OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 18, 2016

 जङ्गमदूरवाण्या: सहायेन लेखनं कृत्‍वा निर्मितानि पुस्तकानि अद्य मुक्तानि भविष्यन्ति।
कोट्टयम् > भर्तृहरेः नीतिशतम् वैराग्यशतकम् श्रृङ्गारशतकम्‌ च  कैरल्याम् अनुवादं कृत्वा प्रकाशयन्ते । त्रयाणां ग्रन्थानाम् टङ्गणक्रिया (DTP) तथा पुटविन्यास: च (layout)  जङ्गमदूरवाणीमुपयुज्य आसीत्। अनेन मार्गेण प्रकाश्यमानः प्रथमः अनुवादग्रन्थः भवति इयं  सुभाषितग्रन्थावली।  ग्रन्थस्य लेखनादिकार्याणि  सम्प्रति वार्तया कृता। पुनर्वाचनाय  कागदलेशोऽपि नोपयुक्तः।  ग्रन्थकारः  मान्यवरः साधु. डा-डा. जेक्कब् कट्टय्कल् महोदयः अमेरिका राष्ट्रे उषित्वा सम्प्रति वार्तायाः  ओण्  लैन् सौकर्यमुपयुक्तवान्। अस्य महात्मनः 101, 102, 103-तमाः ग्रन्थाः भवन्ति। ग्रन्थानां मुद्रणम् कोट्टयं गुड् षेपेर्ट् मुद्रणालयेन कृत:।  अद्य मध्याह्ने द्विवादने  केरलेषु प्रसिद्धां भरणङ्ङानं  क्रैस्तवदेवालयस्य परिकर-प्रकोष्ठे (parish hall ) अभिवन्द्य बिषप् डा. जोसफ् कल्लरङ्ङाट् साधुवर्येण  प्रकाशयिष्यन्ते । 





सुधीन्द्रतीर्थस्वामिनः गंगातटे समाधिं प्रापुः। 

हरिद्वारः - गैडसारस्वतब्राह्मणसमुदायस्य आत्मीयाचार्यः तथा काशिमठाधिपतिः स्वामी सुधीन्द्रतीर्थः गंगाायां व्यासश्रमे समाधिं प्राप। मुम्बैयां आतुरालये चिकित्सितः सःस्वस्य देहवियोगः हरिद्वारे आश्रमे भवेदिति इच्छानुसारं शनिवासरे हरिद्वारम् आनीतवान् आसीत्।
रविवासरे प्रभाते १.३० वादने देहवियोग अभवत्।
  व्यासश्रमे व्यासमन्दिरस्य दक्षिणपार्श्वे स्वामिनः समाधिस्थानं सज्जीकृतम्। स्वामिशिष्यस्य उत्तराधिकारिणः संयमीन्द्रतीर्थस्य कार्मिकत्त्वे समाधिसमारोहः समारब्धः। काशिमठस्य गुरुपरम्परायाः समाधिविधिमनुसृत्य आसन् कार्यक्रमाः। सहस्रशः भक्ताः मन्त्रजपसहितं सन्निहिताः अभवन्।