OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, January 18, 2016

 जङ्गमदूरवाण्या: सहायेन लेखनं कृत्‍वा निर्मितानि पुस्तकानि अद्य मुक्तानि भविष्यन्ति।
कोट्टयम् > भर्तृहरेः नीतिशतम् वैराग्यशतकम् श्रृङ्गारशतकम्‌ च  कैरल्याम् अनुवादं कृत्वा प्रकाशयन्ते । त्रयाणां ग्रन्थानाम् टङ्गणक्रिया (DTP) तथा पुटविन्यास: च (layout)  जङ्गमदूरवाणीमुपयुज्य आसीत्। अनेन मार्गेण प्रकाश्यमानः प्रथमः अनुवादग्रन्थः भवति इयं  सुभाषितग्रन्थावली।  ग्रन्थस्य लेखनादिकार्याणि  सम्प्रति वार्तया कृता। पुनर्वाचनाय  कागदलेशोऽपि नोपयुक्तः।  ग्रन्थकारः  मान्यवरः साधु. डा-डा. जेक्कब् कट्टय्कल् महोदयः अमेरिका राष्ट्रे उषित्वा सम्प्रति वार्तायाः  ओण्  लैन् सौकर्यमुपयुक्तवान्। अस्य महात्मनः 101, 102, 103-तमाः ग्रन्थाः भवन्ति। ग्रन्थानां मुद्रणम् कोट्टयं गुड् षेपेर्ट् मुद्रणालयेन कृत:।  अद्य मध्याह्ने द्विवादने  केरलेषु प्रसिद्धां भरणङ्ङानं  क्रैस्तवदेवालयस्य परिकर-प्रकोष्ठे (parish hall ) अभिवन्द्य बिषप् डा. जोसफ् कल्लरङ्ङाट् साधुवर्येण  प्रकाशयिष्यन्ते । 





सुधीन्द्रतीर्थस्वामिनः गंगातटे समाधिं प्रापुः। 

हरिद्वारः - गैडसारस्वतब्राह्मणसमुदायस्य आत्मीयाचार्यः तथा काशिमठाधिपतिः स्वामी सुधीन्द्रतीर्थः गंगाायां व्यासश्रमे समाधिं प्राप। मुम्बैयां आतुरालये चिकित्सितः सःस्वस्य देहवियोगः हरिद्वारे आश्रमे भवेदिति इच्छानुसारं शनिवासरे हरिद्वारम् आनीतवान् आसीत्।
रविवासरे प्रभाते १.३० वादने देहवियोग अभवत्।
  व्यासश्रमे व्यासमन्दिरस्य दक्षिणपार्श्वे स्वामिनः समाधिस्थानं सज्जीकृतम्। स्वामिशिष्यस्य उत्तराधिकारिणः संयमीन्द्रतीर्थस्य कार्मिकत्त्वे समाधिसमारोहः समारब्धः। काशिमठस्य गुरुपरम्परायाः समाधिविधिमनुसृत्य आसन् कार्यक्रमाः। सहस्रशः भक्ताः मन्त्रजपसहितं सन्निहिताः अभवन्।

Sunday, January 17, 2016

हर्षस्य विषय: - 😀😀😀
अद्य संस्कृतस्य तृतीयचलचित्रस्य "प्रियमानसस्य" प्रसारणं लोकसभा चैनल स्थाने 2:00 pm भविष्यति।
सूचनां सर्वत्र प्रेषयन्तु , (forward) कुर्वन्तु इति भवतां संस्कृतप्रचारे योगदानम् ।

केरले नैतिक अकादमी उद्घाटिता।

कोच्ची - केरलराज्ये इदंप्रथमतया जुडीष्यल् अक्कादमी संस्थापिता। तस्याः उद्घाटनं भारतस्य सर्वोच्चन्यायाधिपः टि एस् ठाक्कूर् वर्यः निरवहत्।
राज्ये नीतिनिर्वहणस्य कार्यक्षमतां गुणवैशिष्ट्यं च दृढीकर्तुमेव नैतिक अकादमी स्थापिता। कोच्ची अन्ताराष्ट्र विमाननिलयस्य समीपे अत्ताणीप्रदेशे स्थापिताया‌ अकादम्याः उद्घाटनसमारोहे मुख्यमन्त्री उम्मन् चाण्टिवर्यः केन्द्रमन्त्री डि वि सदानन्दगौडावर्यः केरलस्य उच्चन्यायालयस्य मुख्यन्यायाधिपः अशोकभूषणवर्यः इत्यादयः सन्निहिताः।

