्य अन्तः ८ कर्मकराः लग्नाः। श्रीशैलं सेतोः पृष्ठतः वर्तमाने सुरङ्गे वृत्यर्थं प्रविष्टाः एव दुर्घटनायां लग्नाः। सुरङ्गमुखात् १४ कि मी अन्त एव दुर्घटनास्थानम्।
राज्य - कैन्द्रसेनाभिः रक्षाप्रवर्तनमनुवर्तते।
दिल्ली विधानसभासम्मेलनम् आगामिसप्ताहे।
नवदिल्ली> दिल्ली विधानसभायाः सम्मेलनम् सोमवासरादारभ्य गुरुवासरपर्यन्तं विधत्तुं निश्चिकाय। प्रथमदिनद्वये सदस्यानां शपथवाचनं प्रचलिष्यति।
भा ज पा नेता विजेन्दर् गुप्तः सभानाथः भविष्यतीति सूच्यते। भूतपूर्वमुख्यमन्त्रिणीम् अतिषीं विपक्षनेत्रीं कर्तुम् आम् आद्मी पार्टीदलेन चर्चा प्रचाल्यते।
मार्पापावर्यस्य स्वास्थ्यावस्था भद्रतरा।
रोमः> ब्रोङ्कैटिस् इत्यनेन रोगेण आतुरालयं प्रविष्टस्य फ्रान्सिस् मार्पापावर्यः स्वास्थ्यावस्था भद्रतरा इति सूच्यते। ज्वरः नियन्त्रणाधीनः वर्तते। श्वासकोशे अणुबाधा च आश्वासप्रदा। शय्यावलम्बी अपि दैनंदिनकर्मसु निरतः इति आतुरालयाधिकृतैः निगदितम्। तथापि सः समग्रनिरीक्षणे एवानुवर्तते।
रेखा गुप्ता शपथवाचनं कृतवती।
रेखा गुप्ता शपथवाचनं करोति। वेदिकायां प्रधानमंत्री नरेन्द्रमोदी ।
नवदिल्ली> चतुर्थांशशतकानन्तरं दिल्ली राज्ये रेखा गुप्तायाः नेतृत्वे भा ज पा प्रशासनं पदं प्राप। राष्ट्रराजधान्याः नवममुख्यमन्त्री चतुर्थमहिलामुख्यमन्त्री च भवति रेखा गुप्ता। तया सह षट् मन्त्रिणश्च सत्यशपथं कृतवन्तः।
रामलीला क्रीडाङ्कणे आयोजिते कार्यक्रमे लफ्टनन्ट् राज्यपालः वि के सक्सेनावर्यः शपथवाचनं कारितवान्। पर्वेश शर्मा, मञ्जीन्दर् सिंह सिर्सा, रवीन्द्रकुमार इन्द्रजः, कपिल मिश्रः, आशिष सूद्, पङ्कजकुमार सिंहः इत्येते अपि मन्त्रिरूपेण शपथवाचनं कृतवन्तः।
प्रधानमन्त्री नरेन्द्रमोदी, वरिष्ठाः केन्द्रमन्त्रिणः, एन् डि ए सख्यस्य इतरराज्यस्थाः मुख्यमन्त्रिणः इत्यादयः कार्यक्रमे भागं स्वीकृतवन्तः।
चाम्प्यन्स् चषके अद्य भारत-बङ्गलादेशप्रतिद्वन्द्वः।
दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः द्वितीयदिने अद्य भारत-बङ्गलादेशयोः प्रतिद्वन्द्वः दुबाय् मध्ये प्रचलति। पाकिस्थानस्य आतिथेयत्वे सम्पद्यमाना परम्परा अपि तत्र भारतीयदलस्य सुरक्षितत्वे आशङ्का प्रकटिता इत्यतः भारतस्य सर्वाः स्पर्धाः दुबाय् मध्ये सम्पत्स्यन्ते।
अष्ट राष्ट्राणि अस्यां स्पर्धापरम्परायां भागं कुर्वन्ति। सर्वे क्रीडादलाः A B इति संघद्वयेन विभक्ताः। भारतं बङ्लादेशः, पाकिस्थानं, न्यूसिलान्ट् इत्येतैः सह ए संघे वर्तते।
रष्या - यू एस् नूतनं गाढसौहृदम्।
पुतिन -ट्रम्पयोः दूरवाणीसम्भाषणं हेतुः।
