साधारणजनस्य कृते सरलसंस्कृतेन अनुवादः आवश्यकः -डा. प्रकाशपन्त:।
OUR YouTube Channel 1. SampratiVartah |
marquee
Wednesday, March 5, 2025
चाम्प्यन्स् ट्रोफी - भारतम् अन्तिमचरणं प्राविशत्।
विश्वचषके पराजयस्य आस्ट्रेलियां प्रति मधुरप्रतीकारः!
विजये भारतदलस्य आह्लादः।
दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकटस्पर्धायाः पूर्वान्त्यचक्रे भारतेन आस्ट्रेलिया चतुर्भिः ताडकैः पराजिता। १५ मासेभ्यः पूर्वं अहम्मदाबादे सम्पन्ने विश्वचषकस्पर्धायाः अन्तिमप्रतिद्वन्द्वे आस्ट्रेलिययाः स्वीकृतस्य पराजयस्य मधुरप्रतीकाररूपेण गण्यते अयं विजयः।
चाम्प्यन्स् ट्रोफीपरम्परायाः पूर्वान्त्यस्पर्धायाम् आधिकारिकः विजयः आसीत् भारतस्य। कन्दुकक्षेपणे ताडने च युगपत् श्रेष्ठतां प्रकटितवान् भारतदलः। प्राप्ताङ्कसूचिका - आस्ट्रेलिया ४९. ३ क्षेपणचक्रे २६४ धावनाङ्कैः सर्वे बहिर्नीताः। भारतं, ४८. १ क्षेपणचक्रे षट् ताडकानां विनष्टे २६७।
विराट कोहली ८४ धावनाङ्कान् सम्पाद्य श्रेष्ठक्रीडकपदं प्राप्तवान्। कन्दुकक्षेपकः मुहम्मद षमी द्वारकत्रितयं प्राप्तवान् च। अद्य सम्पत्स्यमाने दक्षिणाफ्रिका - न्यूसिलान्ट् प्रतिद्वन्द्वे यः विजयी भविष्यति स एव अन्तिमचरणे भारतस्य प्रतिद्वन्दी।
Tuesday, March 4, 2025
आङ्गलं यू एस् राष्ट्रस्य औद्योगिकी भाषा।
वाषिङ्टणः> आङ्गलभाषां यू एस् राष्ट्रस्य औद्योगिकभाषारूपेण विधत्ते आदेशे डोनाल्ड ट्रम्पेन हस्ताक्षरं कृतम्। यू एस् राष्ट्रस्य २५० संवत्सरीयचरिते प्रथममेवायमादेशः। औद्योगिकभाषापदात् स्पानिष् भाषा अपाकृता।
राष्ट्रस्य ऐक्यसंस्थापनाय सर्वकारस्य कार्यक्षमतावर्धनायैव अयं प्रक्रम इति वैट् हौस् अधिकारिभिरुक्तम्। किन्तु अयं परिष्कारः अमेरिकायां वर्तमानानां अनेकेषां भाषा - प्रवासिनां दोषाय भविष्यतीति मान्यते। राष्ट्रे ३५० अधिकाः भाषाः व्यवहारे सन्ति।
एन् एन् एस् एस् संस्थायाः अङ्गभूतेषु विद्यालयेषु २०२१ तमवर्षात् आरभ्य नियुक्तानि ३५० अधिकानि पदानि स्थिरीकर्तुम् सर्वोच्चन्यायालयेन आदेशः दत्तः।
दिल्ली > भिन्नशक्तिसंवरणार्थं पदानि विन्यस्तानि इत्यनेन केरलेषु एन् एस् एस् संस्थायाः विधेयत्वेन विद्यमानेषु विद्यालयेषु शिक्षकेतर-शिक्षकनियुक्तये केरल-राज्यसर्वकारं प्रति सर्वोच्चन्यायालयेन आदेशः प्रदत्तः। न्यायाधीशः बी.आर्.गवायः अध्यक्षरूपेण आसन्। एन् एन् एस् एस् संस्थायाः विद्यालयेषु भिन्नशक्तिमद्भ्यः षष्टिस्थानानि विन्यस्तानि इति निरीक्ष्य एव निर्णयः कृतः।