Saturday, January 16, 2016

भीकराः भारतं प्रविष्टाः - जाग्रता निर्दिष्टा।

नवदिल्ली >६-१० संख्याकाः मुहम्मद जयषे भीकराः पाकिस्तानसीमामुल्लङ्घ्य गूढमार्गेण भारतं प्रविष्टा इति भारतजाग्रताविभागेन (इन्टलिजन्स् ब्यूरो) विज्ञापितम्। केन्द्र गृहमन्त्रिणा संचालिते उन्नततलसम्मेलने एव अयं विषयः विज्ञापितः। अतः राष्ट्रस्य प्रधानस्थानेषु स्थापनेषु च अतिसुरक्षां पालयितुम् आदिष्टम्।
यान दुर्घटना परिहाराय नूतना योजना ।

नवदेहली >  पञ्चवर्षाभ्यन्तरे मार्गापघातान् पञ्चाशत् प्रतिशतम् न्यूनीकर्तुम् पद्धत्या केन्द्रसर्वकारः। वर्षे सामान्यतया पञ्चलक्षम् वाहनापघाताः  राष्ट्रे जायन्ते। एषु सार्धैकलक्षम् अपघाताः व्रणाय जीवहानये च कारणीभवन्ति ।
केन्द्रगतागतमन्त्री नितिन् गडकरी वर्यः अवदत् ।
मार्गसुरक्षावाराघोषस्य अङ्गतया देहल्यां जातायां सङ्गोष्ठ्यां भाषमाणः आसीत् मन्त्री । अपघातान् न्यूनीकर्तुम् अधिकारिण: सेवासंस्थाः च सर्वकारेण सह मेलनीयम् इति तेन उक्तम् । तेषां संख्यान्यूनीकरणं कष्टसाध्यम् इत्यपि मन्त्रिणोक्तम् ।

उत्तर जाप्पान् राष्ट्रे भूकम्पः।

© earthquake.usgs.govटोक्यो > जाप्पानस्य उत्तरभागे होकैड नाम तीरदेशे आसीत् भूकम्पः।
गुरुवासरे १२.३० वादने जायमानस्य कम्पनस्य शाक्ति: ६.७ मितः। ४० निमेषः पर्यतं कम्पितः चेदपि अपायः नास्ति। अणुशक्तिनिलय : सुरक्षितः च।



सिक्किमः प्रथमजैवराष्ट्रं भविष्यति।

कोल्कोत्ता > भारतस्य प्रथमं सम्पूर्णं च जैवराज्यं भवितुं सिक्किमः सज्जते। ७५,००० हेक्टर् मितानि क्षेत्राणि सुस्थिरकार्षिकपद्धत्यनुयुज्यमानरीत्या परिष्कृत्य एव अयं विजयः प्राप्तः।गाङ्टोक् नगरे जन.१८ दिनाङ्के आयोज्यमाने कार्षिकसम्मेलने प्रधानमन्त्रिणा नरेन्द्रमोदिना अयं लाभः विज्ञापयिष्यते।

Friday, January 15, 2016

विद्यालयेषु रन्ध्रिकासम्प्रदायः (पञ्चिङ्) सम्पद्यते।
तोटुपुष़ा >  केरलराज्ये सर्वकारीय - आर्थिकोत्तेजितविद्यालयेषु रन्ध्रिकासम्प्रदायम् आविष्कर्तुं चिन्ता प्रवर्तते। अद्ध्यापकाः छात्राश्च अङ्गुलीमुद्रामुपयुज्य (अङ्गुलीवलय:) उपस्थितिं विलिख्यमाना रीतिः भवत्येषा। प्रथमतया इटुक्की जिल्लायां दश विद्यालयेषु परीक्षणरूपेण आविष्कर्तुमुद्दिश्यते।मासद्वयाभ्यन्तरे प्रवर्तनमारभ्यते। आगामिनि अध्ययनसंवत्सरे पूर्णतया प्रवर्तिष्यते।
रन्ध्रिकासमये एव अनन्तपुरिस्थिते सर्वशिक्षा अभियान् कार्यालये ज्ञातुं शक्यते।

