OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 14, 2015

अद्य आरभ्य दिनद्वयं प्रधानमन्त्री केरले।

कोच्ची -दिनद्वयात्मकं केरलसन्दर्शनार्थं भारतस्य प्रधानमन्त्री नरेन्द्र मोदी अद्य कोच्चीं प्राप्नोति। प्रधानमन्त्रिपदप्राप्त्यनन्तरं मोदिनः प्रथमं सन्दर्शनमिदम्।
सोमवासरे सायं ४.१० वादने कोच्ची नाविकविमाननिलयं प्रापस्मानाय मोदीवर्याय केरलसर्वकारः स्वीकरणं प्रदास्यति। ततः तृश्शिवपेरूर् नगरे भा ज पा दलेन आयोज्यमाने सम्मेलने प्रभाषणं करिष्यति। पुनः कोच्चीं प्रतिनिवृत्य नगरस्थे ताज्मलबार् भवनसमुच्चये वासः।
अपरेद्युः प्रभाते ऐ एन् एस् विक्रमादित्य इति विमानवाहिनिमहानौकायां त्रयाणां सेनाविभागानां सम्मेलने भागभागित्वं कृत्वा कोल्लं नगरे भूतपूर्वस्य मुख्यमन्त्रिणः आर् शङ्कर् महोदयस्य प्रतिमायाः अनाच्छादनं करिष्यति। ततः श्रीनारायणगुरोः समाधिस्थानभूतं शिवगिरिं संद्रष्टुं वर्कलां गमिष्यति। तदनन्तरम् अनन्तपुरस्थात् व्योमनिलयात् दिल्लीं प्रतिगमिष्यति।