रियादः> युक्रेन - रष्ययोः युद्धं समापयितुमुद्दिश्य सौदी अरेबियायां रियादे कुजवासरे सम्पन्ने उपवेशने रष्या - यू एस् गाढसौहृदाय सम्मतः जातः। यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पस्य रष्यायाः राष्ट्रपतिः व्लोदिमर् पुतिनस्य मिथः सम्पन्नं दूरवाणीसंभाषणं नूतननयपरिवर्तनस्य कारणमभवत्।
मुख्यनिर्णयाः एवम् -
* यू एस् रूसयोः नयतन्त्रसम्बन्धं पुनःस्थापयिष्यति। उभयराष्ट्रसम्बन्धस्य दृढीकरणाय परस्परं स्थानपतिनियुक्तिं विधास्यति।
* युक्रैने शान्तिस्थापनार्थं उभयराष्ट्रेण प्रतिनिधिसंघः रूपीकरिष्यते।
* विभिन्नमण्डलेषु यू एस् रूसयोः सौहृदपुनःस्थापनाय अवसरं विधास्यति।
रेखा गुप्ता दिल्ल्यां मुख्यमन्त्रिणी।
शपथवाचनमद्य।
नवदिल्ली> दिल्लीराज्ये पुनरपि महिलामुख्यमन्त्री। महिला मोर्चादलस्य देशीयोपाध्यक्षा रेखा गुप्ता मुख्यमन्त्रिरूपेण भा ज पा नेतृत्वेन प्रख्यापिता। दिल्ल्याः चतुर्था महिलामुख्यमन्त्री भवति ५० वयस्का रेखागुप्ता।
शपथवाचनमद्य मध्याह्ने रामलीला क्रीडाङ्कणे सोत्साहं विधास्यति। लक्षाधिकं जनान् भागं ग्राहयितुं प्रयत्नः प्रचाल्यते।
चाम्प्यन्स् चषके अद्य भारत-बङ्गलादेशप्रतिद्वन्द्वः।
दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः द्वितीयदिने अद्य भारत-बङ्गलादेशयोः प्रतिद्वन्द्वः दुबाय् मध्ये प्रचलति। पाकिस्थानस्य आतिथेयत्वे सम्पद्यमाना परम्परा अपि तत्र भारतीयदलस्य सुरक्षितत्वे आशङ्का प्रकटिता इत्यतः भारतस्य सर्वाः स्पर्धाः दुबाय् मध्ये सम्पत्स्यन्ते।
अष्ट राष्ट्राणि अस्यां स्पर्धापरम्परायां भागं कुर्वन्ति। सर्वे क्रीडादलाः A B इति संघद्वयेन विभक्ताः। भारतं बङ्लादेशः, पाकिस्थानं, न्यूसिलान्ट् इत्येतैः सह ए संघे वर्तते।
वैद्यदम्पत्योः ७. ६५ कोटि अपहृतम्।
द्वौ ताय्वान देशीयौ निगृहीतौ।
आलप्पुष़ा> केरले आलप्पुष़ा जनपदे चेर्तला प्रदेशीयाभ्यां दम्पत्योः ओण् लेन् अंशकव्यापाररूपेण ७. ६५ कोटि रूप्यकाणि अपहृतानीत्यस्मिन् प्रकरणे द्वौ ताय्वान देशीयौ निगृहीतौ। अन्ताराष्ट्रियस्तरे अन्तर्जालिकापराधकृत्येषु व्यापृतौ तैवाने पिङ्चेन् प्रदेशीयौ वाङ् चुन् वेय् [२६], षेन् वेय् हो [३५] नामकावेव अहम्मदाबादे निगृहीतौ। एतौ आलप्पुष़ां नीतौ।
विविधानां संस्थानां प्रतिनिधिरूपेण अलीकप्रमाणानि प्रदर्श्य अधिकलाभं लप्स्यते इति प्रलोभनं कृत्वा वैद्यदम्पतीः वञ्चितवन्तौ।
भारत - खत्तर सन्धिपत्रं हस्ताक्षरीकृतम्।
युगलशुल्कमपाक्रियते। नूतनेषु पञ्चमण्डलेषु उभयसम्मतिपत्राणि।
भारतप्रधानमन्त्री खतर अमीर् इत्यनयोः मेलनात्।
