OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 7, 2025

 उपराष्ट्रपतिः केरलं सम्प्राप्तवान्। 

पत्न्या साकं कोच्चीं प्राप्तवन्तं जगदीप धन्करं राज्यपालः आर् वि आर्लेकरः स्वीकरोति। समीपे राज्यमन्त्री पि राजीवः 

कोच्ची> भारतस्य उपराष्ट्रपतिः जगदीप धन्करः दिनद्वयसन्दर्शनार्थं पत्नीसमेतः केरलं सम्प्राप्तवान्। रविवासरे पत्न्या डो सुदेष् धन्करेण सह  कोच्चि अन्ताराष्ट्रविमाननिलयं प्राप्तवते  उपराष्ट्रपतये राज्यपालस्य राजेन्द्र विश्वनाथ आर्लेकरस्य नेतृत्वे हृद्यं स्वीकरणं विधत्तम्।राज्यमन्त्री पि राजीवः, राज्यकार्यदर्शिप्रमुखः डो ए जयतिलकः, आरक्षकदलस्य राज्याधिकारी रवाडा चन्द्रशेखरः इत्यादयश्च स्वीकरणवेलायां सन्निहिताः आसन्। 

  ह्यः कोच्ची बोल्गाट्टीस्थे आडम्बरभवने उषितवान् उपराष्ट्रपतिः अद्य प्रभाते गुरुवायूर् श्रीकृष्णमन्दिरे पत्नीसमेतः सन् दर्शनं विधास्यति। तदनन्दरं कोच्चीं प्रतिनिवृत्तमाणः सः १०. ५५ वादने 'नुवाल्स्' इति National University of Advanced Legal Studies संस्थायां छात्रैः शिक्षकैश्च संवादं करिष्यति। मध्याह्नानन्तरं दिल्लीं प्रतिगमिष्यति च।