Thursday, January 14, 2016

अपत्यपालन विरामस्य निषेधः न स्यात् ।

नवदेहली  - केन्द्रसर्वकारस्य महिलाकर्मकर्यः न्यूनात् न्यूनं  पञ्च दिवसेभ्यः अपत्यपालन विरामाय निवेदनं दत्तं चेत् तस्य निषेधः न स्यात् इति केन्द्र पष्‌सणल् (नैज मन्त्रालयः ) मन्त्रालयेन उद्घुष्टम् ।
कर्म शिष्टमस्ति इति हेतोः निषेधः न स्यात् । किमपि विशिष्टं कार्यमस्ति चेदेव विरामनिषेधः स्यात् ......।

भारतं धार्मिकसौहार्दस्य केदारः - उपराष्ट्रपतिः।

मलप्पुरम् (केरलम्)>वसुधायाः सकलधर्माणां कुटुम्बकं भवति भारतमिति उपराष्ट्रपतिना हमीद् अन्सारि महोदयेन उद्घुष्टम्। पाणक्काट् स्ट्रेयिट् पात् अन्तर्देशीयविद्यालयस्य आभिमुख्ये आयोजितं मतमैत्रीसम्मेलनम् उद्घाटयन् भाषमाणः आसीदुपराष्ट्रपतिः।अस्माकं राष्ट्रं न केवलं विविधान् धर्मान् स्वीकरोति किन्तु ते धर्माः परस्परपूरकत्वेन प्रवर्तन्ते च। यदा सेन्ट् तोमसः मालिक् दिनारः च केरलं प्राप्तवन्तौ तदा सुमनसा स्वीकृत्य ताभ्याम् आराधनालयान् निर्मीय दत्तवन्तः।कोच्चीमध्ये मलबार् प्रान्ते च विद्यमानाःजूताः भारतस्य पौराणिकाः सन्ति।ते परस्परं व्यवहारं कृत्वा सांस्कृतिकवैविध्यैः सम्पुष्टाः अभवन्।उपराष्ट्रपतिना उक्तम्।

मसूदः गृहीतः।

इस्लामबाद् > पठान्कोट्ट् भीकराक्रमणस्य सूत्रधारः इति विचार्यमाणः जेय्षे मुहम्मद् संस्थायाः नेता मौलाना मसुद् असर् नामकः पाकिस्तानरक्षिपुरुषैः गृहीत इति सूचना।अस्मिन् विषये आधिकारिकस्थिरीकरणं न कृतम्। किन्तु जय्षे मुहम्मदस्य कार्यालयाः बन्धिताः बहवः प्रवर्तकाः गृहीताश्चेति पाक्प्रधानमन्त्रिणः नवास् षरीफस्य कार्यालयेन स्पष्टीकृतम्।

जे एफ् आर् जेक्कब् निर्यातः।

नवदिल्ली >  बङ्लादेश् राष्ट्रस्य जननकारणभूतस्य भारत-पाक्युद्धस्य भारतसेनानायकः लफ्टनन्ट् जनरल् जे एफ् आर् जेक्कबवर्यः -९२ - दिवंगतः।सैन्यात् विरमितः सः पञ्चाब् गोवा राज्ययोः राज्यपालकश्चासीत्।
बंगलादेशविमोचनयुद्धकाले भारतसैन्यस्य पूर्वकमाण्डन्ट्  विभागस्य नेता आसीत् जेक्कब्वर्यः। धाक्का प्रविश्यायां पाक्सैन्यस्य पराजय अस्य बुद्धिपूर्वकक्रियाविधेः फलमासीत्।

