OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, October 16, 2015

 अद्य लोक भक्ष्यदिनम् 

F B
1945ओक्तोबर 16 दिनाङ्के लोक भक्ष्य कार्षिक संस्थापनस्य स्मरणायामेव लोके सर्वत्र दिनमाचर्यते दारिद्र्य निर्मार्जनाय अवबोधं जनयितुं सार्धैकशताधिक राष्ट्रेषु दिनमिदं समाचरते

अन्नात् भूतानि जायन्ते जातानि अन्नेन वर्धन्ते
अद्यातेत्ति च भूतानि तस्मादन्नं तदुच्यते   (तैत्तरीयोपनिषद् )

आहारात् सर्व भूतानि संभवन्ति महीपते
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः   (महाभारतम्) 
 -रसना संस्कृत मासिका 




साङ्केतिकविद्यानां साहाय्येन लष्कर् इ तोयिबा सशक्तं भवति ।

नव देहली आधुनिक साङ्केतिकविद्यानां साहाय्येन  पाक् आङ्कवाद सङ्घटना लष्कर् इ तोयिबा सशक्तं भवति इति वृत्तम् I जङ्गम दूर वाणी सन्देशानां रहस्य स्वभावं संरक्षितुं नूतन साङ्केतिकविद्याः तेषां शिबिरेषु उपयुज्यन्ते इति निर्णीतम्। ऐ .एन .ए. साङ्केतिक विभाग: अधिकम् अन्वेषणम् आरब्धवन्तः।
भारतसीमनि भीकराक्रमणं लक्षीकृत्य पाक चार सङ्घटना ऐ. एस् . ए लष्कर् इ तोयिबां पुनरुज्जीवयितुं श्रमं करोति इति पूर्वं वृत्तम् आसीत्
 
उद्वंपुरतः गृहीतस्य पाकभीकरस्य मुहम्मद नवेदस्य आपृच्छा वेलायाम् एव एतत् स्पष्टं जातम्


बीहारः - द्वितीयपादनिर्वाचनम्  अद्य।

पाट्ना - बीहारे नियमसभा निर्वाचनस्य द्वितीयपादे ३२ मण्डलेषु अद्य निर्वाचनं प्रचलति।४५६ स्थानार्थिनः जनहितं इच्छन्ति। मावोवादिभ्यः भीत्या अतीवसुरक्षाव्यवस्था  अस्ति।
  
संघर्षस्य शान्तिरूपः परिहारः आवश्यकः - भारतराष्ट्रपतिः ।

जरुसलें - इस्रायेल-पलस्तीन देशयोः दीर्घकालीयानां तर्काणां संघर्षाणां च शान्तयेे अवधानतया परिहारः आवश्यकःइति भारतराष्ट्रपतिः  प्रणब् मुखर्जी निरदिशत्।नेसट्  नामिकां इस्रयेललोकसभाम् अभिसंबोधनं कृतवानासीत् राष्ट्रपतिः।अक्रमः यस्यकस्यापि परि हा रो नास्ति।सर्वे अक्रमाः अपलपनीयाः।प्रणब्मुखर्जी उदधोषयत्।
 
विभवांशः दरिद्र्येभ्यः निश्चेतव्यः - भारतम्।

लोकविभवानां नीतियुक्तमंशं दरिद्रजनविभागेभ्य़ः दातुं निर्णय करणीयः इति भारतेन ऐक्य़राष्ट्रसभायां निर्दिष्टः।लोके सर्वत्र १०० कोट्यधिकं जनाः अतिदारिद्र्ये वर्तन्ते। ८० कोट्यधिकाः न्यूनातिन्यूनं पोषणघटकमलभ्यमानाः जीवन्ति।औषधमलभ्यमानाः १५०कोटिपरिमिताः स्युः।संवत्सरं प्रति १८०लक्षं मरणानि दारिद्र्यसंबद्धानि भवन्ति लोके।यू.एन् सभायाः दारिद्र्यनिर्मार्जनसम्मेलने भारतं प्रतिनिधीभूय अमित् नराङ् वर्यः प्रभाषणमकरोत्।

अनुकरणीयः कः ?
छात्राणां मनसि अद्यापि जीवति ए .पी.जे अब्दुल् कलामः।
 "हृदये हृदये विलसति भवतः स्नेहमयी वाणी"।
अभारतं विद्यालयेषु अब्दुल् कलां महोदयस्य जन्मदिनोत्सवः आचरितः।
बहुभिः कार्यक्रमैः अद्यतन विद्यालय कार्यक्रमाः संपुष्टाः आसन् ।
महाराष्ट्रायां विद्यालय स्यूत:अद्य  विद्यालये न आनीता:। प्रभाषण चित्ररचना पोस्तर निर्माणादय स्पर्धाः अपि आयोजिता:।


