OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, December 17, 2015

Sanskrit Journalism -V

 पि एस् एल् वि विक्षेपणे विजयीभूता:

श्रीहरिक्कोतट्ट :   उपग्रहचतुष्टयेन सह पी एस् एल् वि सी 29 भ्रमण पथं प्राप्तवान् 550 किलो मीट्टर् दूरे सञ्चारपथे उपग्रहान् नीत्वा भूस्थिरपथेषु विक्षिप्तः


संस्कृतं भाषा इत्यर्थे- डा. बलदेवानन्दसागर: 
   


भीकरतां विरोद्धुम् इस्लामिकराष्ट्रसख्यसेना।

रियाद् - भीकरतां विरुद्ध्य युद्धं कर्तुं सौदी अरेब्याराष्ट्रस्य नेतृत्वे ३४ इस्लामिकराष्ट्राणां सख्यसेनां रूपवत्करोति। रियाद् नगरम् आस्थानत्वेन प्रवर्तनमारभ्यमाणे इस्लामिक् मिलिटरि अलयन्स् इत्याख्ये संघे पाकिस्तानः अपि अङ्गः अस्ति।
आतङ्कवादस्य आमूलनिर्माजनं सख्यसेनायाः लक्ष्यमिति सौदीयुवराजः रक्षामन्त्री च मुहम्मद् बिन् सल्मान् अवदत्।


 दिल्लीमुख्यमन्त्रिणः कार्यालयसमुच्चये सि बि ऐ आपातः; राजनैतिकमण्डलं प्रक्षुब्धम्।

दिल्ली - दिल्लीमुख्यमन्त्रिणः अरविन्द् केज्रिवाल् महोदयस्य कार्यालयसमुच्चये केन्द्रीय रहस्यान्वेषणसंस्थायाः CBI) आपातः। राजनैतिकप्रतिकारबुद्ध्या आयोजितं कर्म इत्यारोप्य प्रधानमन्त्रिणं नरेन्द्रमोदिनं केन्द्रसर्वकारं च केज्रिवाल् महाशयः अतिरूक्षेण व्यमर्शयत्।
किन्तु मुख्यमन्त्रिणः मुख्यकार्यदर्शिनः राजेन्द्रकुमारस्य कार्यालये तं लक्षीकृतं भ्रष्टाचारान्वेषणं पुरस्कृत्य एव अापात इति सि बि ऐ वृत्तैरुक्तम्। अस्मिन् विषये लोकसभा प्रक्षुब्धा जाता। राज्यसभायामपि कार्यक्रमाः स्तंभिताः अभवन्।

Wednesday, December 16, 2015

सिंहपुरम् (सिङ्गपुर् )राज्यस्य उपग्रहान् नेतुं
 भारतस्य पी एस् एल् वि -सि २९
चेन्नै - सिंहपुरराज्यस्य उपग्रहपञ्चकेन सह भारतस्य पि एस् एल् वि सि २९   बुधवासरे अन्तरीक्षम्  उद्‌गच्छति । 400 किलोग्रां मितः टेलियोस् - अनेन एकः उपग्रहः द्वौ मैक्रो उपग्रहौ , त्रयः नानो उपग्रहाः च विक्षिप्यन्ते। अन्त्राप्रदेशस्यश्रीहरिक्कोट्ट सतीश् धवान् बहिराकाशकेन्द्रस्य प्रथमा विक्षेपण वेदिकाभ्यः सायं षट् वादने विक्षिप्यते ।
ISRO
सिंहपुरस्य एन्.टि विश्वविद्यालयस्य  123 किलो मितः प्रकृतिनिरीक्षणोपग्रहः भवति। वेलोक्स् सी ऐ, 13 किलो भारेण मितः वेलोक्स् - II, अतनोक्स्  - 1, सिंहपुर राष्ट्रिय विश्वविद्यालयस्य केन्त्रिड्ज् - 1, ग्लासिय एते अन्याः उपग्रहाः टेलियोसः  - रिमोत् सेन्सिङ्ग् निरीक्षणोपग्रहः भवति। 550 कि मी दूरं भ्रमन् अन्तरं 670 किलो मितः उपग्रहपञ्चकान् भ्रमणपथं नेष्यते ।
ISRO



