पश्चिमवंगः - पञ्चमसोपाने मतदानं ७८.३६%।
कोल्कोत्ता> पश्चिमवंग-विधानसभा-निर्वाचनस्य गतदिने सम्पन्ने पञ्चमचरणे ७८.३६% सम्मतिदायकाः स्वाभिमतं ज्ञापितवन्त इति प्रथमविश्लेषणे सूच्यते। ४५ मण्डलेषु मतदानं सम्पन्नम्। तत्र तत्र संघट्टनानि जातानीति सूच्यते।
केरले कोविड्व्यापनमतितीव्रम् ; गतदिने त्रयोदशसहस्राधिकाः नूतनरोगिणः।
अनन्तपुरी> केरले कोविड्रोगस्य द्वितीयं तरङ्गमतिशक्तम्। गतदिने ८१,२११ जनानां स्रवशोधने सम्पन्ने १३,८३५ जनेषु कोविड्बाधा दृढीकृता। परिशोधनायाः स्पष्टतामानं [rate of test positivity] १७.०४ इति वर्धितम्। किन्तु मृत्युमानं ०.४ इति न्यूनातिन्यूनमस्ति।
गतदिनद्वयेषु राज्ये आयोजिते बृहत्परिमाणस्रवविमर्शे [massive swabtest] त्रिलक्षाधिकाः स्रवादर्शाः सञ्चिताः। तेषु कश्चिदंशस्य फलमेव ह्यः बहिरागतम्। कोविड्बाधितानां चिकित्सार्थं राज्यं पूर्णतया सज्जमिति स्वास्थ्यमन्त्रिणी के के शैलजा अवोचत्।
त्रिंशदधिकेषु सन्न्यासिवर्येषु कोविड् - कुम्भमेला समापिता।
हरिद्वारं> अखिलभारत अखाडपरिषदः नेतारं महान्त् नरेन्द्रगिरिवर्यमभिव्याप्य ३० अधिकेषु सन्न्यासिप्रमुखेषु कोविड्रोगबाधा दृढीकृता। किञ्च गतपञ्चदिनेषु कुम्भमेलायां भागभागं कृतवन्तः २१६७ तीर्थाटकाश्च कोविड्बाधिताः अभवन्। अतः कुम्भमेलां समापयितुं प्रधानमन्त्रिणः नेतृत्वे सम्पन्नायां चर्चायां निर्णीतम्।
रोगव्यापनमालक्ष्य कुम्भमेलाकार्यक्रमेभ्यः प्रतिनिवृत्तमाणाः इति अखाडसंस्थया निरञ्जिनि इत्यनया निगदितम्। कुम्भमेलायाः प्रधानकार्यक्रमः 'षाहिस्नानं' समाप्तमित्यतः मेला समाप्तप्राया अभवदिति निरञ्जिनि अखाडस्य कार्यदर्शिणा रवीन्द्रपुरिणा उक्तम्।
भारते प्रतिदिनकोविड्बाधिताः लक्षद्वयमतीताः।
नवदिल्ली> कोविड् महामारेः द्वितीयतरङ्गे रोगबाधितानां प्रतिदिनसंख्या अनुस्यूततया द्वितीयदिनेSपि लक्षद्वयमतीताः। शुक्रवासरस्य प्रभाते समाप्तासु २४ होरासु २,१७,३५३ जनाः कोविड्बाधिताः अभवन्। १,१८५ मरणान्यपि गतदिने अभवन्निति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। राष्ट्रे आहत्य १,४२,९१,९१७ जनाः कोविड्बाधिताः अभवन्।
दशसु राज्येषु रोगव्यापनं तीक्ष्णं वर्तते। महाराष्ट्रं, केरलं, कर्णाटकं, तमिल्नाट्, आन्ध्रप्रदेशः, दिल्ली, उत्तरप्रदेशः,पश्चिमवंगः,छत्तीसगढः, राजस्थानम् इत्येतेषु राज्येषु रोगिणां प्रतिदिनसंख्या अत्यधिका जायमाना अस्ति। सर्वेषु राज्येषु रोगनियन्त्रणाय कठोराः पदक्षेपाः स्वीकृताः सन्ति।
ब्रसीले कोरोणा P1 अतिशक्तः। युवानम् अपि बाधते।
ब्रसीलिय> लाटिन् अमेरिक्क राष्ट्रेषु कोविड्- अतिव्यापनकारणं ब्रसीले विद्यमानः P१ श्रेणीस्थः वैराणुः इति आवेदनम्। 'आन्टी बोडी'तः रक्षां प्राप्तुं क्षमतायुक्तः भवति नूतनः वैराणुः इति वैज्ञानिकाः वदन्ति। पूर्विकानपेक्षया नूतनाय २.५ गुणिता प्यापनक्षमता अस्ति इति अध्ययनफले प्रतिपादयति। वैराणुव्यापनं प्रतिरोद्धुं ब्रसीलतः विमानसेवा स्थगायिता अस्ति। इयं P१ श्रेणी वैराणुः अतिवेगेन ब्रसीले व्याप्तमासीत्। युवानः अतिवेगेन अणुसङ्क्रमणेन बाधिताः भवन्ति इति अपघातस्यतीव्रतां संवर्धयति।
फुक्कुषिम आणवनिलयात् १० लक्षं टण् मितं मलिनजलं सागरं प्रति प्रवाहयितुम् जापानेन पर्यालोच्यते।