कोचि - केरलदेशे सेन्ट् मेरीस् यू पी विद्यालये (तेवरा, कोचि ) छात्रैः संस्कृतभाषया निर्मितः पोस्ट्र् कार्ड्।  

Thursday, October 15, 2015

संम्प्रति वार्ता:

जम्मूकश्मीरे प्रतिसंघर्षे आतंकिनौ मृतौ
न्यायालयेन स्पेक्ट्रम–आवंटनप्रकरणे श्यामलघोषाय विमुक्तिःप्रदत्ता
जहीरस्य अन्ताराष्ट्रियक्रिकेटस्पर्धातः मुक्त्याः घोषणा

  ए पी जे अब्दुल् कलामस्य जन्म दिनम् 


 स्वप्न दर्शनाय प्रचोदितः भारतस्य भुवत् पूर्व प्रथम पुरुषः
 डा. ए पी जे अब्दुल् कलाम् महोदयस्य जन्मदिनम्


-

भूभ्रंशेन ग्वाट्टिमालायां मृतानां सङ्ख्या 280

ग्वाट्टिमाला- अति वृष्ट्या भूभ्रंशेन  ग्वाट्टिमालायां मृतानां सङ्ख्या 280 अभवन् अस्यां  दुर्खटनायां 400 जनाः अदृष्टाः अस्य  मासस्य द्वितीये दिने सान्ता कातरिना पिनुल नाम नगरे मृदः बृहत् आकारकाणि  शिला खण्डानि च शैलात् अधः पतितानि वृक्षादयः पतिताः बहवः कुटुम्बाः मृद्पाषाणखण्डयोः अधः भूत्वा मृताः द्वादश दिनानि यावत् रक्षाप्रवर्तनानि कृत्वा अद्यैव निवृत:
Photo.janmabhumi


 एकीकृतपौरनियमसंहितामधिकृत्य सर्वोच्चनीतिपीठश्च।

नव दिल्ली - राष्ट्रे विद्यमानाः विविधाः व्यक्तिनियमाः आशयसंभ्रमं जनयन्ति इत्यतःएकीकृतपौरनियमसंहितायाः आविष्कारमधिकृत्य सर्वकारस्य मतं किमिति सर्वोच्चन्यायालयः । अस्मिन् विषये केन्द्रसर्वकारस्य मनोभावं ज्ञापयितुं सोलिसिटर् जनरल् प्रति विक्रमजितसेनः, एस् के सिंहः इतेतयोः न्यायाधिपयोः संघः निरदिशत्।
क्रैस्तवदम्पत्योः विवाहमोचनाय वर्षद्वयं प्रतिक्ष्यमाणमस्ति। किन्तु इतरधर्मेषु वर्षमेकं पर्याप्तम्। अस्मिन् वैरुध्यात्मके विषये समवायव्यवस्थां कल्पयितुं सर्वकारः त्रिभिः मासेभ्यः पूर्वं प्रतिज्ञां करोति स्म।


 तद्देशनिर्वाचनं - १.५ लक्षं पत्रिकाः समर्पिताः।

अनन्त पुरी - केरलेषु तद्देश स्वयंभरणस्थापननिर्वाचने  नामनिर्देशपत्रिकासमर्पणस्य अन्तिमे दिने-अद्य- आहत्य सार्धैकलक्षं पत्रिकाः समर्पिताः। तासां सूक्ष्मपरिशोधना श्वः भविष्यति। पत्रिकासमर्पणाय वरणाधिकारिणां पुरतः महान् सम्मर्दः आसीत्। कोण्ग्रस्(ऐ) नेतृत्वे यु डि एफ् दलं, सि पि एम् नेतृत्वे एल् डि एफ् दलम् च मुख्य प्रतियोगिनौ। भाजपा दलंच स्वशक्तिं परीक्षितुं रणाङकणे वर्तते।

 इस्र्यल् देशे भारतस्य राष्ट्रपतये प्रणब् मुखर्जी वर्याय उज्वलं स्वीकरणम् 
 इस्र्येल् - दिन त्रयस्य सन्दर्शनाय इस्रयेल् प्राप्तस्य राष्ट्रपतये प्रणब्मुखर्जी वर्याय उज्वलं स्वीकरणम् पालस्तीन् सन्दर्शनस्यानन्दरमेव अनेन इस्रयेल् प्राप्तम् इस्रयेल् राष्ट्रपतिः रूवन् रिव्लिन् , प्रधामन्त्री बोचिन् नेतन्याहू इत्यादिभिः सह अपि सः संभाषणं करिष्यति
    भारत इस्रयेल् बन्धे सुशक्ते सति प्रणब् वर्यस्य संदर्शनं अतीव प्राधान्येन एव लोकः पश्यति राष्ट्रपतेः सन्दर्शनम् ऐतिहासिकमिति इस्रयेल् राष्ट्रपतिना रूवन् रिव्लिन् महाशयेन उक्तम् 
    संपत्तिक-कार्षिक-शास्त्रादि विविधमेखलासु विद्यमानं बन्धं सुदृम् कर्तुं इदं संदर्शनम् उपकरोति इति तेन उक्तम्। जरुसलें हीब्रु विश्वविद्यालयेन प्रणाबाय डोक्टरेट् बिरुद: दास्यते

