विजयमल्ल्यं प्रति प्रतिभूतिरहितम् अधिपत्रं विज्ञापितम्।
मुम्बई- विवादशौण्डिकं विजयमल्ल्यं बध्नातुं मुम्बय्यां सविशेषन्यायालयः प्रतिभूतिरहितम् अधिपत्रं विज्ञापितम्।
ऐ.डि.बि.ऐ वित्तकोशात् किङ्फिषर् इति विमानसंस्थायै स्वीकृतं ९०० कोटिरूप्यकाणाम् ऋणम् अनुचितरीत्या विदेशे धनं सम्पादयितुम् उपयुक्तवान् इति विषये एन्फोर्स्मेन्ट् डयरक्टरेट् संस्थायाः अपेक्षानुसारमेव न्यायालयस्य अधिपत्रम्।
अतितापे राष्ट्रं दहति।
कोच्ची - ग्रीष्मतापः भारते सर्वत्र जनजीवनं दुस्सहं कारयति। महाराष्ट्रं ओडीषा तेलुङ्काना केरलम् इत्यादीनि राज्यानि रूक्षम् अनावृष्टिनाशम् अनुभवन्ति।
ओडीषायां तापमानः ४६ डिग्री सेल्ष्यस् रेखितः। नवदिल्ल्यां ४४ डिग्री अतीतः। केरले उच्चतमः तापः मलम्पुष़ायाम् अङ्कितः -४१.१ डिग्री सेल्ष्यस्।
केरले नद्यः सर्वाः शुष्यन्ति स्म। कृषेश्च व्यापकनाश अभवत्।
आदिवासिकुटुम्बैः वासः नद्यां कृतः।
कोट्टियूर्,केरलम् - रूक्षया अनावृष्ट्या आदिवासिनः स्वावासस्थानं विहाय नदी तीरमाश्रिताः। कण्णूर् जनपदे नेल्लियोट् कल्लंतोट् सहनिवासस्थाः वनवासिनः सकुटुम्बं बावलीनदीमाश्रित्य कुटीराणि कृत्वा वासमारब्धवन्तः।
अष्ट परिवाराः अपत्यैः सह नद्यां पर्णकुटीराणि निर्मीय तेष्वेव वासः। जनुवरिमासादारभ्य जलदौर्लभ्यमनुभवन्तीति तैः उक्ततम्। इदानीं नद्यां लघुगर्तं कृत्वा जलं सम्पादयन्ति। पचनस्वापादिकं सर्वं कुटीरे एव कुर्वन्ति।