श्रीनारायणगुरुवर्यः केरलस्य आध्यामनेता

- मोडिवर्यः 

शिवगिरः - आदि शङ्करस्य अद्वैत सिद्धान्तान् अनुगम्य केरलान् नीतवान् श्री नारायणगुरुः इति मोडिवर्येण उक्तः। समूहे आपदि पतिते सति अभ्युत्थानाय महात्मनः उदेति इति हिन्दुधर्मस्य विशेष विश्वासः। तद्वद् केरले अवतरितः महापुरुषः भवति गुरुदेवः इति मोदिवर्येण स्पषष्टीकृतम्। शिवगिर्याश्रमेषु  भाषमाणः आसीत् सः।  5.15 वादने आश्रममागतं प्रधानमन्त्रिणं सन्यासिनः सम्यक् स्वीकृतवन्तः।

भा ज पा शासने राष्ट्रस्य महती प्रगतिः - प्रधानमन्त्री।

तृश्शिवपेरूर् - भारते भाजपा दलस्य नेतृत्वे नूतनसर्वकारस्य अधिकारप्राप्त्यनन्तरं व्यावसायिक-कार्षिकादिषु मण्डलेषु राष्ट्रस्य महती अभिवृद्धिः सञ्जाता इति प्रधानमन्त्री नरेन्द्रमोदी प्रास्तूयत। केरले तृश्शूर् जनपदे भाजपादलेन आयोजिते सम्मेलने प्रभाषणं कुर्वन्नासीत् मोदिवर्यः।
  २०१४ तमे संवत्सरे राष्ट्रस्य व्यावसायिकवृद्धिः -२.७% आसीत्। २०१५ ओक्टोबर् मासे ९.२%वृद्धिः अभवत्। राष्ट्रे विदेशनिक्षेपः ४०% अवर्धत। मोदिवर्यस्य प्रभाषणं राज्याध्यक्षेण वि. मुरलीधरेण अनूदितम्।

Monday, December 14, 2015

अद्य आरभ्य दिनद्वयं प्रधानमन्त्री केरले।

कोच्ची -दिनद्वयात्मकं केरलसन्दर्शनार्थं भारतस्य प्रधानमन्त्री नरेन्द्र मोदी अद्य कोच्चीं प्राप्नोति। प्रधानमन्त्रिपदप्राप्त्यनन्तरं मोदिनः प्रथमं सन्दर्शनमिदम्।
सोमवासरे सायं ४.१० वादने कोच्ची नाविकविमाननिलयं प्रापस्मानाय मोदीवर्याय केरलसर्वकारः स्वीकरणं प्रदास्यति। ततः तृश्शिवपेरूर् नगरे भा ज पा दलेन आयोज्यमाने सम्मेलने प्रभाषणं करिष्यति। पुनः कोच्चीं प्रतिनिवृत्य नगरस्थे ताज्मलबार् भवनसमुच्चये वासः।
अपरेद्युः प्रभाते ऐ एन् एस् विक्रमादित्य इति विमानवाहिनिमहानौकायां त्रयाणां सेनाविभागानां सम्मेलने भागभागित्वं कृत्वा कोल्लं नगरे भूतपूर्वस्य मुख्यमन्त्रिणः आर् शङ्कर् महोदयस्य प्रतिमायाः अनाच्छादनं करिष्यति। ततः श्रीनारायणगुरोः समाधिस्थानभूतं शिवगिरिं संद्रष्टुं वर्कलां गमिष्यति। तदनन्तरम् अनन्तपुरस्थात् व्योमनिलयात् दिल्लीं प्रतिगमिष्यति।