टोकियो> प्रातिवेशिकानां राष्ट्राणाम् अभिमतान् विगणय्य फुक्कुषिम आणवनिलयात् १० लक्षं टण् मितं मलिनजलं सागरं प्रति प्रवाहयितुम् जापानेन पर्यालोच्यते। सागरसीमायां विद्यमानानि राष्ट्राणि मत्स्यबन्धन सङ्घटनाः च विषयेस्मिन् तेषां विप्रतिपत्तिं प्रकाशितवन्तः। २०११ तमे संवत्सरे दुरापन्ने सुनामि नामक जलोपप्लवे १.२५ मिल्यण् टण् मितं जलम् आणवनिलये बन्धितमासीत्। जलस्य निष्कासनम् अनिवार्यं कार्यमिति जापानस्य प्रधानमन्त्रिणा योषिहिडेसुखा मन्त्रिमण्डले अवदत् ।
कोरानानिर्देशानां ये पालनं न कुर्वन्ति तेभ्यः प्रदेशसर्वकारस्य कठोरादेशः।
वार्ताहरः वत्स देशराज शर्मा।
हरियाणा सर्वकारादेशस्य उल्लङ्घकाः ये ये निजीयविद्यालयानामध्यक्षाःवर्तन्ते तैःसह सर्वकारःकठोरतायाःपालनं करिष्यति। अप्रैलमासस्य त्रिंशतद्दिनाङ्कपर्यन्तं ये ये सञ्चालकाः विद्यालयसञ्चालनं करिष्यन्ति तदा सर्वकारःतेषां मान्यता विषये विचारं करिष्यति। परन्तु सर्वकारस्यैषःनिर्देशोऽपि विद्यालयानामुपरि प्रतिबन्धकरणेऽसमर्थः। शिक्षामन्त्री श्रीकंवरपालगुर्जरेण कथितं यत् विद्यालयानाम्परीक्षाऽपि ओनलाईनरूपेण भविष्यति यतोहि विद्यालयानां निर्वाहकत्वं अथवा अनिर्वाहकत्वं वा भवतु सर्वं सर्वकारस्याधिकारक्षेत्रे वर्तते। शिक्षामन्त्रिणा कथितं यत् ओण् लैन् परीक्षोपरि शीघ्रं कोऽपि निर्णय आगमिष्यति। यावत् कोऽपि निर्णयो न भविष्यति तावद्विद्यालयानां सञ्चालनमवरुद्धो भविष्यति । ये ये विद्यालयेषु एतदादेशस्य पालनं न करिष्यन्ति तेषां मान्यताऽपि निरस्ता भवितुं अर्हति।
कोविड् कालनियमलङ्घनम्, प्रधानमन्त्रिणे दण्डशुल्कं विहितम्।
ओस्लो>कोविड् कालनियमलङ्घनं कृतवान् इत्यनेन नोर्वे राष्ट्रस्य प्रधानमन्त्रिणे सोल्बगिने दण्डशुल्कं विहितम्। एषः स्वस्य जन्मदिनोत्सवे सामूहिकदूरं कोविड् प्रतिरोध मार्गान् च न परिपालितवान्। २००० नोर्वेधनम् दण्डरूपेण तस्मै विहितम्। स्वस्व दुष्ट प्रवृत्तिषु मन्त्री क्षमां प्रार्थितवान्।
महाराष्ट्रे नियन्त्रणानि प्रबलानि अभवन्। अद्य 58,952 जनाः कोविड् रोगिणः अभवन्।
मुम्बै> कोविड् रोगस्य अति व्यापनस्य कारणतः महाराष्ट्र सर्वकारेण अधिकनियन्त्रणानि उद्घोषितानि। १५ दिनेभ्यः भवति इयं नियन्त्रणानि। अवश्यसेवायै एव अनुज्ञा भवति। अद्य 58,952 जनाः कोविड् रोगबाधिताः अभवन्। 278 जनाः मृताः च। आहत्य 35,78,160 जनाः इत:पर्यन्तं रोगबाधिताः अभवन्।
नूतनशिक्षानीतिः - शिक्षामण्डले क्लेशान् दूरीकरिष्यति
वार्ताहरः -वत्स देशराज शर्मा
विद्यालयपिधाने निर्णीते उत्तेजिताः निजिविद्यालयप्रबन्धकाः अभिभावकाः च
-वार्ताहरः वत्स देशराज शर्मा।
बंगाले निर्वाचनसन्दर्भे तृणमूल-भाजपायोः मध्ये सङ्घर्षः। केन्द्रसेनायाः गोलिकाप्रहरे चत्वारः मृताः।
कोल्कत्त> पश्चिमवंगे चतुर्थ श्रेण्यां निर्वाचनप्रसङ्गे तृणमूल-भाजपायोः मध्ये सङ्घर्षः जातः। केन्द्रसेनायाः गोलिकाप्रहरे चत्वारः जनाः मृताः। कूच् बेहारप्रदेशे आसीत् सङ्घर्षः। घटनामधिकृत्य निर्वाचनायोगेन आवेदनम् आदिष्टम्। अष्टभिः चरणैः आयोजिताभिः निर्वाचनेषु चतुर्थश्रेण्याः प्रक्रमः आसीत् इदानीम्। मेय्मासस्य द्वितीय दिनङ्के मतदानगणना भविष्यति।
तिरोभूतस्य सैनिकस्य चित्रं सामाजिकमाध्यमेषु - मावोवादिभिः सम्प्रेषितम्?
