OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 6, 2016

गतिरारब्धवान् गतिमान्
आग्र> भारतीय रेल् यानेषु त्वरितवेगवत् जवराजः इव गतिमान् एक्स्-प्रस् ह्यः आरभ्य धावनं आरब्धम्।  रेल्वे मन्त्री सुरेष्प्रभु वर्यः स्वस्य कार्यालये उपविश्य रिमोट्‌ कण्ट्रोल् उपयुज्य यात्रायाः उद्घाटनं अकरोत्। दिल्लीतः आग्रापर्यन्तम् आसीत्  प्रथमयात्रा।

सविशेषतया निर्मितेन यानपेटिका (बोगी)मध्ये निशुल्कं वैफै, स्वयं नियन्त्रितानि वातायनानि सहायतायै होस्टस् नार्यः
च सन्ति। द्वादश यात्रापेटिकाः च अस्मिन् विद्यन्ते । चिटिकायाः मूल्यम् शताब्द्याः अपि अधिकम्। शुक्रवासरे यात्रा नास्ति। यात्रायाः १०० निमेषाणां दैर्घ्यामस्ति। षष्ट्यधिकशतं १६०  कि.मी वेगेन धावमानं भारतस्य प्रथमं रेल् यानं भवति गतिमान्।


बीहारे सम्पूर्णमदिरानिरोधनम्।
गृहेषु सन्तुष्टिः भवतु
पट्न> बीहारराज्ये सम्पूर्णमदिरानिरोधनं प्रावर्तिकं कर्तुं नितीष् कुमार् मन्त्रिसभया निश्चितम् ।ग्रामीणमद्यं , सुरा इत्यादीनां निरोधनं कतिपयदिनेभ्यः पूर्वं प्रख्यापितमासीत्। इदानीं भारतनिर्मितं तथा विदेशनिर्मितं च सर्वप्रकारं मद्यं निरोधितम्। राज्ये सम्पूर्णमदिरानिरोधनं नितीष् कुमारस्य निर्वाचनवाग्दानमासीत्।