ओस्कारे 'अनोरा' प्रकाशते - ५ पुरस्काराः।
मैकी माडिसणः श्रेष्ठा अभिनेत्री; अड्रियन् ब्रोडिः श्रेष्ठः अभिनेता। 
पुरस्कारलब्धाः - वामतः , अड्रियन् ब्रोडिः [नटः], मैकी माडिसणः [नटी], सोयी सल्दाना [सहाभिनेत्री], किरण् कुल्किन् [सहाभिनेता]
लोस् आञ्जलसः> ओस्कार् चलच्चित्रपुरस्कारस्य ९७ तमे संस्करणे षोण् बेकरेण निदेशं कृतं अमेरिकीयचलच्चित्रम् अनोरा नामकं पञ्च पुरस्कारान् प्राप्नोत्। श्रेष्ठं चित्रं, श्रेष्ठा दृश्यकथा, श्रेष्ठं निदेशनं, श्रेष्ठं चित्रसंयोजनं, श्रेष्ठा अभिनेत्री इत्येते पुरस्काराः अनोरया प्राप्ताः।
निदेशकत्वं विना दृश्यकथा, चित्रसंयोजनं इति पुरस्कारद्वयमपि निदेशकेन षोण् बेकरेण प्राप्तानि। अनोरा इति नायिकाकथापात्रम् अवतारितवती मैकी माडिसणः श्रेष्ठा अभिनेत्री अभवत्। 'दि ब्रूटलिस्ट्' इत्यस्मिन् चलच्चित्रे अभिनयेन अड्रियन् ब्रोडिः श्रेष्ठः अभिनेता जातः।
Monday, March 3, 2025
रञ्जी ट्रोफी विदर्भया प्राप्तम्। ![]()
नागपुरं> रञ्जी ट्रोफी क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वे केरलं पराजित्य विदर्भादलः किरीटं प्राप। रञ्जी ट्रोफी स्पर्धायां विदर्भायाः तृतीयकिरीटं भवत्येतत्।
अन्तिमचरणं यावत् पराजयमविज्ञाय अग्रे गच्छतः केरलस्य इदं प्रथमतया किरीटं लप्स्येत इत्यभिलाषः अस्तंगतः। अन्तिमस्पर्धायाः पञ्चमदिने रविवासरे द्वितीयचरणे विदर्भायां ३७५/९ इति प्राप्तायां स्पर्धां समस्थितिं विधातुं दलद्वयेन निश्चितम्। प्रथमचरणे प्राप्तस्य ३७ धावनाङ्कानामधिकत्वस्य कारणेन विदर्भा विजयीभूता।
'श्यामवेतालः' उडुराजं संस्पर्श।
चन्द्रोपरितलावतरणं सम्पूर्णविजयं प्राप्तवत् प्रथमं निजीयपेटकम्। 
चन्द्रोपरितलं प्राप्तम् ब्लू गोस्ट् पेटकम्।
फ्लोरिडा> अमेरिकायां निजीयसंस्था 'फयर् फ्लै एय्रो स्पेय्स्' इत्यनया विक्षिप्तं 'ब्लू गोस्ट्' नामकं यानपेटकं चन्द्रोपग्रहस्य उपरितलं सुरक्षितरीत्या अवतारितम्। उडुराजं प्रति सुरक्षितेनावतीर्णं द्वितीयं निजीयं स्थलतरणकम्, अवतरणं सम्पूर्णविजयं प्राप्तवत् प्रथमं निजीयपेटकमिति लाभः ब्लू गोस्ट् प्राप्नोत्।