Wednesday, January 13, 2016

तिरुच्चेन्तूरे तिमिंगलाः मृताः।

तूत्तुक्कुटी > तमिळनाटुराज्ये तिरुच्चेन्तूर् समुद्रतीरे ४५ बलीन् वंशीयाः तिमिंगलाः मृत्युमुपगताः।२६० परिमिताः समुद्रान्तर्भागं गन्तुमशक्ताः तीरे एव वर्तमानाः जाताः। सोमवासरे मध्याह्नादारभ्य मत्स्याः तीरमुपागन्तुमारब्धाः इति धीवरैः उक्तम्।

Tuesday, January 12, 2016

भारतेन लोकाय आत्मीयता एव दत्ता न तु वर्गीयता _ मोदी

मुम्बय् > लोकाय भारतस्य योगदानं तु आत्मीयता एव न हि वर्गीयता इति प्रधानमन्त्री नरेन्द्रमोदी I सर्वासां समस्यानां परिहारः आत्मीयतया साध्यमिति तेन उक्तम् । भारतीय जनताम् अवगन्तुं लोक: पराजितः इत्यपि तेन उक्तम् I
भारते असहिष्णुता वर्धते इति वादे प्रवर्धमाने एव प्रधानमन्त्रिणः वाचः । जयिन् आचार्य रत्न सुन्दर्सुरीश्वर्महाराजेन रचितस्य  मै इण्ड्या नोबिल् इनण्ड्या इति पुस्तकम् वीडियो कोण्फरन्स्  द्वारा प्रकाशयन् आसीत् स: I आङ्गलेय , हिन्दी , गुजराती , मराठी , भाषासु  प्रकाशितम् पुस्तकमिदम् ..।

नेताजीवर्यस्य मरणं विमानदुर्घटनायामिति ब्रिट्टनस्य वेब्सैट्।

लण्टन् - भारतस्य स्वातन्त्र्यान्दोलननायकः ऐ एन् ए स्थापकः नेताजी सुभाष् चन्द्रबोसवर्यः विमानदुर्घटनायामेव मृतः इत्युद्घोषयन् www.bosefiles.info इति कश्चन ब्रिटीष् अन्तर्जालः रहस्यान्वेषणपत्रैः सह रंगप्रविष्टः।
  १९४५ आगस्ट् मासस्य १८ तमदिनाङ्के तय्वान् मध्ये दुरापन्ने विमानदुरन्ते नेताजिवर्यः दिवंगत इति तेषां  विज्ञप्तिपत्रे सूचितम्।दृढीकरणाय बहूनां साक्षिणां विवरणान्यपि विज्ञप्तिपत्रे आयोजितानि।
   वियट्नां राष्ट्रस्य टूरन् नामकात् विमानपत्तनात् जप्पानस्य राजधानी टोक्कियोनगरं लक्षीकृत्य विमानम् उड्डयितम्। परन्तु यान्त्रिकदोषकारणेन विमानं यातत्रामध्ये भग्नमभवत्। नेताजिवर्यं विना १३यात्रिकाः वैमानिकश्च आसन्। जप्पानस्य सैन्याधिपः लफ्.जनरल् सुना मास सिदय् आसीत् तेषु प्रमुखः।
किन्तु ईदृशविज्ञप्तिपत्रस्य आधिकारिकतामधिकृत्य ब्रिट्टीष् सर्वकारस्य प्रतिकरणम् इतःपर्यन्तं नाभूत्।

शबरिगिरिः - नैतिकसंविधानमनुसृत्य महिलाः निरोद्धुं न शक्यत इति सर्वोच्चन्यायालयः।

नवदिल्ली -- शबरिगिरौ श्रीधर्मशास्तृमन्दिरदर्शनात् महिलाः निरोद्धुं विरुद्ध्य सर्वोच्चन्यायालयस्य निरीक्षणम्।भारतीयनीतिशास्त्रसंविधानमनुसृत्य शबरिगिरौ स्त्रीणां सन्दर्शननिरोधः अप्रायोगिकः इति न्याय. दीपक् मिश्रेण अाध्यक्ष्यं वहन् नीतिपीठः व्यक्तीकृतवान्।

