उत्तराखण्डे
भविष्यति संस्कृत भाषाया:
प्रसारणकेन्द्रस्य
स्थापनम्
संस्कृत
भाषायाः प्रचारार्थं समाजे
तस्योपयोगिताया:
प्रतिष्टापनार्थं
च उत्तराखंडे विश्वस्य प्रथमः
'संस्कृत
चैनलस्य'
स्थापनं
भविष्यतीति उक्तं राज्यस्य
मुख्मंत्रिणा हरीश रावतेन।
उत्तराखंडे संस्कृत-भाषा
द्वितीयराजभाषारूपेण अलंकृता
अस्ति|
संस्कृतप्रसारणकेन्द्रस्य
स्थापनार्थ कार्यक्रम-समिते:
संगठनम्
उतराखंड-संस्कृत
अकाद्म्या:
उपाध्यक्ष
:डॉ.श्री
कृष्ण सेमवाल महोदयस्य
अध्यक्षत्वे अभवत्|संस्कृत
भाषायाःअपरसचिवेन विनोद
कुमार रतूड़ी महोदयेन सचिवालये
उक्तं यत संस्कृत चैनल मध्यमेन
संस्कृत वार्ताया:
मनोल्लासजनककार्यक्रमाणां
च प्रसारणं भविष्यतीति|
-
घनश्याम
भट्टः उत्तराखण्ड ।
ब्रिट्टन् देशे विद्यालयेषु संस्कृत भाषायाः प्रभावः - पश्यतु चलनचित्रखण्डः
माली
द्वीपे -'
बोट'
याने
उग्रस्फ़ोटनम्
मालिद्वीपस्य राष्ट्रपति: अब्दुल्ल यामिन् पत्नी च रक्षां प्राप्तवन्तौ
मङ्गल
ग्रहे जलस्य सानिध्यम् -
नासायाः
चित्रं प्रमाणम्
फ़्लोरिड -मङ्गल ग्रहे जलस्य सानिध्यम् अस्ति इति नास वदति
राष्ट्रिय-संस्कृत-संस्थाने पञ्चमं दीक्षान्त-समारोह:
राष्ट्रिय-संस्कृत-संस्थानं
मासेsस्मिन्
त्रिन्शत्तमे दिनाङ्के
बुधवासरे दिल्ल्यां स्वीयं
पञ्चमं दीक्षान्त-समारोहम्
आयोजयिष्यति |
एतदालक्ष्य
अद्य राष्ट्रिय-राजधान्यां
नवदिल्ल्यां वार्ताहर-सम्मेलनमेकं
सम्पन्नम्,
यस्मिन्
संस्थान-कुलपतिः
डो.परमेश्वर-नारायण-शास्त्री
वार्ताहरान् असूचयत् यत्
दीक्षान्त-समारोहेsस्मिन्
भारत-सर्वकारस्य
मानवसंसाधनविकास-मन्त्रि-महाभागा
संस्थानस्य कुलाधिपतिश्च
श्रीमती स्मृति-ईरानी
कार्यक्रमस्य आध्यक्ष्यं
वक्ष्यति,
अपि
च हिमाचल-प्रदेशविश्वविद्यालयस्य
कुलपतिः श्री-अरुण-दिवाकरनाथ-वाजपेयी
मुख्यातिथिपदम्
अलङ्करिष्यति,स्नातकान्
च सम्बोधयिष्यति | संस्थानस्य चतुर्थो दीक्षान्त-समारोहः वर्ष-चतुष्टय-पूर्वम् आयोजितःआसीत्- इति कृत्वा ऐषमः समारोहे प्रायेण दश-सहस्रं स्नातकाः संस्थानस्य राष्ट्र-व्यापिभ्यः एकादश-परिसरेभ्यः समागताः सन्तः अत्र विविधोपाधि-प्रदानेन अलङ्करिष्यन्ते | श्रीशास्त्री वार्ताहरान् एतदपि न्यगादीत् यत् अवसरेस्मिन् प्रो. एस्.टी.नागराजः प्रो.हृदयरञ्जनशर्मा च स्वीय-संस्कृतसेवार्थं महामहोपाध्याय-अलङ्करणेन सभाजयिष्येते |