Sunday, December 13, 2015

दिल्ल्यां नूतनानां डीसल्कार् यानानां निरोधनम्।

नवदिल्ली - दिल्ल्यां नूतनानां डीसल् कार् यानानां पञ्जीकरणं देशीयहरितन्यायाधीशेन निरुद्धम्।दशवर्षाणां पुरातनत्वेन विद्यमानानां डीसल् यानानां पञ्जीकरणपरिष्करणमपि न्यायाधीशस्य आज्ञापत्रे  निरुद्धम्।
केन्द्र-राज्य सर्वकारौ डीसल् कार् यानानि न क्रीणात् इति च निर्दिष्टम्।

सौदिराष्ट्रे महिलानां स्पर्धा मतदानं च।

रियाद् - सौदिअरेब्यायाम् इदंप्रथमतया महिलाः सामाजिकनिर्वाचने स्पर्धितवत्यः मतदानं कृतवत्यः च।तत्र २८४ नगरसभामण्डलेषु गतदिने संवृत्ते निर्वाचने ९७९ वनिताभिः सहितं ६९१७ स्थानार्थिनः आसन्।
२०११ तमे वर्षे  तदानींतनस्य अब्दुल्लाराजस्य शासन काले व महिलानां स्पर्धायै मतदानाय च अनुमतिः दत्ता

Saturday, December 12, 2015

अमङ्गलं मङ्गला- एकस्प्रस्I

नव दिल्ली-  केरलस्य स्वाभिमाने भवतः केरला मङ्गला इति नामके द्वे रेल् याने । केरलतः बहवः जनाः ताभ्यां यानाभ्यां यात्रां कुर्वन्तिI तत्र यात्रिकाणां कृते अवश्यसौकर्याणि अपि न सन्तिI दुष्टान्नं शुचित्वरहितः यानान्तर्भागः  क्षालनाय दुर्लभं जलम् उपयोगेन नाशोन्मुखा शय्या जङ्‌गमदूरवाण्याः कृते विद्युत्प्रदानाय विद्युत्स्थानस्य अभावः दौर्लभ्यता च शय्या श्रेण्यां अधुनापि वर्तन्ते। यथाकालं यात्राशुल्कं वर्धन्ते तथा केरलानां यात्राक्ळेशः अपि।

Thursday, December 10, 2015

पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठ्याः उद्घाटनसभा-विविध दृश्यानि 

शारदा पत्रिकायाः संपादकाय श्री वसन्त अनन्त गाड्गिल् महोदयाय उत्तम संस्कृतपत्रकार पुरस्कारं सम्मानयति।
संनिधिः - अक्षरधाम्नःसाधु वर्यौ डा. साधु भद्रेशदासमहाराजः षट्-दर्शनाचार्यः साधु श्रुति प्रकाशदासमहाराजः, पद्मश्री आचार्य: डा रमाकान्तशुक्ल, डा बलदेवानन्द सागरः,डा संपदानन्द मिश्रः, प्रो. हिमांशु पोटा,  डा चन्द्रभूषण झा च ।

पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठी - नवदिल्याम्।

नवदिल्ली- संस्कृतं संस्कारयति विश्वम् इत्युद्घोषयन् संस्कृतपत्रकार सङ्घ: बि. ए. पि. एस् स्वामिनारायणशोधसंसथा च संयुक्ततया आयोज्यमानः पञ्चम: राष्टियसंगोष्ठी अद्य दशवादने समारभत । पद्मश्री: आचार्य: डा. रमाकान्त शुक्लवर्यस्य अध्यक्ष्ये आरब्धमाने महामेलने संस्कृतलोकस्य प्रियभाजनं डा. बलदेवानन्दसागर: स्वागतं व्याहरत् । सारङ्गपुरस्य अक्षरधाम - शोधसंस्थायाः अध्यक्षः डा. साधु भद्रेशदास महोदयः मुख्यातिथितिः आसीत्। गन्धिनगरस्य आर्षसंशोधन केन्द्रस्य निदेशकः षड् - दर्शनाचार्य: साधु: श्रुति प्रकाशदास-महाराजः उद्घाटनभाषणमकरोत् । सारस्वतातिथ्ये लाल् बहादूर् राष्ट्रिय-संस्कृत विश्वविद्यालयस्य कुलपति: प्रो. रमेशकुमार पाण्डेय: अवर्तयत्  च। ११ दिने सायं सङ्गोष्ठी संपूर्णं भविष्यति। आभारतं विद्यमानाः संस्कृतपत्रकाराः दिन द्वयं यावत् अत्र भागभाजः भविष्यन्ति।