Wednesday, October 14, 2015

ब्रह्मपुत्रायां चीनायाः विद्युन्निलयः- भारतस्य आशङ्का ।
 
बीजिङ्- टिबट् मद्ध्ये ब्रह्मपुत्रानद्यां चीनया निर्मितः जलविद्युन्निलय़ः प्रवर्तनमारब्धः।भारते जलदौर्लभ्यं स्यादित्यतः भारतम् आशङ्कां प्राकटयत्। यतःभारतीयाः जललाभाय ब्रह्मपुत्रामेवाश्रयन्ति । तथा च लोके बृहत्सु विद्युन्निलयेषु अन्यतमं भवत्येषः। २.५ बिल्यण् किलोवाट्स् परिमितं विद्युच्छक्तिः तत्रोत्पाद्यते। एतदर्थं सेतुं निर्माय जलसंभरणं भारते जलक्षामाय भविष्यति इत्याशङ्का।

 

 पलस्तीन राष्ट्रे भारत मार्गः तथा भारत परिमार्ग: च

रमल्ला- इस्रयेल् पलस्तीन राष्ट्रयोः मिथः सङ्घर्षे मूर्धन्ये सति पलस्तीन प्राप्तस्य भारत राष्ट्रपतेः प्रणब मुखर्जी वर्यस्य ऐतिहासिक सन्दर्शनस्य स्मरणार्थमेव रमल्लायां प्रमुख मार्गाय शारि अ अल् हिन्द् (Indian Road) तथा परिमार्गाय मैतान् अल् हिन्द्‌ (Indian Roundabout) इति नामकरणं कृतम् ।  तत्र भारतस्य देशीय पुष्पस्य कमलस्य शिल्पोऽपि स्थापितः । नामकरण वेलायां प्रणबवर्येण सह पलस्तीन राष्ट्रपतिः महमूद अब्बासः अपि भागं स्वीकृतवान् । दिवङ्गतस्य पलस्तीन विमोचन नेतुः यासर अराफतस्य कबरस्थाने राष्ट्रपतिः पुष्प चक्रं स्थापितवान् ।
 


परिस्थिति नियमलङ्घनाय 20 कोटि रूप्यकाणां दण्डः  जीवनपर्यन्तं कारागृह वासं च।

नवदिल्ली - : परिस्थिति नियमं  प्रबलं कृत्वा सर्वकारस्य प्राथमिक निदेशपत्रिका(BILL) प्रकाशिता एतस्योपरि स्वाभिमतानि प्रकटी कर्तुं दिनद्वयस्य अवकाशः अस्ति। शिलोद्खनन नियत्रणमपि अनया पत्रिकया उद्दिश्यते पञ्च किलो मात्रा (kilometer ) परिधौ परिस्थितेः नाशं क्रियते चेत् 5 कोटि रु आरभ्य 10 कोटि पर्यन्तं दण्डः निश्चितः, 10 किलो मात्रातः उपरि चेत् 20 कोटि रूप्यकाणि एव पुनर्विचारणाय 75% शुल्क रूपेण दातव्यानि 1986 तः एतावत् परिस्थिति नियम: बलीयते ।

 भारत चीनायोः संयुक्त सैनिकअभ्यासः
बैजिङ् भारत चीनायोः दशदिनसंयुक्त सैनिकअभ्यासः चीनायां यूनान् प्रविश्यायाम् आरब्धः 
भारत चीनायोः संयुक्त सैनिकअभ्यासः
  
मोदी एकस्प्रेस्स् गच्छति  अनवरतम्



Sunday, October 11, 2015


 उत्तमौ प्रातिवेशिकौ भवावः इति पाकिस्तानः।

लाहोर् - समस्याः समवायेन परिहृत्य सुहृदौ प्रातिवेशिकौ इव भवितुमिच्छतीति पाकिस्तानस्य प्रधानमन्त्री नवास् षरीफः अवदत्।काश्मीरविषयं प्रति यू एन् संस्थायां सौहृदचर्चया परिहाराय सन्नद्धो भवति इति ,तत्र तदधिकृत्य चत्वारि समवाक्यानि समर्पितानि इति च तेनोक्तम्।

