OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 4, 2025

 ओस्कारे  'अनोरा' प्रकाशते - ५ पुरस्काराः। 

   मैकी माडिसणः श्रेष्ठा अभिनेत्री; अड्रियन् ब्रोडिः श्रेष्ठः अभिनेता। 

पुरस्कारलब्धाः - वामतः , अड्रियन् ब्रोडिः [नटः], मैकी माडिसणः [नटी], सोयी सल्दाना [सहाभिनेत्री], किरण् कुल्किन् [सहाभिनेता] 

लोस् आञ्जलसः> ओस्कार् चलच्चित्रपुरस्कारस्य ९७ तमे संस्करणे षोण् बेकरेण निदेशं कृतं अमेरिकीयचलच्चित्रम् अनोरा नामकं पञ्च पुरस्कारान् प्राप्नोत्। श्रेष्ठं चित्रं, श्रेष्ठा दृश्यकथा, श्रेष्ठं निदेशनं, श्रेष्ठं चित्रसंयोजनं, श्रेष्ठा अभिनेत्री इत्येते पुरस्काराः अनोरया प्राप्ताः। 

  निदेशकत्वं विना दृश्यकथा, चित्रसंयोजनं इति पुरस्कारद्वयमपि निदेशकेन षोण् बेकरेण प्राप्तानि। अनोरा इति नायिकाकथापात्रम् अवतारितवती   मैकी माडिसणः श्रेष्ठा अभिनेत्री अभवत्। 'दि ब्रूटलिस्ट्' इत्यस्मिन् चलच्चित्रे अभिनयेन अड्रियन् ब्रोडिः श्रेष्ठः अभिनेता जातः।