 पञ्चम्याः राष्ट्रिय-संस्कृत-पत्रकार-संगोष्ठ्याः समूह-चित्र-त्रयम् 
महिला पत्रकारिण्यः अक्षरधाम्नि

 अक्षरधाम्नः अध्यक्षः डा. साधु भद्रेशदास महाराजेन सह  संस्कृत पत्रकाराः

 संस्कृत-पत्रकाराः


केरले संस्कृत अक्कादमी आरन्भणीया
-डो बलदेवानन्दसागरः।
कोष़िक्कोट् - केरलराज्ये संस्कृत अक्कादमी आरम्भणीया इति सुप्रसिद्धः संस्कृतवार्ताप्रवाचकः डो. बलदेवानन्दसागरः निरदिशत्।केरलस्य सार्वजनिकशिक्षाविभागेन "संस्कृतं सांस्कृतिकनवोत्थानाय" इत्यस्मिन् विषये सञ्चालिते देशीयसंगोष्ठ्यां मुख्यप्रभाषणं कुर्वन्नासीत् सागरवर्यः।
इदानींतनकालीयं सांस्कृतिकापचयम् अपाकर्तुं संस्कृतशिक्षणम् अपेक्षणीयमिति तेनोक्तम्।

समाजे विद्यमानानां बहूनां धर्मच्युतीनां मूलहेतुः मानविकमूल्यानाम् अभावो भवति।मानविकमूल्यानां प्रचारः संरक्षणं च संस्कृतपठनेनैव सिद्ध्यति।संस्कृतेनैव संस्कृतिः इत्यतः संस्कृतभाषायै अक्काादमीसंस्थापनम् अनिवार्यम्।बलदेवानन्दवर्यः उद्घोषितवान्।
जिल्लापञ्चायत्त् समित्याः अध्यक्षः बाबू परश्शेरीवर्यः सम्मेलनस्य उद्घाटनं कृतवान्। डि डि ई डो गिरीष् चोलयिल् अध्यक्षस्थानमलंकृतवान्।
संस्कृतविभागस्य सविशेषाधिकारी (Special officer)डो. टि डि सुनीतीदेवी HSS प्रविश्या उपनिर्देशकः के गोकुलकृष्णः कोष़िक्कोट् विश्वविद्यालयस्य संस्कृत विभागाध्यक्षा के के गीताकुमारी केरल संस्कृत अध्यापक फेडरेषन् इति संस्थायाः मुख्यकार्यदर्शी टि के सन्तोष् कुमारः राज्याध्यक्षः वेेणु चोव्वल्लूर् इत्यादयः प्रभाषणमकुर्वन्।सम्मेलनान्ते कर्णभारम् इति संस्कृतनाटकस्य  रङ्गमञ्जे अवतरणमपि आयोजितम्।

झार्खण्ड् हरियाना राज्ययोः रेल्यानदुर्घटना -१५ मरणानि।

राञ्ची/पल्वार् - झार्खण्ड् राज्ये हरियानाराज्ये च संवृत्ते धूमयानदुर्घटनाद्वये १५ जनाः हताः।
झार्खण्डे राञ्चीनगरात् ७० कि मी दूरे भूर्कुण्टानिस्थानस् य समीपे पालकशून्ये समतलतरणे(level cross) धूम-कार् यानयोः संघट्टने १४ कार्यानयात्रिकाः मृताः। हरियानायां पल्वाल्प्रदेशे धूमयानयोः मिथः संघट्टने एकः यानचालकः मृतः।

