OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 15, 2025

 मङ्गल्यवेदिकायाम् 'अतिथिरूपेण' चित्रशार्दूलः। 

वधूवरौ कार् याने प्राणरक्षार्थं होराः यावत् लग्नाः। 

मङगल्यवेदिकां प्राप्तः चित्रशार्दूलः वनपालकैः बद्धः इत्यवस्थायाम्। 

लख्नौ> लख्नौस्थे बुद्देश्वरप्रदेशस्थं मङ्गल्यगृहम् अनामन्त्रितः कश्चन अतिथिः आगतः। अतिथिं दृष्ट्वा जनाः विवाहवेदिकातः परिभ्रान्ताः सन्तः धावितवन्तः।  प्राणरक्षार्थं कार् यानमाश्रितवन्तौ वधूवरौ तु ५ होराः यावत् तत्र लग्नाश्च। कश्चन चित्रशार्दूल आसीत्स अतिथिः। 

  बुधवासरे रात्रौ आसीदियं घटना। नगरस्थे 'एम् एम् लाण्' नामके विवाहमण्डपे अक्षय श्रीवास्तवा ज्योतिकुमारी इत्यनयोः वैवाहिककार्यक्रमे आसीत् शादूलस्यापि आगमनम्।  स्थानं प्राप्तवन्तः आरक्षकाः वनविभागाधिकारिणश्च कठिनप्रयत्नं कृत्वा प्रत्युषसि द्विवादने चित्रशार्दूलं बद्धमकुर्वन्।