OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 4, 2025

एन् एन् एस् एस् संस्थायाः अङ्गभूतेषु विद्यालयेषु २०२१ तमवर्षात् आरभ्य नियुक्तानि ३५० अधिकानि पदानि स्थिरीकर्तुम् सर्वोच्चन्यायालयेन आदेशः दत्तः।

 दिल्ली > भिन्नशक्तिसंवरणार्थं पदानि विन्यस्तानि इत्यनेन केरलेषु एन् एस् एस् संस्थायाः विधेयत्वेन विद्यमानेषु विद्यालयेषु शिक्षकेतर-शिक्षकनियुक्तये केरल-राज्यसर्वकारं प्रति सर्वोच्चन्यायालयेन आदेशः प्रदत्तः। न्यायाधीशः बी.आर्.गवायः अध्यक्षरूपेण आसन्। एन् एन् एस् एस् संस्थायाः  विद्यालयेषु भिन्नशक्तिमद्भ्यः षष्टिस्थानानि विन्यस्तानि इति निरीक्ष्य एव निर्णयः कृतः।

    एतेन गतचतुर्वर्षेषु सम्पन्नानि ३५० अधिकानि नियुक्तिपदानि स्थिरं भविष्यन्ति। अत्र एन् एस् एस् संस्थायाः पक्षतः वरिष्ठः अधिवक्ता दामा शेषाद्रिनायिडुः, अधिवक्तारौ एम्. गीरीशकुमारः, विजुलालः च उपस्थितवन्तौ। राज्यसर्वकारस्य पक्षतः वरिष्ठः अधिवक्ता पी.वी. दिनेशः, स्थायीपरिषद्भ्यः निष्ये राजन् शङ्करः च उपस्थितवन्तौ। भिन्नशक्तिसंवरणस्य अनुपालनाभावे नियुक्तिपदानाम् अङ्गीकारः न प्राप्तः  इत्यनेन शिक्षकैः यः याचिका दत्ता, सा सर्वोच्चन्यायालयस्य परिगणनायाम् अस्ति।