Wednesday, December 9, 2015

नाषणल् हेराल्ड् विषये संसद्स्तंभनम्।

नवदिल्ली - नाषणल् हेराल्ड् इति वार्तापत्रिकासंबन्धविषये भारतीयसंसदः सभाद्वयमपि स्तंभितम्। सभाकार्यक्रमाः स्थगिताः चl
विषयम् उन्नीतुं लोकसभाध्यक्षा सुमित्रा महाजनः राज्यसभाध्यक्षःहमीद् अन्सारी च बहुवारम् कोण्ग्रस्दलाङ्गान् आमन्त्रयत् तथापि तदनङ्गीकृत्य एव ते सभास्तम्भनं कृतवन्तः।एतद्विषये केन्द्रसर्वकारेण प्रतीकारः क्रियते इति कोण्ग्रस् दलस्य आरोपः।

मुम्बईनगरप्रान्तप्रदेशे अग्नि बाधा - द्वौ मृतौ।

मुम्बई - पश्चिमनगरस्य समीपे कान्तिवलीनाम्नि प्रान्तप्रदेशे संवृत्तायामग्निबाधायां द्वौ मृतौ।बहवः आहताः।शताधिकानि कुटीराणि भस्मसात्कृतानि।
कान्तिवलिप्रदेशस्य पूर्वस्यां दिशि अक्कुर्लिमार्गे दामुनगर् प्रविश्यायां ह्यः मध्याह्ने १२.३० वादने अग्निबाधा सञ्जाता।मार्गः कृश इति कारणेन रक्षाप्रवर्तनं दुष्करमभवत्।अस्मिन् सन्दर्भे अनिलकोशानां स्फोटनानि दुरनतस्य तीव्रतामवर्धत।
१६ अग्निशमनयन्त्राणां साहाय्येन आरक्षकाः द्रुतकर्मसेना च रक्षाप्रवर्तनम् अकुर्वन्।

नाटकाचार्यः एस् रामानुजम् अन्तर्यातः।

तञ्चावूर् - दक्षिणभारतस्य नाटकवेदिकाभ्यः नूतनं दिशाबोधं दत्वा नाटकसङ्कल्पने आमूलाग्रं नवपरिवर्तनम् आनीय नाटकरामानुजम् इति विख्यातः आचार्यः एस् रामानुजं कालयवनिकाम् अन्तर्दधौ।८० वयस्क आसीत्।प्राचीन-आधुनिकनाटकानि सहितं मलयालं हिन्दी आङ्गलं तमिल् भाषासु ५० परं नाटकानां निदेशनं अनेन कृतम्।२००८ तमे वर्षे केन्द्र संगीत नाटक अकादम्याः अनुदानं २००२तमे केरलसंगीतनाटकअकादम्याः अनुदानं च अस्मै दत्तमस्ति।
  १९३५तमे तमिल्नाटुराज्ये तञ्चावूर् समीपे नाङ्कुनेरी प्रदेशे लब्धजन्मा अयम् आङ्गलभाषायाम् आचार्यबिरुदं देशीयनाटकविद्यालयात् डिप्लोमा बिरुदं च सम्पाद्य गान्धिग्राम् ग्रामीण सर्वकलाशालायां शिक्षकः अभवत्।ततः तृश्शिवपेरूर् नाटकविद्यालये सहनिर्देशको भूत्वा अनन्तरं तञ्चावूर् तमिल् विश्वविद्यालये नाटकविभागस्य अध्यक्ष अभूत्।तञ्चावूरे तप्पाट्टसदृशानां पारम्पर्यकलारूपाणां पुनरुज्जीवनाय अक्षीणम् अयतत।कैरलीनाटकाचार्यस्य जि शङ्करप्पिल्लामहोदयस्य सहप्रवर्तकः चासीदयम्।