 तुर्क्यां शान्तिसञ्चनमध्ये विस्फोटनं-८६ मरणानि।
अङ्कारा - तुर्कीराजस्थाने अङ्कारे कुर्दिष् धर्मानुकूलदलेन HDP दलेन कृते शान्तिसञ्चने संजाते बोम्बस्फोटनद्वये ८६ जनाः हताः।१८६ आहताः।नगरे रेल् याननिस्थानस्य समीपे एव स्फोटने संजाते।स्फोटनात् परं सञ्चलनम् उपेक्षितम् ।स्फोटनकारणं न विज्ञातम्
 
दिल्ल्यां महती गजदन्तमृगया।
 अनन्तपुरी - पूर्वदिल्ल्यां विजयनगरे महती हस्तिदन्तमृगया संवृत्ता। ७००किलोमितस्य दन्तिदन्ताः कस्माच्चन शून्यात् गृहात् वनपालकैः ग्रहीताः।हस्तिदन्तव्यापारिणः उमेष् अगर्वालस्य ऋतोक्तिमनुसृत्य वनपालकाः त्वरितपरिशोधनाम् अकुर्वन्।अनन्तपुरीविमानपत्तने दन्तव्यापारी ईगिल् राजः गृहीतः अभवत् इति दन्तमृगयायाः कारणमभूत्
-

•बिहारे प्रथमचरणात्मकमतदानाय अद्यान्तिमः प्रचारदिवसः

•समझौतारेलयानं भारतेन प्रतिरुद्धमिति पाकदुश्प्रचारः विखण्डितः

•पुरुषहाकीनिकषे भारतेन न्यूजीलैण्डं पराजितम्


वयलार् पुरस्कारः सुभाष् चन्द्राय।

अनन्तपुरी - वयलार् रामवर्मा साहित्यपुरस्कारः सुभाष् चन्द्रस्य " मनुष्यन् ओरु आमुखं" (मानवाय किमपि आमुखम्) इति आख्यायिकायै ( Novel) लभते।पत्रप्रवर्तकः अयं साहित्यकारः मातृभूमि दिनपत्रिकायाः कोषिक्कोट् मणडले मुख्योपसम्पादकरूपेण (Chief sub editor) कार्यं करोति।अस्य प्रथमा आख्यायिका भवति पुरस्कारार्हा एषा।२०११ तमे वर्षे केरल साहित्य अकेडमी पुरस्कारः,२०१४-तमे वर्षे केन्द्र साहित्य अकेडमी पुरस्कारश्च अस्यै आख्यायिकायै लब्धा ।
कथापात्रसृष्टौ आख्यानशैल्यां च सविशेषतामावहति इयमाख्यायिकेति पुरस्कारनिर्णयसमितेः अद्ध्यक्षेन प्रोफ. एम् के सानुना वार्ताहरसम्मेलने उक्तम्।

 बीहारः-निर्वाचनस्य प्रथमश्रेणी श्वः। 
 

पाट्ना - बीहारराज्ये नियमसभानिर्वाचनस्य प्रथमश्रेणीनिर्वाचनं श्वः भविष्यति।२४३ अङ्गेषु ४९ सामाजिकानां निर्वाचनं श्वः। आहत्य ५ श्रेण्यः सन्ति। अन्तिमश्रेणीनिर्वाचनं नवं-८ दिने परिसमाप्यते।
-
भा ज पा दलेस्य  नेतृत्वे एन् डि ए सख्यं , जनतादल् युणैटड् दलस्य नेतृत्वे विशालसख्यश्च रणाङ्गणे वर्तते ।

 गसट् विज्ञापनानि इतः परम् विद्युद्जालद्वारा
विज्ञापनाय इतः परम् अधिक दिनानां प्रतीक्षा न करणीया । केन्द्र सर्वकारस्य विज्ञापनानि इतः परम् इ-गसट् द्वारा लभ्यन्ते । http://www.egazette.nic.in इति सङ्केते एव इतः परं विज्ञापनानि लभ्यन्ते । सर्वेऽपि पौराः ततः गसट् विज्ञापनानि नि:श्शुल्कं  स्वीकर्तुम् अर्हन्ति । २००० तमवर्षस्य सूचना साङ्केतिक नियममनुसृत्य इ- गसट् तः स्वीकृतानां विज्ञापनानां नियमसाधुता अस्तीति सर्वकारेण उद्घोषितम् ।
इ-गसट् आगमनेन प्रतिवर्षं 40 कोटि व्ययकारणीभूतस्य १० टन् कागदानां लाभः भविष्यतीत्येव सर्वकारस्य सङ्कल्पः।  मुख्यानां विज्ञापनानां दीर्घकालिकी प्रतीक्षा अपि अनेन अन्त्यमेष्यति । प्रधानमन्त्रिणः स्वप्न पद्धतेः "डिजिट्टल्‌ इन्ट्या " इत्यस्य भागत्वेन एव इ-गसट् रूपीकृतम् ।
 सुजा हरिदास्