विजपुरं> छत्तीसगढस्य बस्तर प्रविश्यायां गतदिने मावोवादिभिः सह दुरापन्ने संघट्टने तिरोभूतः 'कोब्रा'सैनिकः राकेश्वरसिंह मन्हासः इत्यस्य छायाचित्रं मावोवादिभिः सामाजिकमाध्यमद्वारा प्रसारयति। मावोवादिभिः बन्धिरूपेण गृहीतः इति सन्दिह्यमान सन्दिह्यमानस्य अस्यछायाचित्रं तैरेव बहिः प्रकाशितमिति सूच्यते। कस्यचन कुटीरस्य पुरतः उपविष्टरूपेणैव चित्रं दृश्यते। मन्हासस्य विमोचनाय मध्यस्थमार्गमन्विष्य कस्यचन प्रादेशिकमाध्यमप्रवर्तकमुपयाति स्म इति श्रूयते। किन्तु अस्य प्रस्तावस्य आधिकारिकतां निरीक्ष्यते इति सर्वकारेण स्पष्टीकृतम्।
केरलस्य मुख्यमन्त्री भूतपूर्वमुख्यमन्त्री च कोविड्बाधितौ।
कोच्ची> केरले निर्वाचनसमाप्त्यनन्तरं कोविड्व्यापनं तीव्रं वर्तते। मुख्यमन्त्री पिणरायि विजयः, भूतपूर्वः मुख्यमन्त्री उम्मन् चाण्टिः च कोविड्बाधितौ अभवताम्। पिणरायि विजयः कोष़िक्कोट् सर्वकारीयातुरकलालये उम्मन् चाण्टिः अनन्तपुर्यां निजीयातुरालये च प्रवेशितौ। उभयोरपि स्वास्थ्यावस्था शोभना वर्तते। ये जनाः एताभ्यां सह सम्पर्के वर्तिताः तैः एकान्तवासं प्रवेष्टव्याः इति उभे नेतारौ अभ्यर्थितवन्तौ।
भारते द्विवारं कोविड् वैराणोः अति व्यापनम्। पिधानं न भविष्यतीति प्रधानमन्त्री।
राष्ट्रे कोविड् वैराणोः द्विवारव्यापनम् तीव्रतरम् अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। किन्तु आराष्ट्रं पिधानं न भविष्यति इति प्रधानमन्त्रिणा संसूचितम्| प्रथमचरणस्य व्यापनत्वापेक्षया तीव्रतरम् भवति इदानीन्तन वैराणुव्यापनम्; अतः अवधानता सुरक्षाप्रक्रमाः पालनीयाः इति तेन उक्तम्।
SSLC , +2 परीक्षाः अद्य प्रारभन्ते।
अनन्तपुरी> केरले दशमकक्ष्यायाः तथा द्वादशकक्ष्यायाश्च [SSLC, +2] वर्षान्तसामान्यपरीक्षाः अद्य आरभन्ते। श्वः आरप्स्यमाणां VHSE परीक्षामभिव्याप्य त्रिष्वपि विभागेषु नवलक्षं छात्राः परीक्षार्थिरूपेण सन्ति।
SSLC परीक्षाः एप्रिल् मासस्य २९तमे, VHSE परीक्षाः २६ तमे च दिनाङ्के समाप्यते। SSLC परीक्षार्थं २९४७ केन्द्रेषु ४,२२,२२६ छात्राः सन्ति। गल्फ् राष्ट्रेषु ९ केन्द्राणि, ५७३ छात्राः, लक्षद्वीपे ९ केन्द्राणि ६२७ छात्राश्च परीक्षामभिमुखीकुर्वन्ति।
केरले मतदानं प्रतिशतं ७४.०२।
अनन्तपुरी> केरलस्य पञ्चदशतमे विधानसभानिर्वाचने ७४.०२ % मतदायकाः गतदिने स्वाभिमतं ज्ञापितवन्तः। प्रचारणे राजनैतिकदलैः प्रकाशितस्य उत्साहानुसारं मतदानप्रकाशनं नाभवदिति सूच्यते।
