OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 16, 2016

केरळे संस्कृताधापकपरिशीलनम् आरब्धम्।

इटुक्की > केरळे चतुर्दिन संस्कृताध्यापक सहयोगकार्यक्रमः आरब्धः। विविधेभ्यः जनपथेभ्यः द्विचत्वारिंशत्‌ अध्यापकाः विशेषज्ञत्वेन परिशीलिताः भवेयुः। एते केरळस्य विविधेषु प्रदेशोषु अध्यापकेभ्यः अध्यापनाय सहाय्यं करिष्यन्ति।
सार्वजनीन-शिक्षामण्डले निजीय शैक्षिकमण्डलापेक्षया अधिकतया उत्कर्षः जातः इति अभिप्रयन्ति जनाः। संस्कृत -विभागे प्रथम कक्षादारभ्य द्वादाश कक्षापर्यन्तं चतुर्लक्षं छात्राः पठन्ति। १०१६ जूण्‌मासे  पञ्चाशत् सहस्रं छात्राः प्रथम कक्ष्यायां आगच्छेयुः इति प्रतीक्ष्यते इति राज्यस्तरीय शैक्षिक अनुसन्धानस्य संस्कृत विभागास्य प्रत्येक अधिकारी श्रीमति डा. सुनीतीदेवी वर्या अक्तवती। इदानीं प्रथमकक्षायां संस्कृतपठनाय सर्वेषां अवसरः नास्ति। यत्र प्रथम कक्षादारभ्य सप्तमकक्षा पर्यन्तं माध्यमिकविद्यालयः आयोजितः अस्ति केवलं तत्रैव संस्कृताध्ययनाय अवसरः इति न्यूनताअस्ति। किन्तु इदानीम् अधिकाः जनाः अपत्यान् संस्कृतं पाठयतुम् अभिलषन्ति इति च सा उक्तवती।