नवदिल्ली> विविधमण्डलेषु निक्षेपः,परस्परसहयोगः इत्यादीनां संवर्धनमुद्दिश्य परस्परभागभागित्वसन्धिपत्रं भारत-खत्तरराष्ट्राभ्यां हस्ताक्षरीकृतम्। युगलशुल्कमपाकर्तुं, करापहरणं प्रतिरोद्धुं चोद्दिश्यमानं सन्धिपत्रद्वयं हस्ताक्षरीकृतम्। दिल्ल्यां प्रधानमन्त्री नरेन्द्रमोदी खत्तरस्य अमीर् शैख् तमीं बिन् हमद् अल् तानी इत्यनयोः मेलनस्यानन्तरमेव सन्धिपत्रद्वयं, सम्मतिपत्राणि हस्ताक्षरीकृतानि।
सम्मतिपत्राणां विषयाः एवं -
१ परस्परार्थिकसहयोगः।
२ युवजनविषयः कायिकमण्डलं च।
३ पुरावृत्तसंरक्षणम् उल्लेख्यप्रमाणं च [Archives and Documentation]
४ 'इन्वेस्ट् इन्डिया, इन्वेस्ट् खतर्' इत्यनयोः सहयोगः।
५ Confederation of Indian Industry , Qutheri Business men Association इत्यनयोः संघटनयोः सहयोगः।
ग्यानेष कुमारः मुख्यनिर्वाचनायोगः। 
ग्यानेष कुमारः।
नवदिल्ली> वर्तमानकालीनः निर्वाचनायोगसमित्यङ्गः ग्यानेष कुमारः भारतस्य २६ तमायाः निर्वाचनसमित्याः अध्यक्षरूपेण नियुक्तः। इदानीन्तनः मुख्यनिर्वाचनायोगः राजीवकुमारः अद्य सेवानिवृत्तो भविष्यति। विवेक जोषी नूतनः आयोगसमित्यङ्गः भविष्यति।
प्रधानमन्त्री नरेन्द्रमोदी, विपक्षनेता राहुल गान्धी, गृहमन्त्री अमित शाहः इत्येतेषामुपवेशने आसीत् पूर्वोक्तनिर्णयः।
मणिपुरे राष्ट्रपतिप्रशासनं- कुक्कि - मेय्ती विभागौ विमतौ।
इम्फालः> मणिपुरराज्ये राष्ट्रपतिप्रशासनस्यानन्तरं कुक्किविभागः मेय्तीविभागश्च विरुद्धपक्षे वर्तेते। राष्ट्रपतिप्रशासनं मणिपुरे शान्तिमानयिष्यतीति दश कुक्की सदस्याः अवोचन्। राज्ये शान्तये नीतये च समग्रां रूपरेखां सज्जीकर्तुं केन्द्रसर्वकारः यतिष्यते इति ते प्रत्याशां प्रकटितवन्तः।
किन्तु राज्यस्य राष्ट्रपतिप्रशासनं अपाकर्तव्यं, मुख्यमन्त्रिणः चयनं झटित्येव करणीयमिति मेय्तीविभागेन प्रस्तुतम्।
दिल्ली रेल् याननिस्थाने तीव्रजनसम्मर्देन १८ मरणानि; अनेके आहताः।
नवदिल्ली> नवदिल्ली रेल् याननिस्थाने महाकुम्भमेलार्थं प्रयागराजं गन्तुमागतानां सहस्रशः जनानां सम्मर्देन १८ जनाः मृत्युमुपगताः। शनिवासरे रात्रौ दशवादने आसीदियं दुर्घटना।
दुर्घटनां नीयमानानि द्वित्राणि कारणानि सूच्यन्ते।
१. प्रयागराजं गम्यमानयोः द्वयोः रेल् यानयोः विलम्बः।
२. प्रयागराजं प्रति निर्दिष्टं सविशेषरेल् यानमधिकृत्य अन्तिमसमये दत्तस्य विलम्बरस्य अव्यक्तता।
३. अनियन्त्रितः यात्रिकसम्मर्दः। प्रयागराजं प्रति होरायां १५०० चिटिकाः रेल्वे संस्थया वितरीताः।
मृतेषु १८ यात्रिकेषु ११ महिलाः ५ बालकाश्च अन्तर्भवन्ति। मृतानामाश्रितेभ्यः दशलक्षं रूप्यकाणि रेल्वे संस्थया दास्यन्ते।
बी एस् एन् एल् लाभं सम्प्राप्तम्।
तृतीयपादे २६२ कोटि लाभः। ८२ कोटि केरलतः।
