OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 8, 2025

 केरलस्य 'निधिः' परं झार्खण्डस्य निधिः! 

केरले त्यक्ता झार्खण्डीयदम्पत्योः शिशुः तद्राज्ये एव वर्धिष्यते।

निध्या सह के वि सिनि वर्यायाः नेतृत्वे शिशुक्षेमसमितिसंघः रेल् निस्थाने।

कोच्ची> षण्मासेभ्यः पूर्वं केरले झार्खण्डीययुवत्या जन्मलब्धः शिशुः पितृभ्यः परित्यक्तः सन्, केरलस्य शिशुसंरक्षणसमित्या [CWC - Child Welfare Committee] परिपालितः, इदानीं झार्खण्डस्य शिशुसंरक्षणसमितेः परिपालनाय समर्पितः अस्ति। यदि झार्खण्डीयदम्पती 'निधिः' इति कृतनामधेयं  शिशुं परिपालयितुं सन्नद्धौ भविष्यतः तर्हि निर्णयः झार्खण्डीयशिशुसंरक्षणसमित्याः अधिकाराधीनः भवति। 

  गते जनुवरिमासे  केरले वृत्यर्थमागतवती झार्खण्डीया युवती एरणाकुलं सर्वकारीयातुरालये बालिकाशिशवे जन्म अदात्। शिशोः स्वास्थ्यस्थितौ तीव्रे जाते परिचरणं निजीयातुराये विहिता। किन्तु दम्पती शिशुं परित्यज्य स्वराज्यं गतवन्तौ।  आरक्षकैः दम्पतीः विरुध्य प्रकरणं पञ्जीकृतम्। शिशोः  संरक्षण परिचर्यादिकं  केरलस्य CWC संस्थया स्वीकृतम्। तं बालिकापोतं निधिरिति नाम कृत्वा निधिवत् समवर्धत च।

  एप्रिल् मासे पितरौ झार्खण्डतः केरलं प्रत्यागत्य  तौ निर्धनौ इत्यतः शिशुं परिपालयितुमशक्यौ , अत एव त्यक्तवन्तौ इति उक्तवन्तौ। अनन्तरं आरक्षकैः CWC अधिकृतैः च विधत्ते अन्वेषणे प्रमाणसमाहरणे च तयोरुक्तिः सत्यमित्यवबुध्य तौ विमोचितौ। 

  ततः गतमासे शिशोः उपसंक्रमणमधिकृत्य झार्खण्डीय CWC संस्थां प्रति चर्चा संवृत्ता। शिशोः अभिवर्धनं तस्याः राज्ये, स्वकीयभाषायां संस्कृत्यां स्वजनानां परिरक्षणे एव भवितव्यमिति निर्णयस्याधारे झार्खण्डीय CWC संस्थायै उपसंक्रमितुं निर्णयोSभवत्। 

  तदनुसृत्य सोमवासरे प्रभाते एरणाकुलं रेल् निस्थानात् जनपदीय शिशुक्षेमसमित्यधिकारिणी के एस् सिनि इत्यस्याः नेतृत्वे कश्चन संघः बालनिध्या सह प्रस्थितः। षण्मासं यावत् परिचर्यायाः अन्ते पूर्णारोग्यवती भवति निधिः। मृत्युवक्त्रात् केरलेन परिरक्षिता निधिः झार्खण्डस्य निधिरूपेण अभिवर्धतामिति प्रत्याशा।