"लसति संस्कृतं चिरं"
संस्कृत प्रचरणं कुवैत देशे  

कुवैत्- अस्मिन् देशे संस्कृतभाषायाः भारतसंस्कृत्याः प्रचाराय प्रतिबद्धा अस्ति। समये समये संस्कृतसंभाषण-शिबिराणां योजना एतया क्रियते। अस्यां शृङ्खलायां सितम्बर मासस्य ११ तः २० पर्यन्तं कुवैत् देशस्य रिग्गे साल्मिया स्थानयोः दशदिनात्मकं संभाषणसंस्कृतशिबिरस्य आयोजनम् अनया कृतम्। अस्मिन् शिबिरे संस्कृतभारती-जी.सी.सी. संयोजकः श्री.बालसुब्रमण्यन् आगत्य सम्पूर्णशिबिरस्य सञ्चालनं सम्यक् कृतवान्। स्थानाद्वये बहवः जनाः शिबिरे भागधेयं कृत्वा समीचीनरीत्या संस्कृतम् अधीतवन्तः।

पुनः अस्मिन् मासे एव २२ तः  
२७ पर्यन्तं शिक्षकप्रशिक्षणशिबिरस्य सञ्चालनम् अनेन महोदयेन उत्तमरूपेण कृतम्। अस्मिन् शिबिरे २० छात्राः सम्यक् अभ्यासं कृत्वा पाठनकौशलं प्राप्तवन्तः।
अनन्तरं अक्तूबर मासस्य प्रथमदिवसे विश्वसंस्कृतदिनस्य समायोजनं अनया कृतम्। एतत् उत्सवः भारतीय विद्याभवनस्य सभागारे समायोजितम्। कार्यक्रमे संस्कृतभारती-जी.सी.सी. संयोजकः  
-
श्री बालसुब्रमण्यन् महोदयः,सेवदर्शनम् कुवैत् संस्थायाः मुख्य सचिव: श्री संजुराज महोदयः,भारतीय विद्याभवनम् कुवैत् प्रान्तस्य प्राचार्यः श्री.टी.प्रेमकुमार महोदयः, संस्कृतभारती-कुवैत् संयोजकः श्री.गोपकुमार महोदयः आगत्य मञ्चम् अलंकृतवन्तः। प्रथमं अब्बासिया, साल्मिया, रिग्गे आदीभ्यः स्थानेभ्यः आगतवन्तः छात्रगणाः संस्कृतभाषायां रोचकं सांस्कृतिककार्यक्रमं दर्शकेभ्यः प्रदर्शितवन्तः। श्री.गोपकुमार महोदयः स्वागतभाषणं कृतवान्। तदनन्तरं श्री.टी.प्रेमकुमार महोदयः दीपप्रज्वालनेन कार्यक्रमस्य शुभारम्भः कृतः। अस्मिन् अवसरे श्री.बालसुब्रमण्यन् महोदयः संस्कृतसंदेशः दत्तवान्, श्री.प्रेमकुमार महोदयः, श्री. संजुराज महोदयः संस्कृतविषये भाषणं कृतवन्तः। श्री जी. के. रामकृष्ण महोदयः, कुवैत् राज्यस्य प्रमुखा स्त्रीरोगशास्त्रवैद्या श्रीमति. सरिता. पी, श्री. शशिधरन् अम्मा कुवैत् , कर्य्क्रेमे आसन् | तदनन्तरं महोदयैः छात्रेभ्यः प्रमाणपत्राणि वितरितानि।

Thursday, October 8, 2015

अशेकवाजपेयी च पुरस्कारं प्रत्यर्पयति।


नव दिल्ली - साहित्यकारीं नयनताराम् अनुगम्य भूतपूर्व ललितकला अकादमी अध्यक्षः तथा कविः अशोक वाजपेयी च स्वस्य अकादमी पुरस्कारं प्रत्यर्पितवान्। वर्गीयछिद्रशक्तिं प्रति प्रधानमन्त्रिणः मौनं निस्संगतां च विरुध्य एव तस्य ईदृशः प्रतिषेधः।

जम्मूकश्मीरविधानसभायां गौमांसभोजनविषये कोलाहलं।
भारतअफ्रीकायाः तृतीय–टी२०–क्रिकेट्द्वन्द्वः अद्य कोलकातायां।
करचौर्यनिवारणार्थं मानकनिर्धारणं भवेत्–जेटली।

