OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 17, 2016

जापानस्य भूकम्पे ३५ जनाः मृताः

कुम मोट्टो > दक्षिण जापानं प्रकम्पितयोः भूकम्प्रयोः पञ्चत्रिशत् जनाः मृताः सहस्राधिकाः व्रणिताः। एतेषु चत्वारिंशदधिक अष्टादशशतानां जनानां अवस्था गुरुतरा अस्ति। प्रचण्डवातः मृत् पातः च भविष्यतः इति घोषणां श्रुत्वा जनाः भयचकिताः। कुमोट्टो मण्डलेषु एव नाशाधिक्यः। गृहाणि, पन्थानः, रेल् पन्थानः च निमिषार्धेन अप्रत्यक्षाः अभवन्। हर्म्यावशिष्टाणांमध्ये जनाः बहवः बन्धिताः। रक्षाप्रवर्तनानि अनुवर्तते च। गुरुवासरे जाते कम्पने नवजनाः मृताः आसन्। किन्तु शनिवासरस्य कम्पने १६ जनाः मृताः I रिक्टर् मापिकायं ७ अंकिताः द्वितीयः कम्पः। सेतोः नाशं विचिन्त्य ३००जनाः ततः निष्कासिताः। इदानीम् आहत्य ९०,००० जनाः सुरक्षितस्थानं प्रापिताः। चतुरधिकशतं वर्षान् भूकम्पान् अतिजीव्य तिष्टन् कुममोट्टो प्राकारः भागिकतया नाशिताः १६०७ तमे वर्षे राज्ञा कियो मासो काट्टो महात्मना मिर्मितोSयं प्राकारः।

प्रभावहानिं विना अद्य तृश्शिवपेरूर् पूरम् ।

तृश्शिवपेरूर् - (केरलम् ) - विश्वप्रसिद्धः तृशूर् पूरं महोत्सवः अद्य तृश्शिवपेरूर् वटक्कुन्नाथमन्दिराङ्कणे प्रचलति ।
पुट्टिङ्ङल् स्फोटकदुरन्तस्य पृष्ठभूमिकया स्फोटोत्सवः दिवां गजावलिप्रदर्शनं च उच्चन्यायालयेन निरुद्धौ इत्यतः पूरं नाममात्रं कर्तुं निश्चितमासीत् । परन्तु मुख्यमन्त्रिणः उम्मन् चाण्टि वर्यस्य नेतृत्वे त्रिभिः मन्त्रिभिः देवस्वम् अधिकारिभिश्च सह तृश्शिवपेरूरे सम्पन्नायां चर्चायां पूरं सर्वप्रभावेण प्रौढ्या च संचालयितुं निश्चयः कृतः । गजप्रदर्शनस्य नियन्त्रणं सर्वकारेण निराकृतम् । तथा स्फोटोत्सवाय उच्चन्यायालयस्य अनुमतिः लब्धा च ।