इङ्गलण्ट-भारतनिकषस्पर्धा
क्रीडासूत्रं भारतस्य हस्ते। प्रथमचरणे भारतस्य १८० धावनाङ्कानामाधिपत्यम्। शतकयुगलं प्राप्तवान् शुभमान गिलः।
बर्बिङामः> भारतेङ्गलण्टयोः द्वितीयायाः क्रिकट् निकषस्पर्धायाः प्रथमचरणे भारतस्य आधिपत्यम्। इङ्गलण्टस्य कन्दुकताडनं ४०७ धावनाङ्कप्राप्तौ समाप्तम्। पूर्वं भारतेन शुभमान् गिलस्य शतकयुगलस्य [२६९] प्रभावेण ५८७ धावनाङ्कानि सम्प्राप्तानि। अतः १८० धावनाङ्कानामाधिपत्यं भारतेन प्राप्तम्।
द्वितीयचरणे कन्दुकताडनम् आरब्धवता भारतदलेन, तृतीयदिनक्रीडायां समाप्तायां ताडकैकस्य विनष्टे ६४ धावनाङ्कानि प्राप्तानि। इदानीं भारतस्य २४४ धावनाङ्कानाम् आधिपत्यमस्ति।