OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 29, 2015


मंगले जीवसान्निध्यमस्ति।

न्य़ूयोर्क्-मंगलग्रहे जीवस्य सान्निध्यमस्तीति नासया (NASA)निर्णीतः।तत्र लवण सहितस्य जलप्रवाहस्य साध्यता अनया संस्थया निश्चिता।

 

उत्तराखण्डे भूमि कम्पनम्

 पञ्चपंचाशताधिक द्विवादने अपराह्ने अद्य उत्तराखंडेपिथौरागढ़, बागेश्वर,अल्मोड़ा जनपदे भूमिकम्पनम् अभवत्।रिक्टर मापके अस्याः प्राबल्यम् 4.8 आसीत्। भूमिप्रकम्पेन भवनमेकमपि प्रखण्डितम् डीडीहाट नामके स्थाने।


 यान दुर्घटना वर्धते भारते

चित्रं- मातृभूमि पत्रिका

नागार कोविल्- तमिल् नाटु राज्ये कार् यान दुर्घटनायां पञ्च जनाः मृताः पञ्चाः वृणिता: च। नागर् कोविल्  तिरुनल्वेली एक्स्प्रस् हैवे मध्येवल्लियूर् समीपे इयं दुर्घटना।13 जनाः यात्रिकाः सन् आसन् ।अतिवेगेन चालितं यानम्, यात्रिकानां संख्या अधिकाः च इति दुर्घतनायाः कारणत्वेन आरक्षकाः वदन्ति। 

 


शान्तिस्वरूप भट्नागरपुर
स्कारः डो.सन्दीप् कुन्नत्ताय। 

कोषिक्कोट्- केन्द्रसर्वकारस्य कौण्सिल् आफ् सयन्टिफिकल्&इन्डस्ट्रियल् गवेषणविभागः युव शास्त्रज्ञेभ्यः समर्प्यमाणः शान्तिस्वरूपभटनगर् पुरस्कारः गणितशास्त्रज्ञाय डो.सन्दीप् कुन्नत्त् इत्यस्मै ददाति।शास्त्रमण्डले भारतस्य समुन्नतपुरस्कारेषु अन्यतमो भवत्येषः।कोषिक्कोटे कटलुण्टी स्वदेशीयः डो.सन्दीपः बंगलुरु टि..एफ्.आर् मध्ये(Tata Institute of Fundamental Research) गणितशास्त्रज्ञः अस्ति।

-

भारते अधुना पथिषु यानदुर्घटना: भीतिजनक: वर्धन्ते। मृतेषु युवजनानां संख्या एव अधिका:। सुरक्षा नियमेषु अवधानताया: अभावः श्रद्धा राहित्यं च दुर्घटनायाः मुख्यकारणम् ।

 

 कोल्कत्ता ट्राफ़िक् विभाग द्वारा ग्रहीत:अयं 'वीडियो' अस्मान् पाठयति दुर्घटना कथं संभवति इति ।

 


चर्चा पराजिता

कोची -वातिकाकर्मकराणां न्यूनतमवेतनमधिकृत्य कृता मन्त्रितलचर्चा पराजिता। कर्मकरप्रक्षोभः अनुवर्तिष्यते।
 

* प्रधानमंत्री आयरलैण्डामेरिकयोः यात्रां सम्पाद्य प्रतिदनिवृतः

* INS कोचीयुद्पोतः अद्य राष्ट्राय समर्पयिष्यते

* उत्तरप्रदेशशासनेन खाद्यसुरक्षाधिनियमः प्रवर्तयिष्यते।