भारतीयसमयानुसारं रविवासरे अपराह्ने २. ०४ वादने चन्द्रे 'मेर् क्रिसियम्' इति गर्ते पेटकमिदं अवतरितम्। अवतरणप्रक्रिया ६३ निमेषान् यावत् सम्पन्ना। जनुवरिमासे १५ तमे दिनाङ्के आसीत् स्पेय्स् एक्स् इत्यस्य फाल्कण् ९ इति विक्षेपिणीमुपयुज्य ब्लू गोस्टस्य विक्षेपणम्। मासैकं यावत् भूमिं परिक्रम्यानन्तरमेव चान्द्रभ्रमणपथं प्राप्तवत्।
Sunday, March 2, 2025
चाम्प्यन्स् ट्रोफी
आस्ट्रेलिया चतुर्थांशं प्रविष्टा।
लाहोरं> चाम्प्यन्स् ट्रोफी क्रिकेट स्पर्धायाः आस्ट्रेलिया-अफ्गानिस्थाप्रतिद्वन्द्वे वर्षाभ्यः त्यक्ते बी संघे प्रथमस्थानं प्राप्तः आस्ट्रेलियदलः चतुर्थांशचक्रं प्राविशत्।
अफ्गानेन दत्तं २७४ धावनाङ्काः इति विजयलक्ष्यमनुधावन् आस्ट्रेलिया दले १२. ५ क्षेपणचक्रेषु ताडकैकं विनष्ट्य १०९ धावनाङ्केषु प्राप्तेषु वृष्ट्या क्रीडा स्थगिता। वृष्टिनियमोSपि प्रयोक्तुं न शक्येत यतः २० क्षेपणणचक्राणि न पूर्तीकृतानि।
एस् एस् एल् सि , एछ् एस् एस् परीक्षाः श्वः आरभ्यन्ते।
अनन्तपुरी> केरले दशम्याः कक्ष्यायाः , +२ कक्ष्यायाः च वार्षिकी परीक्षाः सोमवासरे आरप्स्यन्ते। प्रतिदिनं प्रातः ९. ३० वादनतः ११. ४५ वादनपर्यन्तं दशमकक्ष्यापरीक्षाः [एस् एस् एल् सि] विधास्यन्ते। उच्चतरक्ष्याणां [+२] परीक्षाः मध्याह्नानन्तरं सार्धैकवादनात् सायं सपादचतुर्वादनपर्यन्तं प्रचालयिष्यन्ते।
एस् एस् एल् सि परीक्षाः , +२ परीक्षाः च मार्च् २६ तमे दिनाङ्के समाप्स्यन्ते।
Saturday, March 1, 2025
कृत्रिमबुद्धेः लोके शरत् श्रीधरः श्रद्धेयः।
कृत्रिमबुद्धेः परीक्षणं निरीक्षणं च आविश्वं प्रचलत् अस्ति। सन्दर्भेऽस्मिन् भारतीयः युव वैज्ञानिकः शरत् श्रीधरः विशेषवैज्ञानिकरूपेण चितः अस्ति। अमेरिकराष्ट्रे विद्यमाना ' इन्स्टिट्यूट् ओफ् इलट्रिकल् आन्ट् इलक्ट्रोणिक्स् एन्जिनियेर्स् इन्टलिजन्ट् सिस्टंस् (IEEE) संस्थया एव एषः चितः। अमेरिक राष्ट्रस्य विश्वविद्यालयेषु विश्रुतः कोलराडो विश्वविद्यालये अध्यापकः भवति अयम्। मानवानां धार्मिकविश्वासः तेषां व्यवहाराः च क्रित्रिमबुद्धौ समन्वयितुम् उपकारकं 'Algorithm' एव तस्य अनुसन्धान विषयः। कालेऽस्मिन् कृत्रिमबुद्धेः धर्मिकतायां जनेभ्यः आश्ङ्काः वर्तन्ते। सन्दर्भेऽस्मिन् अस्य अनुसन्धानः प्राधान्यम् अर्हति। CUSAT इति केरळस्यय वैज्ञानिक-प्रौद्योगिक-विश्वविद्यालयात् सङ्गणकीय विज्ञाने बिरुदं प्राप्तवान् एषः अरिसोण विश्वविद्यालयतः बिरुदानन्तरबिरुदम् अनन्तरं विद्यावारिधिः (PhD) च प्राप्तवान् ॥
Friday, February 28, 2025
मार्पापावर्यस्य स्वास्थ्यं श्रेष्ठतरं जातम्।
