OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 15, 2015

  ए पी जे अब्दुल् कलामस्य जन्म दिनम् 


 स्वप्न दर्शनाय प्रचोदितः भारतस्य भुवत् पूर्व प्रथम पुरुषः
 डा. ए पी जे अब्दुल् कलाम् महोदयस्य जन्मदिनम्


-

भूभ्रंशेन ग्वाट्टिमालायां मृतानां सङ्ख्या 280

ग्वाट्टिमाला- अति वृष्ट्या भूभ्रंशेन  ग्वाट्टिमालायां मृतानां सङ्ख्या 280 अभवन् अस्यां  दुर्खटनायां 400 जनाः अदृष्टाः अस्य  मासस्य द्वितीये दिने सान्ता कातरिना पिनुल नाम नगरे मृदः बृहत् आकारकाणि  शिला खण्डानि च शैलात् अधः पतितानि वृक्षादयः पतिताः बहवः कुटुम्बाः मृद्पाषाणखण्डयोः अधः भूत्वा मृताः द्वादश दिनानि यावत् रक्षाप्रवर्तनानि कृत्वा अद्यैव निवृत:
Photo.janmabhumi


 एकीकृतपौरनियमसंहितामधिकृत्य सर्वोच्चनीतिपीठश्च।

नव दिल्ली - राष्ट्रे विद्यमानाः विविधाः व्यक्तिनियमाः आशयसंभ्रमं जनयन्ति इत्यतःएकीकृतपौरनियमसंहितायाः आविष्कारमधिकृत्य सर्वकारस्य मतं किमिति सर्वोच्चन्यायालयः । अस्मिन् विषये केन्द्रसर्वकारस्य मनोभावं ज्ञापयितुं सोलिसिटर् जनरल् प्रति विक्रमजितसेनः, एस् के सिंहः इतेतयोः न्यायाधिपयोः संघः निरदिशत्।
क्रैस्तवदम्पत्योः विवाहमोचनाय वर्षद्वयं प्रतिक्ष्यमाणमस्ति। किन्तु इतरधर्मेषु वर्षमेकं पर्याप्तम्। अस्मिन् वैरुध्यात्मके विषये समवायव्यवस्थां कल्पयितुं सर्वकारः त्रिभिः मासेभ्यः पूर्वं प्रतिज्ञां करोति स्म।


 तद्देशनिर्वाचनं - १.५ लक्षं पत्रिकाः समर्पिताः।

अनन्त पुरी - केरलेषु तद्देश स्वयंभरणस्थापननिर्वाचने  नामनिर्देशपत्रिकासमर्पणस्य अन्तिमे दिने-अद्य- आहत्य सार्धैकलक्षं पत्रिकाः समर्पिताः। तासां सूक्ष्मपरिशोधना श्वः भविष्यति। पत्रिकासमर्पणाय वरणाधिकारिणां पुरतः महान् सम्मर्दः आसीत्। कोण्ग्रस्(ऐ) नेतृत्वे यु डि एफ् दलं, सि पि एम् नेतृत्वे एल् डि एफ् दलम् च मुख्य प्रतियोगिनौ। भाजपा दलंच स्वशक्तिं परीक्षितुं रणाङकणे वर्तते।

 इस्र्यल् देशे भारतस्य राष्ट्रपतये प्रणब् मुखर्जी वर्याय उज्वलं स्वीकरणम् 
 इस्र्येल् - दिन त्रयस्य सन्दर्शनाय इस्रयेल् प्राप्तस्य राष्ट्रपतये प्रणब्मुखर्जी वर्याय उज्वलं स्वीकरणम् पालस्तीन् सन्दर्शनस्यानन्दरमेव अनेन इस्रयेल् प्राप्तम् इस्रयेल् राष्ट्रपतिः रूवन् रिव्लिन् , प्रधामन्त्री बोचिन् नेतन्याहू इत्यादिभिः सह अपि सः संभाषणं करिष्यति
    भारत इस्रयेल् बन्धे सुशक्ते सति प्रणब् वर्यस्य संदर्शनं अतीव प्राधान्येन एव लोकः पश्यति राष्ट्रपतेः सन्दर्शनम् ऐतिहासिकमिति इस्रयेल् राष्ट्रपतिना रूवन् रिव्लिन् महाशयेन उक्तम् 
    संपत्तिक-कार्षिक-शास्त्रादि विविधमेखलासु विद्यमानं बन्धं सुदृम् कर्तुं इदं संदर्शनम् उपकरोति इति तेन उक्तम्। जरुसलें हीब्रु विश्वविद्यालयेन प्रणाबाय डोक्टरेट् बिरुद: दास्यते