OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, March 3, 2025

 रञ्जी ट्रोफी विदर्भया प्राप्तम्। 


नागपुरं> रञ्जी ट्रोफी क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वे केरलं पराजित्य विदर्भादलः किरीटं प्राप।   रञ्जी ट्रोफी स्पर्धायां विदर्भायाः तृतीयकिरीटं भवत्येतत्। 

  अन्तिमचरणं यावत् पराजयमविज्ञाय अग्रे गच्छतः केरलस्य इदं प्रथमतया किरीटं लप्स्येत इत्यभिलाषः अस्तंगतः। अन्तिमस्पर्धायाः पञ्चमदिने रविवासरे द्वितीयचरणे विदर्भायां ३७५/९ इति प्राप्तायां स्पर्धां समस्थितिं विधातुं दलद्वयेन निश्चितम्। प्रथमचरणे प्राप्तस्य ३७ धावनाङ्कानामधिकत्वस्य कारणेन विदर्भा विजयीभूता।