प्रार्थनाकार्यक्रमे भागं गृहीतवान्।
रोमः> श्वासकोशाणुबाधया आतुरालये परिचर्यायां वर्तमानस्य मार्पापावर्यस्य स्वास्थ्यावस्था शुभकरी वर्तते इति वत्तिक्कानस्य औद्योगिकविभागेन निगदितम्। आराधनालये प्रार्थनायाम् इतराराधनाकार्यक्रमेषु च तस्य भागभाग्त्वमासीत्।
गते १४ तमे दिनाङ्के आसीत् सः आतुरालयं प्रविष्टः। श्वासकोशे अणुबाधा न्यूना अभवत्। किन्तु शुश्रूषा अनुवर्तते।
अद्य आकाशे दृश्यविस्मयः।
सप्त ग्रहाः समानदिशां प्राप्नुवन्ति।
नवदिल्ली> सौरयूथम् अत्यपूर्वदृश्यविस्मयाय सिद्धमस्ति। सप्त ग्रहाः - बुधः,शुक्रः, कुजः, बृहस्पतिः शनिः,यूरानस्, नेप्ट्य्णः, - सूर्यस्य समानदिशां विन्यस्यन्ते। २०२५ फेब्रुवरि २८ तमे दिनाङ्के रात्रौ भारते अपि एतत् द्रष्टुं शक्यते।
२०२५ मार्च मासस्य तृतीयदिनाङ्कपर्यन्तं भारते अपूर्वमेनं ज्योतिशास्त्रविस्मयं द्रष्टुं शक्यते। जनुवरिमासे अयं विन्यासः आरब्धः। बुधादृते अन्ये षट् ग्रहाः इदानीमेव विन्यस्ताः सन्ति। अद्य बुधस्य विन्यासेन एतत् पूर्तीकरिष्यति।
Thursday, February 27, 2025
चाम्प्यन्स् ट्रोफी -
अफ्गानिस्थानात् पराजयं स्वीकृत्य इङ्लाण्टः बहिर्गतः।.webp)
शतकं प्राप्तवान् इब्राहिम सद्रानः।
लाहोर्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः गतदिने अफ्गानिस्थानस्य इङ्लाण्टं विरुध्य प्रतिलोमविजयः। इब्राहिम सद्रानस्य अत्युज्वलशतकस्य [१७७] बले महत्प्राप्ताङ्कान् [३२५] सम्पाद्य इङ्लाण्टं ८ धावनाङ्कैः पराजयत। द्वितीयचरणे प्रत्युत्तरताडने इङ्लाण्टस्य जो रूटः शतकं [१२०] प्राप्तवानपि अफ्गानिस्थानस्य निश्चयदार्ढ्ये विजयतीरमवाप।
प्राप्ताङ्कसूचिका - अफ्गानिस्थानं ५० क्षेपणचक्रेषु ३२५/७ ; इङ्लाण्टः ४९. ५ क्षेपणचक्रेषु ३१७ /१०। अनेन इङ्लाण्टः क्रीडापरम्परायाः बहिर्नीतः।
महाकुम्भमेला अद्य सम्पूर्णा भविष्यति। 64 कोट्यधिकाः जनाः अस्मिन्महोत्सवे आगताः इति गणना; अद्य 2 कोट्यधिकाः तीर्थयात्रिकाः स्नानं करिष्यन्ति।
प्रयागराजे उत्तरप्रदेशे सम्पद्यमाना महाकुम्भमेला अद्य सम्पूर्णा भविष्यति। त्रिवेणीसङ्गमे शिवरात्रिस्नानेन समापनं भविष्यति। अस्मिन्कुम्भमहोत्सवे 64 कोट्यधिकाः तीर्थयत्रिकाः आगताः इति गणना। सार्वजनिकदिवसस्य विशेषत्वेन अद्य 2 कोट्यधिकाः तीर्थियत्रिकाः स्नानाय आगताः सन्ति। महाजनबाहुल्येन मेलानगरे सुदृढानि सुरक्षा-प्रबन्धनानि स्थापितानि।
