OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 16, 2025

 ११९ अनधिकृताधिनिविष्टाः यू एस् विमाने भारतं प्रतिनिवर्तिताः। 

चण्डीगढः> यू एस् राष्ट्रे अनधिकृतेन अधिनिवासं क्रियमाणाः ११९ भारतीयाः अमेरिकायाः सेनाविमाने  अमृतसरमानीताः। अधिनिविष्टान् ऊढ्यमाणं 'सि १७ ग्लोब् मास्टर' इति सेनाविमानं ह्यः रात्रौ ११ वादने अमृतसरं विमाननिलयमवतारितम्। 

  नियमविरुद्धाधिनिवेशितानाम् निष्कासनपरियोजना ट्रम्पेण आरब्धानन्तरं भारतं प्राप्तं द्वितीयं विमानं भवत्येतत्। ११९ अधिनिविष्टेषु ६७ पञ्चाबीयाः, ३३ हरियानीयाः, ०८ गुजरातीयाश्च अन्तर्भवन्ति। अन्ये च यू पि, गोवा, राजस्थानं, हिमाचलप्रदेशः, जम्मु काश्मीरमित्येभ्य राज्येभ्यः सन्ति। १८ - ३० वयस्काः भवन्ति भूरिशः।