Monday, January 11, 2016

 आत्मानं सृजाम्यहम्

अद्य जनुवरि  12 युवदिनम्।
सनातनधर्मस्य संरक्षणाय काले काले अत्र भारते पुण्यजन्मनि बहूनि अभवन्। तेषु अन्यतमं भवति विवेकानन्दस्वामिनः जन्म। सः 1863 जनुवरि मासस्य 12 दिने कोलकत्तायां जनिम् अलभत। तस्य पिता विश्वनाथदत्तः माता भुवनेश्वरी देवी च आस्ताम् । नरेन्द्रस्य व्यक्तित्व विकासे तस्य पितरौ अतीव स्वाधीनम् अकुरुताम्। बाल्यकाले एव ईश्वरचिन्तायां तथा आत्मीय चिन्तायां प्रवृत्तः नरेन्द्रः पश्चात् भारतीयतत्वशास्त्रचिन्तकेषु प्रमुखं स्थानं प्राप्य लोकराष्ट्रेषु प्रसिद्धः अविस्मरणीयश्च बभूव।

स्वामिविवेकानन्दस्य शैक्षिक प्रणाली भारतस्य दार्शनिक आध्यात्मिक परमपरायाः अनुरूपा आसीत्। विद्याध्ययनेनैव सर्वेषाम् अभ्युदयः इति सः प्रत्यपादयत्। परिपूर्णतायाः व्यक्तता एव ज्ञानोपार्जनेन संभवति। अध्ययनं नाम केवलं विषयसंग्रहः अपि तु तेन देशस्य कृते किं लभ्येत तदेव प्रामुख्यम् । तस्य मते अध्ययनं नाम अर्न्तनिहित पूर्णतायाः अभिव्यक्तिरेव ।

मातृभाषया साकं संस्कृतभाषयाः शिक्षणमपि आवश्यकमिति विवेकानन्दस्य मतम्। अस्माकं धर्मग्रन्थस्थानि आध्यात्मिक -रहस्य-रत्नानि अन्विष्य संस्कृतभाषया तत् ज्ञानस्य बहिरानयनं करणीयम्। स्त्रीणां कृते विद्यादानम् अवश्यं करणीयम् इति च तस्य मतम्। एवं विद्या सर्वजनस्पर्शिनी स्यात् इति विवेकानन्दः वदति। स्वामि विवेकानन्दः 1897 तमे वर्षे रामकृष्णमिशन् इति एकं सेवास्थानं स्थापितवान्। भारतेस्य विविधेषु प्रदेशेषु एवं विदेशेषु च अस्य संस्थानस्य शाखाः उद्धाटिताः आसन् सम्प्रति च वर्तन्ते।

महापुरुषाः अल्पमेव कालं जीवन्ति इत्यस्ति अनुभवः । तस्यापि सैव। भारतसर्वकारः तस्य जन्मदिनं युवदिनत्वेन आचरन् वर्तते। कस्यापि महतः स्मरणं तस्यजन्मदिनाचरणसीमितं न भवेत्। तेन ज्वलितानाम् आदर्शानां परिपूरणम् अस्माकं दायित्वमेव। संस्कृत-संवर्धनमेव अस्माकं धर्मः। तदर्थं दिनस्यैतस्य प्रेरणां प्राप्नुयाम।
उत्तिष्टत! जाग्रत ! 
डा. के. श्यामळा  
रसना कोषीक्कोड्
आभ्यन्तरसुरक्षायै नूतना पद्धतिः।

नवदिल्ली >भारतस्य आभ्यन्तरसुरक्षार्थं सविशेषविभागं मन्त्रालयं वा रूपवत्कर्तुं प्रधानमन्त्री  स्वेच्छां प्राकटयत्। पठान्कोट्ट्  भीकराक्रमणस्य अनुभवात् एव नरेन्द्रमोदिनः ईदृशः निर्देशः।
अमेरिक्कादेशस्य हों लान्ट् सेक्यूरिटी इति मन्त्रालयसंस्था एव अस्याः पद्धत्याः आदर्शत्वेन स्वीकृता।