जि मेयिल् इत्यस्मै नवसुरक्षासंविधानं - क्यू आर् कोड् ।
आविश्वं जनाः अणुप्रैष-प्रेषणाय उपयुज्यमाना सुविधा भवति 'जि मेल्'। उपभोक्तॄणां लेखायै अधिकसुरक्षायै नूतनव्यवस्थाम् अयोजयितुम् अधुना निश्चितः। QR Code संविधानम् उपयोक्तुमेव भवति उद्देश्यः। एस् एम् एस् द्वारा लब्धा गूढसंख्या अन्तर्जालतस्करेभ्यः लब्धुमवसरः अस्ति इत्यनेन भवति अयं नूतनः परिष्कारः। विना विलम्बं परिष्कारोऽयं प्रबलः भविष्यति इत्यस्ति प्रतिवेदनम्।
Tuesday, February 25, 2025
चाम्प्यन्स् ड्रोफी स्पर्धायां भागं स्वीकर्तुम् आगम्यमानान् विदेशीयान् अपहर्तुम् ऐ एस् भीकराः सज्जतां करोति।
लाहोर्> चाम्प्यन्स् ड्रोफी स्पर्धायां भागं स्वीकर्तुं आगम्यमानान् विदेशीयान् अपहर्तुम् 'ऐ एस् के पि' सङ्घेन गूढतन्त्राणि आविष्कृतानि इति पाकिस्थानियायाः रहस्यान्वेषणसंस्थायाः पूर्वसूचना अस्ति। चैनाराष्ट्रियान् तथा आरबराष्ट्रियान् एव प्रधानतया एते संघाः लक्ष्यीकुर्वन्ति। मोचनद्रव्यार्थमेव तन्त्राणि आविष्क्रियन्ते इति प्रतिवेदनमस्ति।
Monday, February 24, 2025
गङ्गाजलस्य स्वयम्-शुद्धीकरणशक्तिरस्ति - अजयः सोंकरः।
प्रसिद्धः वैज्ञानिकः पद्मश्री डा. अजयः सोंकरः गङ्गायाः स्वयम्-शुद्धीकरणशक्तिं प्रतिपादयति। सः गङ्गायाः पञ्चसु स्नानस्थानेषु गत्वा जलं संगृह्य परीक्षणं कृतवान्। ए एन् ऐ इत्यनेन राष्ट्रियमाध्यमेन एषा वार्ता प्रकाशिता।
गङ्गाजले ११०० प्रकाराणां बॅक्टेरियोफेज् (bacteriophage)- अणुखादी इति जीवाणूनाम् अस्तित्वमस्ति, ये सुरक्षा-सैनिकाः इव कार्यं कुर्वन्ति। ते हानिकरजीवाणून् शोधयन्ति, विनाशयन्ति च।
षष्ट्यधिक-शतककोटिः जनाः कुम्भमहोत्सवे स्नात्वाऽपि गङ्गा रोगाणुभ्यः विमुक्ता भवति। अस्याः स्वयम्-शुद्धीकरणशक्तिरेव तस्य कारणम्। 'संशयालवः मम पुरतः परीक्षणं कृत्वा विश्वसितुं शक्नोति' इति डा. सोंकरः प्रतिपादयति।
गङ्गा लोके अपूर्वा स्वयम्-शुद्धीकरणशक्तियुक्ता निर्मलजलनदी भवति इति सः वदति। बॅक्टेरियोफेज् जीवाणुखादी-जीवाणवः पञ्चाशद्गुणं लघवः सन्ति, किन्तु तेषां शक्तिः अद्भुतावहा एव।
महाकुम्भमहोत्सवे सहस्रशः जनाः स्नान्ति, तदा निष्कासितान् रोगाणून् जीवाणुखादी-जीवाणवः निर्वीयं कुर्वन्ति। ते केवलं हानिकारीजीवाणून् नाशयन्ति, न तु शुभजीवाणून्। प्रत्येकः फेजः शीघ्रं १००-३०० नवीनान् उत्पादयति, दुष्टजीवाणून् नाशयन्ति च।
