OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 21, 2025

 रेखा गुप्ता शपथवाचनं कृतवती।

रेखा गुप्ता शपथवाचनं करोति। वेदिकायां प्रधानमंत्री नरेन्द्रमोदी ।

नवदिल्ली> चतुर्थांशशतकानन्तरं दिल्ली राज्ये रेखा गुप्तायाः नेतृत्वे भा ज पा प्रशासनं पदं प्राप।  राष्ट्रराजधान्याः नवममुख्यमन्त्री चतुर्थमहिलामुख्यमन्त्री च भवति रेखा गुप्ता। तया सह षट् मन्त्रिणश्च सत्यशपथं कृतवन्तः। 

  रामलीला क्रीडाङ्कणे आयोजिते कार्यक्रमे लफ्टनन्ट् राज्यपालः वि के सक्सेनावर्यः शपथवाचनं कारितवान्। पर्वेश शर्मा, मञ्जीन्दर् सिंह सिर्सा, रवीन्द्रकुमार इन्द्रजः, कपिल मिश्रः, आशिष सूद्, पङ्कजकुमार सिंहः इत्येते अपि  मन्त्रिरूपेण शपथवाचनं कृतवन्तः। 

  प्रधानमन्त्री नरेन्द्रमोदी, वरिष्ठाः केन्द्रमन्त्रिणः, एन् डि ए सख्यस्य इतरराज्यस्थाः मुख्यमन्त्रिणः इत्यादयः कार्यक्रमे भागं स्वीकृतवन्तः।