श्री शङ्कराचार्य विश्वविद्यालयतः
सम्प्रति वार्ताः विश्वं प्रति
सम्प्रति वार्ताः विश्वं प्रति
![]() |
सङ्गणाक यन्त्रे निर्मितं वार्ता वाचनस्य चित्रम् |
बलदेवानन्दसगरस्य वचः
सम्प्रति वार्ताः श्रूयन्ताम्
प्रवाचकः
बलदेवानन्द सागर: संस्कृतानुरागिणामस्माकं महदिदमामोदस्थानं यत्
संस्कृतमाध्यमे अन्तर्जाले नूतना काचित् वार्तापत्रिका "सम्प्रति वार्ताः "
इति नाम्ना कतिपयनिमिषेभ्यः पूर्वम् अत्र प्रकाशिता इति।
श्री शङ्कराचार्य
विश्वविद्यालयस्य उप-कुलपतिना
डा .एम् .सि दिलीपकुमारमहोदयेन विश्वस्य
कृते अधुना समर्पिता। विश्वस्य सर्वप्रथमो अयं संरम्भः समग्रे संसारे
प्रतिनिमिषं जायमानानां घटनानां समग्रं चित्रं गैर्वाणीमाध्यमेन तस्मिन्नेव
क्षणे दास्यति। इति वार्ताः
अन्तर्जाले सम्प्रति गैर्वाण्याः इन्द्र्जालाः
कालटी - महता परितोषेणेदं विज्ञाप्यते यत् संस्कृतमाध्यमेन केरलेभ्यः प्रकाश्यमानायाः प्रथमायाः लक्षणयुक्तायाः संपूर्ण- online वार्तापत्रिकायाः "सम्प्रति वार्ताः" इत्यस्याः शुभारम्भः आकाशवाणी दूरदर्शनयोः प्रवाचकस्य बलदेवानन्दसागरस्य विज्ञापनेन कृतः । संस्कृतानभिज्ञाः अपि सर्वे भारतीयाः प्रतिदिनं प्रातः आकाशवाणीद्वारा बलदेवानन्दसागरस्य अमुमेव वाचं श्रुत्वा
भारतश्रीलङ्कादेशौ आतङ्कवादस्य रोधाय संयुक्तपरिश्रमं करिष्यतः.।
बिहार राज्ये विधानसभानिर्वाचनानां प्रथमचरणाय विज्ञप्तिः अद्य भवति।
इस्लामिक् स्टेट् इति भीकरसंघेन सम्बन्धम् आशङ्क्य केरले चत्वारो निहताः।
सानिया हिङ्गिस् युग्मेन यु एस् ओपेन् टेनिस् स्पर्धा विजिता।
संस्कृतभाषायाः पोषणाय जर्मनी