OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 7, 2025

 अमेरिकायाम् इलोण मस्कस्य नेतृत्वे तृतीयं राजनैतिकदलम् -

'दि अमेरिका पार्टी'। 

मस्कः ट्रम्पश्च। 

न्यूयोर्क्> अमेरिकायाः जनाधिपत्यव्यवस्थायां द्विपक्षसम्प्रदायस्य  दमनमुद्घोषयन् नूतनं राजनैतिकदलं रूपीकुर्वन् टेस्ला-स्पेय्स् एक्स् इत्यस्य अधिपः, यू एस् राष्ट्रस्य कार्यक्षमताविभागस्य (डोज्)  भूतपूर्वाधिकारी, उद्योगप्रमुखश्च इलोण मस्कः।  'दि अमेरिका पार्टी' इति नाम्ना नूतनदलं रूपीकृतमिति शनिवासरे 'एक्स्' समाजमाध्यमेन सः उद्घोषितवान्। 

  अमेरिकीयजनसमुदायाय तेषां स्वातन्त्र्यं प्रतिदातुमेव नूतनदलस्य रूपीकरणमिति सः एक्स्' मध्ये लिखितवान्। यदि यू एन् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य 'Big beautiful' नामकम् आयव्ययपत्रविधेयकं सभायाम् अनुमोदयिष्येत् तर्हि आत्मना स्वकीयं नूतनं राजनैतिकदलं रूपीकरिष्यते इति मस्केन विज्ञप्तमासीत्। पूर्वम् आत्ममित्रे मस्कः ट्रम्पश्च परं बद्धवैरिणौ जातौ।