पत्तनंतिट्टा> 'भारतीय सञ्चार निगम लिमिटड्' [बी एस् एन् एल्] इति केन्द्रसर्वकाराधीना सन्देशविनिमयसंस्था १७ संवत्सरेभ्यः परं लाभे समागता। वर्तमानीनार्थिकवर्षस्य तृतीये पादे - ओक्टोबर्,नवम्बर्, दिसम्बर मासेषु - आयव्ययगणनायां २६२ कोटि रूप्यकाणां लाभः सम्प्राप्तः। तस्मिन् लाभे ८० कोटिरूप्यकाणि केरलक्षेत्रादेव। अतीते आर्थिकवर्षे अपि केरलतः लाभः सम्पन्नः।
११९ अनधिकृताधिनिविष्टाः यू एस् विमाने भारतं प्रतिनिवर्तिताः।
चण्डीगढः> यू एस् राष्ट्रे अनधिकृतेन अधिनिवासं क्रियमाणाः ११९ भारतीयाः अमेरिकायाः सेनाविमाने अमृतसरमानीताः। अधिनिविष्टान् ऊढ्यमाणं 'सि १७ ग्लोब् मास्टर' इति सेनाविमानं ह्यः रात्रौ ११ वादने अमृतसरं विमाननिलयमवतारितम्।
नियमविरुद्धाधिनिवेशितानाम् निष्कासनपरियोजना ट्रम्पेण आरब्धानन्तरं भारतं प्राप्तं द्वितीयं विमानं भवत्येतत्। ११९ अधिनिविष्टेषु ६७ पञ्चाबीयाः, ३३ हरियानीयाः, ०८ गुजरातीयाश्च अन्तर्भवन्ति। अन्ये च यू पि, गोवा, राजस्थानं, हिमाचलप्रदेशः, जम्मु काश्मीरमित्येभ्य राज्येभ्यः सन्ति। १८ - ३० वयस्काः भवन्ति भूरिशः।
वयनाटाय ऋणरूपेण ५२९. ५ कोटि रूप्यकाणि।
अनन्तपुरी> केरले वयनाटस्थे भूस्खलनदुरन्ताधीनस्य मुण्टक्कै चूरल्मला मण्डलस्य पुनर्निर्माणाय केन्द्रसर्वकारेण ५२९. ५ कोटि रूप्यकाणां वृद्धिरहितम् ऋणम् अनुमोदितम्। १६ अभियोजनानां कृते 'कापेक्स्' [Capital Expenditure] ऋणरूपेण लभ्यमानः धनराशिः ५० संवत्सरैः प्रत्यर्पितव्यः। धनराशेः विनियोगपत्रं मार्च् ३१ तमदिनाङ्कात् पूर्वं समर्पणीयमिति केरलसर्वकारं प्रति प्रेषिते लेखे केन्द्रेण निर्दिष्टमस्ति।
किन्तु निर्देशोSयम् आशङ्काजनक इति राज्यसर्वकारेण सूचितं यतः ५२९. ५ कोटिरूप्यकाणां विनियोगाय मासैकमेवावशिष्यते। एवं च १६ अभियोजनेभ्यः ५३५ कोटिरूप्यकाणाम् अनुदानमासीत् [Grant] राज्यसर्वकारेणार्थितम्। तस्य स्थाने ऋणमेवानुमोदितमित्यपि सर्वकारं सन्दिग्धावस्थां प्रापयति।
दिल्ल्यां नूतनप्रशासनम् आगामिसप्ताहे।
नवदिल्ली> चतुर्थांशशतकात्परम् अधिकारं प्राप्तवतः भाजपादलस्य नूतनप्रशासनं आगामिनि सप्ताहे पदं स्वीकरिष्यतीति दलनेतृभिरुक्तम्। भा ज पायाः विधानसभासदस्यानामुपवेशनं रविवासरे सोमवासरे वा भवेत्। मुख्यमन्त्रिणः चयनानन्तरं विंशः दिनाङ्काभ्यन्तरे शपथवाचनकार्यक्रमः भविष्यतीति दलस्य राष्ट्रियसचिवः तथा च नियुक्तसदस्यः मञ्जीन्दर सिंह मिर्सा अवोचत्।
मन्त्रिसभायाः अन्तिमनिर्णयाय विदेशपर्यटनाय गतवतः प्रधानमन्त्रिणः प्रत्यागमनं प्रतीक्षते दलनेतृभिः।
२०३६ ओलिम्पिक्स् महामहाय भारतं सज्जमिति अमित शाहः।