डा. सोंकरः अर्बुदः, आनुवंशिक-सङ्केतः, 'सेल् बयोलजि', ओट्टोफागी' इत्यादिषु वैश्विक-गवेषकः अस्ति। वागनिङ्गन्-विश्वविद्यालयः, रैस्-विश्वविद्यालयः, टोकियो-प्रौद्योगिकी-संस्थानम्, हार्वर्ड्-मेडिकल्-विद्यालयः इत्यादिषु सः सहकार्यं कृतवान्।
पोषकाहारः, हृद्रोगः, मधुमेहः इत्यादिषु अपि तस्य अनुसन्धानम् अस्ति। ह्यूस्टन्-नगरे विद्यमानस्य रैस्-विश्वविद्यालयस्य जीन्-सङ्केततन्त्रे तस्य कर्म प्रशंसार्हम् एव भवति।
चाम्प्यन्स् ट्रोफी - पाकिस्थानं विरुध्य अपि भारतस्य विजयः। 
शतकप्राप्त्यनन्तरं विराट कोली।
दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धापरम्परायां भारतस्य द्वितीयस्पर्धा अपि भारतेन विजिता। ह्यः सम्पन्ने दिवानिशप्रतिद्वन्द्वे पाकिस्थानं चतुर्णां ताडकानां विनष्टेन पराजयत। विराट कोली शतकं प्राप्य अबाह्यः अभवत्। श्रेष्ठक्रीडकपदं च तेन लब्धम्।
प्राप्ताङ्कसूचिका - प्रथमचरणे पाकिस्थानं ४९. ४ क्षेपणचक्रेषु २४१ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीताः। भारतं तु ४२. ४ क्षेपणचक्रेषु २४४/४। अनया क्रीडया भारतस्य चतुर्थांशप्रवेशः अनायासः भवेत्।
Sunday, February 23, 2025
तेलङ्काने ८ कर्मकराः सुरङ्गे लग्नाः।
रक्षाप्रवर्तनं अनुवर्तते।
हैदराबादः> तेलङ्कानराज्ये नागरकुर्णूरजनपदे अंरबादे निर्माणे वर्तमानस्य सुरङ्गस्य अन्तः ८ कर्मकराः लग्नाः। श्रीशैलं सेतोः पृष्ठतः वर्तमाने सुरङ्गे वृत्यर्थं प्रविष्टाः एव दुर्घटनायां लग्नाः। सुरङ्गमुखात् १४ कि मी अन्त एव दुर्घटनास्थानम्।
राज्य - कैन्द्रसेनाभिः रक्षाप्रवर्तनमनुवर्तते।
Saturday, February 22, 2025
दिल्ली विधानसभासम्मेलनम् आगामिसप्ताहे।
नवदिल्ली> दिल्ली विधानसभायाः सम्मेलनम् सोमवासरादारभ्य गुरुवासरपर्यन्तं विधत्तुं निश्चिकाय। प्रथमदिनद्वये सदस्यानां शपथवाचनं प्रचलिष्यति।
भा ज पा नेता विजेन्दर् गुप्तः सभानाथः भविष्यतीति सूच्यते। भूतपूर्वमुख्यमन्त्रिणीम् अतिषीं विपक्षनेत्रीं कर्तुम् आम् आद्मी पार्टीदलेन चर्चा प्रचाल्यते।
मार्पापावर्यस्य स्वास्थ्यावस्था भद्रतरा।
रोमः> ब्रोङ्कैटिस् इत्यनेन रोगेण आतुरालयं प्रविष्टस्य फ्रान्सिस् मार्पापावर्यः स्वास्थ्यावस्था भद्रतरा इति सूच्यते। ज्वरः नियन्त्रणाधीनः वर्तते। श्वासकोशे अणुबाधा च आश्वासप्रदा। शय्यावलम्बी अपि दैनंदिनकर्मसु निरतः इति आतुरालयाधिकृतैः निगदितम्। तथापि सः समग्रनिरीक्षणे एवानुवर्तते।