•देशे पुनस्त्रीणि आयुर्विज्ञान-संस्थानानि
•शारदा-लघुनिवेश-प्रवञ्चनासु मनोरमा सिंहः धृता
•गुलाम-अलिनः संगीत-गोष्ठी निरस्ता
•अद्यान्तिमः २०-२०-क्रिकेट-द्वन्द्वः

Tuesday, September 29, 2015


मंगले जीवसान्निध्यमस्ति।

न्य़ूयोर्क्-मंगलग्रहे जीवस्य सान्निध्यमस्तीति नासया (NASA)निर्णीतः।तत्र लवण सहितस्य जलप्रवाहस्य साध्यता अनया संस्थया निश्चिता।

 

उत्तराखण्डे भूमि कम्पनम्

 पञ्चपंचाशताधिक द्विवादने अपराह्ने अद्य उत्तराखंडेपिथौरागढ़, बागेश्वर,अल्मोड़ा जनपदे भूमिकम्पनम् अभवत्।रिक्टर मापके अस्याः प्राबल्यम् 4.8 आसीत्। भूमिप्रकम्पेन भवनमेकमपि प्रखण्डितम् डीडीहाट नामके स्थाने।


 यान दुर्घटना वर्धते भारते

चित्रं- मातृभूमि पत्रिका

नागार कोविल्- तमिल् नाटु राज्ये कार् यान दुर्घटनायां पञ्च जनाः मृताः पञ्चाः वृणिता: च। नागर् कोविल्  तिरुनल्वेली एक्स्प्रस् हैवे मध्येवल्लियूर् समीपे इयं दुर्घटना।13 जनाः यात्रिकाः सन् आसन् ।अतिवेगेन चालितं यानम्, यात्रिकानां संख्या अधिकाः च इति दुर्घतनायाः कारणत्वेन आरक्षकाः वदन्ति। 

 


शान्तिस्वरूप भट्नागरपुर
स्कारः डो.सन्दीप् कुन्नत्ताय। 

कोषिक्कोट्- केन्द्रसर्वकारस्य कौण्सिल् आफ् सयन्टिफिकल्&इन्डस्ट्रियल् गवेषणविभागः युव शास्त्रज्ञेभ्यः समर्प्यमाणः शान्तिस्वरूपभटनगर् पुरस्कारः गणितशास्त्रज्ञाय डो.सन्दीप् कुन्नत्त् इत्यस्मै ददाति।शास्त्रमण्डले भारतस्य समुन्नतपुरस्कारेषु अन्यतमो भवत्येषः।कोषिक्कोटे कटलुण्टी स्वदेशीयः डो.सन्दीपः बंगलुरु टि..एफ्.आर् मध्ये(Tata Institute of Fundamental Research) गणितशास्त्रज्ञः अस्ति।

-

भारते अधुना पथिषु यानदुर्घटना: भीतिजनक: वर्धन्ते। मृतेषु युवजनानां संख्या एव अधिका:। सुरक्षा नियमेषु अवधानताया: अभावः श्रद्धा राहित्यं च दुर्घटनायाः मुख्यकारणम् ।

 

 कोल्कत्ता ट्राफ़िक् विभाग द्वारा ग्रहीत:अयं 'वीडियो' अस्मान् पाठयति दुर्घटना कथं संभवति इति ।

 


चर्चा पराजिता

कोची -वातिकाकर्मकराणां न्यूनतमवेतनमधिकृत्य कृता मन्त्रितलचर्चा पराजिता। कर्मकरप्रक्षोभः अनुवर्तिष्यते।
 

* प्रधानमंत्री आयरलैण्डामेरिकयोः यात्रां सम्पाद्य प्रतिदनिवृतः

* INS कोचीयुद्पोतः अद्य राष्ट्राय समर्पयिष्यते

* उत्तरप्रदेशशासनेन खाद्यसुरक्षाधिनियमः प्रवर्तयिष्यते।



संस्कृत दिनाघोषः संपूर्णः

संस्कृतं नित्यजीवनस्य भागः भवितव्यः केरल सचिवः
कोट्टयम् - संस्कृत भाषा नित्य जीवनस्य भागः भवेत् इति केरल राज्यस्य वनं - गतागत विभागस्य मन्त्री तिरुवञ्चूर राधाकृष्णः अवदत्। केरल राज्यस्य ७ तम: संस्कृतदिनाघोषस्य उद्घाटनं कुर्वन्नासीत् सः। नित्यजीवने संस्कृत भाषाया: आगमनेन जनानां उन्नति: शीघ्रमेव भविष्यति। इदानीं केरले एव प्रथम कक्ष्यायाः आरभ्य द्वादश पर्यन्तं ऐच्छिक रूपेण भाषा पठनाय अवसर: इतर भाषाणां माता संस्कृतम् इत्यस्मात्‌ इयं भाषा भारतस्य अभिमानमेव। लोके विद्यमानानां सर्वेषां ज्ञानानां प्रभवकेन्द्रम्  संस्कृत भाषा एव। अतः संस्कृत भाषायाः महत्वं प्रत्यभिज्ञातव्यम् । भारतस्य अभ्युन्नत्‍यर्थं संस्कृतभाषापठनं सजीवं कर्तुं प्रयत्न: करणीय: इत्यपि सचिव: उक्तवान्

