माषिचीकाष्ठैः प्रतिकृतिं जीवयन् उत्तराखण्डस्य लालः पवनसुन्दरियाल:
2021 वर्षत: 2022 वर्षपर्यन्तं निरन्तरं द्विःवारं "इण्डिया बुक ओफ् रेकोर्ड् इत्यतु नामाङ्कनं प्राप्तवान्
वार्ताहर:- कुलदीपमैन्दोला। उत्तराखण्डं।
उत्तराखण्डस्य पुण्यभूमौ समये समये अद्भुतानि व्यक्तित्वानि जातानि यैः मानवजातिः विस्मयचकितं भूत्वा करद्वयं मुखे स्थापयति। तादृश: एव कश्चन् प्रतिभावान् पुरुषः अद्य अस्माकं समक्षं परिचयाय उपस्थाप्यते। यः माषिचीकाष्ठैः निर्मिताभिः प्रतिकृतिभिः सर्वेषां मनांसि मोहयति। एषः प्रतिभावान् पुरुषः पंकजसुन्दरियाल: इति प्रसिद्धः अस्ति।
पंकजसुन्दरियालमहोदयस्य जन्म
पौडीगढवालजनपदस्य मजग्रामे, किमगडीगाडे पट्टीचौन्दकोटे इत्यत्र स्व. पुरुषोत्तमसुन्दरियालमहोदयस्य तथा कान्तिदेवीमहोदयायाः पुत्ररूपेण 06 जुलाई 1981 तमे वर्षे अभवत्। तेषां आरम्भिकं शिक्षणं प्राथमिकविद्यालय: चौबट्टाखालं इत्यत्र अभवत्। ततोऽनन्तरं राजकीय -वरिष्ठमाध्यमिक-विद्यालयचौबट्टाखालम् इत्यस्मिन् माध्यमिकं शिक्षणं सम्पन्नम्। तस्मात् पश्चात् पौड़ीपरिसर: इत्यस्मात् एम.एससी. आंग्लोपाधिं प्राप्तवान्। तदनन्तरं पर्यटनस्य तथा योगविद्यायाः स्नातकोत्तरशिक्षणं प्राप्तवान्। ततः बी.एड् इत्यस्य तथा च विशेष बी.टी.एस् इत्यस्य च प्रशिक्षणमपि प्राप्तवान्।2009 ईस्वीयतमे वर्षे पंकजसुन्दरियालमहोदयः श्रीगुरुरामराय विद्यालये पैठाणी इत्यत्र अध्यापकपदं प्राप्तवान्। तस्मात् पूर्वं तु स: व्यापारं कुर्वन् आसीत्। व्यापारानन्तरं तेषां रचनात्मकं मनः विशेषं किञ्चित् कर्तुम् आरब्धवान्। एकदा बुधवासरे स: मन्दिरं गत्वा स्वगृहं प्रतिनिवृत्त:, माषिचीकाष्ठानि (माचिस), च फेविकोल् इत्यपि आनीतवान्।
तेन प्रेरितः पंकजमहोदयः श्री केदारनाथमन्दिरस्य प्रतिकृतिं माषिचीकाष्ठैः निर्मातुम् आरब्धवान्। प्रतिकृतिः पूर्णे सति स: विद्यालये अध्यापकपदं प्राप्तवान। 2012 ईस्वीयतमे वर्षे तेषां नियुक्तिः सर्वकारीयसेवायामपि जाता। अध्यापनकर्मणा सह तेषां कला यात्रापि निरन्तरं प्रवहति स्म। तेन ताजमहलं, नार्वे देशस्य बोरगण्ड: चर्च:, चीनदेशस्य कार्नरटावर् इति, च अयोध्यायाः श्रीराममन्दिरस्य प्रतिकृतयः अपि निर्मिताः।
ते त्रैवार्षिकेन परिश्रमेण श्रीराममन्दिरं निर्मितवन्तः, स: सम्प्रति प्रधानमन्त्रिणं नरेन्द्रमोदीमहोदयं समर्पयितुं इच्छति। यथा सः अयोध्यायाः राममन्दिरसंग्रहालये स्थापितः स्यात्। तस्य अभिलाषा अस्ति यत् – उत्तराखण्डस्य स्थानीयकला-हस्तशिल्पानां प्रोत्साहनं, प्रचारश्च करणीय:। स: प्रशिक्षणकेन्द्रं प्रतिकृतिसंग्रहालयं च स्थातुं इच्छति।
विद्यालये अपि स: शिष्येभ्यः हस्तशिल्पशिक्षणं ददाति। पंकजसुन्दरियालमहोदयः समस्तधार्मिकविषयक-प्रतिमानिर्माणं कृतवान् । भविष्ये ते गुरुद्वारस्य प्रतिकृतिं कर्तुम् इच्छति। कलाद्वारा स: ‘सर्वधर्मसमभाव:’ इत्यस्य संदेशं लोकाय दातुं प्रयत्नशील: वर्तते।
2021 वर्षत: 2022 वर्षपर्यन्तं निरन्तरं द्विःवारं "इण्डिया बुक ऑफ रेकॉर्ड् इत्यतु नामाङ्कनं प्राप्तवान्, य: उत्तराखण्डराज्यस्य प्रथमः व्यक्तिः अस्ति। श्रीराममन्दिरस्य तस्य कृतिः एषा दर्शकानां श्रद्धां जागरयति। तत् तस्य धैर्यस्य, परिश्रमस्य, दृढनिश्चयस्य च प्रत्यक्षफलमस्ति। पंकजमहोदयस्य पितरौ अपि अध्यापकौ आस्तां, ये पंकजं धैर्यं, लग्नतां च शिक्षितवन्तः। तदेतत् शिक्षणं तेषां जीवनसिद्ध्याः कारणम् अभवत्।
वर्तमानकाले राजकीय-प्राथमिक-विद्यालये अन्सारीथापलायां, कोटासंकुले, एकेश्वरविकासखण्डे, पौड़ीगढ़वाले सहायकाध्यापकपदे कार्यरतः पंकजसुन्दरियाल: अध्यापनकार्ये तथा शिष्येभ्यः प्रतिकृति-कलाशिक्षणे अपि संलग्नः अस्ति।