OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, February 17, 2025

 दिल्ली रेल् याननिस्थाने तीव्रजनसम्मर्देन १८ मरणानि; अनेके आहताः। 

नवदिल्ली> नवदिल्ली रेल् याननिस्थाने महाकुम्भमेलार्थं  प्रयागराजं गन्तुमागतानां सहस्रशः जनानां सम्मर्देन १८ जनाः मृत्युमुपगताः। शनिवासरे रात्रौ दशवादने आसीदियं दुर्घटना। 

  दुर्घटनां नीयमानानि द्वित्राणि कारणानि सूच्यन्ते। 

१. प्रयागराजं गम्यमानयोः द्वयोः रेल् यानयोः विलम्बः। 

२. प्रयागराजं प्रति निर्दिष्टं सविशेषरेल् यानमधिकृत्य अन्तिमसमये दत्तस्य विलम्बरस्य अव्यक्तता।

३. अनियन्त्रितः यात्रिकसम्मर्दः। प्रयागराजं प्रति होरायां १५०० चिटिकाः रेल्वे संस्थया वितरीताः। 

  मृतेषु १८ यात्रिकेषु ११ महिलाः ५ बालकाश्च अन्तर्भवन्ति। मृतानामाश्रितेभ्यः दशलक्षं रूप्यकाणि रेल्वे संस्थया दास्यन्ते।