भारते संस्कृत दिनाघोषः

 








उत्तराखण्डे भविष्यति संस्कृत भाषाया: प्रसारणकेन्द्रस्य स्थापनम्
संस्कृत भाषायाः प्रचारार्थं समाजे तस्योपयोगिताया: प्रतिष्टापनार्थं च उत्तराखंडे विश्वस्य प्रथमः 'संस्कृत चैनलस्य' स्थापनं भविष्यतीति उक्तं राज्यस्य मुख्मंत्रिणा हरीश रावतेनउत्तराखंडे संस्कृत-भाषा द्वितीयराजभाषारूपेण अलंकृता अस्ति| संस्कृतप्रसारणकेन्द्रस्य स्थापनार्थ कार्यक्रम-समिते: संगठनम् उतराखंड-संस्कृत अकाद्म्या: उपाध्यक्ष :डॉ.श्री कृष्ण सेमवाल महोदयस्य अध्यक्षत्वे अभवत्|संस्कृत भाषायाःअपरसचिवेन विनोद कुमार रतूड़ी महोदयेन सचिवालये उक्तं यत संस्कृत चैनल मध्यमेन संस्कृत वार्ताया: मनोल्लासजनककार्यक्रमाणां च प्रसारणं भविष्यतीति|
- घनश्याम भट्टः उत्तराखण्ड ।

ब्रिट्टन् देशे विद्यालयेषु संस्कृत भाषायाः प्रभावः - पश्यतु चलनचित्रखण्डः


maliमाली द्वीप -' बोट' याने उग्रस्फ़ोटनम्

मालिद्वीपस्य राष्ट्रपति: अब्दुल्ल यामिन्  पत्नी च रक्षां प्राप्तवन्तौ

 


nasa2मङ्गल ग्रहे जलस्य सानिध्यम् - नासायाः चित्रं प्रमाणम्

फ़्लोरिड -मङ्गल ग्रहे जलस्य सानिध्यम् अस्ति इति नास वदति

 

राष्ट्रिय-संस्कृत-संस्थाने पञ्चमं दीक्षान्त-समारोह:

राष्ट्रिय-संस्कृत-संस्थानं मासेsस्मिन् त्रिन्शत्तमे दिनाङ्के बुधवासरे दिल्ल्यां स्वीयं पञ्चमं दीक्षान्त-समारोहम् आयोजयिष्यति | एतदालक्ष्य अद्य राष्ट्रिय-राजधान्यां नवदिल्ल्यां वार्ताहर-सम्मेलनमेकं सम्पन्नम्, यस्मिन् संस्थान-कुलपतिः डो.परमेश्वर-नारायण-शास्त्री वार्ताहरान् असूचयत् यत् दीक्षान्त-समारोहेsस्मिन् भारत-सर्वकारस्य मानवसंसाधनविकास-मन्त्रि-महाभागा संस्थानस्य कुलाधिपतिश्च श्रीमती स्मृति-ईरानी कार्यक्रमस्य आध्यक्ष्यं वक्ष्यति, अपि च हिमाचल-प्रदेशविश्वविद्यालयस्य कुलपतिः श्री-अरुण-दिवाकरनाथ-वाजपेयी  मुख्यातिथिपदम् अलङ्करिष्यति,स्नातकान् च सम्बोधयिष्यति
                      संस्थानस्य चतुर्थो दीक्षान्त-समारोहः वर्ष-चतुष्टय-पूर्वम् आयोजितःआसीत्- इति कृत्वा ऐषमः समारोहे प्रायेण दश-सहस्रं स्नातकाः संस्थानस्य राष्ट्र-व्यापिभ्यः एकादश-परिसरेभ्यः समागताः सन्तः अत्र विविधोपाधि-प्रदानेन अलङ्करिष्यन्ते | श्रीशास्त्री वार्ताहरान् एतदपि न्यगादीत् यत् अवसरेस्मिन् प्रो. एस्.टी.नागराजः प्रो.हृदयरञ्जनशर्मा च स्वीय-संस्कृतसेवार्थं महामहोपाध्याय-अलङ्करणेन सभाजयिष्येते |

 