हल्द्वानी> २०३६ तमे वर्षे आयोज्यमाने ओलिम्पिक्स् कायिकोत्सवे आतिथेयराष्ट्रं भवितुं भारतं सज्जमिति गृहमन्त्रिणा अमित शाहेन प्रोक्तम्। राष्ट्रस्यायं निर्देशः अन्ताराष्ट्रिय ओलिम्पिक्स् समित्याः पुरतः समर्पित इत्यपि तेन सूचितम्। उत्तराखण्डे हल्द्वाने राष्ट्रियकायिकक्रीडामहोत्सवस्य समाप्तिसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।
राष्ट्रिय कायिकक्रीडा समाप्ता।
आगामिनी क्रीडा मेघालये।
समापनकार्यक्रमे भागं गृहीतवन्तः विशिष्टातिथयः।
हल्द्वानी> १७दिनात्मिका ३८ तमा राष्ट्रिय कायिकक्रीडा उत्तराखण्डे समाप्ता। २५,००० प्रोक्षकान् साक्षीकृत्य क्रीडायाः समापनकार्यक्रमः राष्ट्रगृहमन्त्रिणा अमित शाहेन उद्घाटितः। भारतीय ओलिम्पिक्स् असोसियेषन् इत्यस्य अध्यक्षा पि टि उषा राष्ट्रियक्रीडायाः समाप्तिप्रख्यापनं निरवहत्।
आगामिनी राष्ट्रियक्रीडा २०२७ तमे वर्षे मेघालये विधास्यति। कायिकक्रीडायाः ध्वजं पि टि उषायाः स्वीकृत्य अमित शाहः मेघालयस्य मुख्यमन्त्रिणे कोणड्राड् सांग्मा इत्यस्मै उपसंक्रमितवान्।
६८ सुवर्णपतकानि अभिव्याप्य सर्वीसस् दलं क्रीडावीरपदं सम्प्राप। महाराष्ट्रं हरियानं च यथाक्रमं द्वितीयं तृतीयं च स्थानं प्राप। समाप्तिकार्यक्रमे केन्द्रमन्त्रिणौ मनोसुख माण्डव्यः, अजय टांप्टः, उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी, मेरी कोम्, गगन् नारङ्गः इत्यादयः कायिकक्षेत्रप्रमुखाश्च भागं गृहीतवन्तः।
मङ्गल्यवेदिकायाम् 'अतिथिरूपेण' चित्रशार्दूलः।
वधूवरौ कार् याने प्राणरक्षार्थं होराः यावत् लग्नाः। 
मङगल्यवेदिकां प्राप्तः चित्रशार्दूलः वनपालकैः बद्धः इत्यवस्थायाम्।
लख्नौ> लख्नौस्थे बुद्देश्वरप्रदेशस्थं मङ्गल्यगृहम् अनामन्त्रितः कश्चन अतिथिः आगतः। अतिथिं दृष्ट्वा जनाः विवाहवेदिकातः परिभ्रान्ताः सन्तः धावितवन्तः। प्राणरक्षार्थं कार् यानमाश्रितवन्तौ वधूवरौ तु ५ होराः यावत् तत्र लग्नाश्च। कश्चन चित्रशार्दूल आसीत्स अतिथिः।
बुधवासरे रात्रौ आसीदियं घटना। नगरस्थे 'एम् एम् लाण्' नामके विवाहमण्डपे अक्षय श्रीवास्तवा ज्योतिकुमारी इत्यनयोः वैवाहिककार्यक्रमे आसीत् शादूलस्यापि आगमनम्। स्थानं प्राप्तवन्तः आरक्षकाः वनविभागाधिकारिणश्च कठिनप्रयत्नं कृत्वा प्रत्युषसि द्विवादने चित्रशार्दूलं बद्धमकुर्वन्।
आयव्ययपत्रसम्मेलनस्य प्रथमचरणं समाप्तम्।
नवदिल्ली> जनुवरि ३१ तमे दिनाङ्के आरब्धं संसदः आयव्ययपत्रसम्मेलनस्य प्रथमचरणं गुरुवासरे समाप्तम्। नूतनमायकरविधेयकं, वखफ विधेयकं परिशोध्यमानस्य जे पि सि इति समित्या समर्पितमावेदनमित्येतौ अन्तिमदिने परिगणितौ विषयौ स्तः।
आगामिचरणं मार्च् १० तमदिनाङ्के आरभ्य एप्रिल् चतुर्थदिनाङ्के समाप्स्यते।