OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 7, 2016

स्फोटकवस्तुयुक्तेन कार् यानेन सह भीकराः भारतं प्रविष्टाः।
नवदिल्ली > महदीम् आयुधावलिं सम्पाद्य त्रयः पाकिस्तानीयाः  भीकराः भारतं प्रविष्टा इति गुप्तचरदलेन विज्ञापितम्। दिल्ली मुम्बई गोव इत्येतेषु नगरेषु आक्रमणं कर्तुं भीकराणां लक्ष्यमिति सन्देहः। 
आत्महत्यासन्नद्धाः भीकराः तदुपकारकाणि बोम्बादीनि वस्तूनि संभृत्य एव तेषां प्रवेश इति सूच्यते। भारतस्य प्रतिरोधस्थापनानि , आराधनालयानि , जनसम्मर्दस्थानानि  रेल् वे निस्थानानि इत्यादीनां सुरक्षा नितरां दृढीकृता वर्तते।

आढ्यानां कूटधनानां रहस्यानि बहिरागतानि। 

पानमा सिटि> लोके धनिकाः अधिकारिणश्च आढ्याः कथं करमदत्वा अविहितधनसम्पादनं कुर्वन्ति , व्याजधनानि यथातथं कुर्वन्ति इत्यादीनाम् आघातात्मकाः प्रलेखाः बहिरागताः ।
 लोके रहस्यतमस्वभावात्मकसंस्थासु अन्यतमायाः " मोसाक् फोण्सेक् " (एम् एफ् ) नामिकायाः संस्थायाः स्रंसिताः भवन्त्येते प्रलेखाः। पानामेति मध्यामेरिक्काराष्ट्रं भवति अस्य विधिसाहाय्यस्थापनस्य आस्थानम् ।
काचन जर्मन् पत्रिकया समाहृतान् १. १ कोटि प्रलेखान् ७६ राष्ट्राणां १०९ प्रसारमाध्यमानां समितिः शोधनं कृत्वा एव वार्तां बहिरानीतवती ।

म्यान्मर् राष्ट्रस्य भूतपूर्वराष्ट्रपतिः तेय्न् सेय्न् संन्यासं स्वीकृतवान्।


याङ्कूण् > म्यान्मर्राष्ट्रस्य भूतपूर्व राष्ट्रपतिः तेय्न् सेय्न् स्वस्य औद्योगिकीं चीवरमुपेक्ष्य शिरसः मुण्डनं कृत्वा काषायवस्त्रं धृत्वा बुद्धभिक्षुः अभवत्‌I इदानीं तस्य चित्रं सर्वजनिक-माध्यमेषु प्रचरितम् अभवत्। कतिपयदिनेभ्यः पूर्वमेव सः स्वस्य स्थानं त्यक्तवान् आसीत्। सन्यासस्य प्रारम्भ प्रक्रियायां पञ्च दिनानि यवत् अन्यैः भिक्षुकैः समं सः वासं करिष्यति। संन्यासाश्रमे तस्य महोदयस्य नूतनं नाम 'उ थाण्डि धम्मः' इति।