മാലി: ബോട്ടില്‍ വന്‍ സ്‌ഫോടനം, മാലദ്വീപ് പ്രസിഡന്റ് അബ്ദുള്ള യാമീനും ഭാര്യയും അത്ഭുതകരമായി രക്ഷപ്പെട്ടു. സ്പീഡ് ബോട്ട് മാലദ്വീപിന്റെ തലസ്ഥാനമായ മാലിയിലേക്ക് അടുത്തുകൊണ്ടിരിക്കുമ്പോഴാണ് സ്‌ഫോടനം ഉണ്ടായതും ബോട്ട് തകര്‍ന്നതും. ഭാര്യക്കും രണ്ടു സഹായികള്‍ക്കും പരിക്കേറ്റു. സ്‌ഫോടനത്തിന്റെ കാരണം അറിവായിട്ടില്ല. സംഭവത്തില്‍ ദുരൂഹതയുണ്ട്. മക്കയില്‍ ഹജ്ജ് തീര്‍ഥാടനം കഴിഞ്ഞ് മടങ്ങിവരികയായിരുന്നു പ്രസിഡന്റും ഭാര്യയും. സൗദിയില്‍നിന്ന് മാലി അന്താരാഷ്ട്ര വിമാനത്താവളത്തില്‍ ഇറങ്ങിയ പ്രസിഡന്റ് ബോട്ടില്‍ തന്റെ വസതിയിലേക്ക് പോകുമ്പോഴായിരുന്നു അപകടം. എന്‍ജിനില്‍ നിന്നാണോ സ്‌ഫോടക വസ്തുകള്‍ പൊട്ടിത്തെറിച്ചാണോ അപകടം എന്നു വ്യക്തമായിട്ടില്ല, അധികൃതര്‍ പറഞ്ഞു. 2013ല്‍ പ്രസിഡന്റായി തെരഞ്ഞെടുക്കപ്പെട്ട 59 കാരനായ യാമീന്‍ വിവാദനായകനാണ്. യാമീന്‍ പ്രസിഡന്റായതോടെ തെരഞ്ഞെടുപ്പില്‍ താന്‍ തോല്‍പ്പിച്ച മൊഹമ്മദ് നഷീദിനെ ഭീകരപ്രവര്‍ത്തനം ആരോപിച്ച് ജയിലില്‍ അടച്ചത് വിവാദമായിരുന്നു.
ജന്മഭൂമി: http://www.janmabhumidaily.com/news327201
മാലി: ബോട്ടില്‍ വന്‍ സ്‌ഫോടനം, മാലദ്വീപ് പ്രസിഡന്റ് അബ്ദുള്ള യാമീനും ഭാര്യയും അത്ഭുതകരമായി രക്ഷപ്പെട്ടു. സ്പീഡ് ബോട്ട് മാലദ്വീപിന്റെ തലസ്ഥാനമായ മാലിയിലേക്ക് അടുത്തുകൊണ്ടിരിക്കുമ്പോഴാണ് സ്‌ഫോടനം ഉണ്ടായതും ബോട്ട് തകര്‍ന്നതും. ഭാര്യക്കും രണ്ടു സഹായികള്‍ക്കും പരിക്കേറ്റു. സ്‌ഫോടനത്തിന്റെ കാരണം അറിവായിട്ടില്ല. സംഭവത്തില്‍ ദുരൂഹതയുണ്ട്. മക്കയില്‍ ഹജ്ജ് തീര്‍ഥാടനം കഴിഞ്ഞ് മടങ്ങിവരികയായിരുന്നു പ്രസിഡന്റും ഭാര്യയും. സൗദിയില്‍നിന്ന് മാലി അന്താരാഷ്ട്ര വിമാനത്താവളത്തില്‍ ഇറങ്ങിയ പ്രസിഡന്റ് ബോട്ടില്‍ തന്റെ വസതിയിലേക്ക് പോകുമ്പോഴായിരുന്നു അപകടം. എന്‍ജിനില്‍ നിന്നാണോ സ്‌ഫോടക വസ്തുകള്‍ പൊട്ടിത്തെറിച്ചാണോ അപകടം എന്നു വ്യക്തമായിട്ടില്ല, അധികൃതര്‍ പറഞ്ഞു. 2013ല്‍ പ്രസിഡന്റായി തെരഞ്ഞെടുക്കപ്പെട്ട 59 കാരനായ യാമീന്‍ വിവാദനായകനാണ്. യാമീന്‍ പ്രസിഡന്റായതോടെ തെരഞ്ഞെടുപ്പില്‍ താന്‍ തോല്‍പ്പിച്ച മൊഹമ്മദ് നഷീദിനെ ഭീകരപ്രവര്‍ത്തനം ആരോപിച്ച് ജയിലില്‍ അടച്ചത് വിവാദമായിരുന്നു.
ജന്മഭൂമി: http://www.janmabhumidaily.com/news327201