उन्नततमं मतदानं कोष़िक्कोट् जनपदे ज्ञापितम् - ७८.३१%। न्यूनातिन्यूनं पत्तनंतिट्टा जनपदे दृष्टम् - ६८.१८%। मतगणना मेय् मासस्य द्वितीयदिने भविष्यति।
इन्डोनेष्या पूर्वटिमोर देशयोः अतिवृष्ट्या १६१ मरणानि।
जक्कार्ता> इन्डोनेष्या पूर्वटिमोर् देशयोः दिनद्वयात्पूर्वमारब्धायाः अतिवृष्ट्या अंशतया जातेन मृत्प्रपातेन जलोपप्लवेन च १६१ जनाः मृत्युमुपगताः। अनेके अदृष्टाश्चाभवन्।
'फ्लोर्' द्वीपसमूहे आरब्धा अतिवृष्टिः पूर्वटिमोरदेशस्य राजधानीं दिलीतिस्थानं व्याप्ता जाता। पङ्कसङ्कुलः प्रतिकूलपर्यावरणञ्च रक्षाप्रवर्तनाय विघातं वर्तते इति सूच्यते।
तमिल्नाटे पुतुच्चेर्यां च अद्य विधानसभानिर्वाचनम्।
चेन्नै> तमिल्नाट् राज्ये पुतुच्चेरी केन्द्रशासनप्रदेशे च अद्य विधानसभानिर्वाचनं प्रचलति। तमिल्नाट् विधानसभायाः २३४ मण्डलेषु पुतुच्चेर्याः ३० मण्डलेषु च एकेनैव चरणेन मतदानं विधास्यति। कन्याकुमारी लोकसभामण्डले चाद्य निर्वाचनं प्रचलति।
तमिलनाडु राज्ये ६.२९कोटि मतदायकाः स्वाधिकारं विनियोक्ष्यन्ति। ३९९८ स्थानाशिनः सदस्याभिलाषिणः सन्तः स्पर्धामञ्चे सन्ति। डि एम् के - कोण्ग्रस् सख्यं तथा ए ऐ ए डि एम् के - भाजपा संख्यं च प्रधानप्रतियोगिनौ वर्तेते। अभिनेतुः कमलहासस्य नेतृत्वे वर्तमानं 'मक्कल् नीतिमय्य'मिति राजनैतिकदलं च १४४ मण्डलेषु स्वशक्तिपरीक्षणं करोति।
जनाधिपत्यं विजयताम् - छात्रैः निर्वाचनावबोधप्रचरणं कृतम्।
भारते कोविड्प्रकरणानि अनुदिनं प्रवर्धते। प्रधानमन्त्रिणः नेतृत्वे उन्नतस्तरोपवेशनं सम्पन्नम्।
नवदिल्ली> भारते कोविड्रोगिणां संख्या अनुदिनं वर्धते। गतदिने नूतनानां कोविड्रोगिणां संख्या ९३,२४९ अभवत्। गतसेप्तम्बरमासानन्तरं विद्यमाना उच्चतरसंख्येयम्।
ह्यः प्रधानमन्त्रिणः नेतृत्वे राज्यानाम् उन्नतताधिकारिणाम् उपवेशमायोजिम्। कोविड्प्रकरणानि नियन्त्रयितुं अवश्यान् पदक्षेपान् स्वीकर्तुं निर्णयः अभवत्। हस्तशुचित्वं, सामाजिकदूरपालनं, मुखावरणधारणम् इत्यादीनां पालनाय अवबोधः कार्यः।
महाराष्ट्रं पञ्चाबः, छत्तीसगड्, केरलमित्यादिषु राज्येषु कोविड्रोगः क्रमातीतेन वर्धते।
छत्तीसगढ़े मावोवाद्याक्रमणे हताः सैनिकाः २२ अभवन्।
नवदिल्ली> शनिवासरे सि आर् पि एफ् सैनिकान् प्रति दुरापन्ने मावोवादिनाम् आक्रमणे हतानां सैनिकानां संख्या २२ अभवन्। ५ सैनिकाः मृताः इत्यासीत् प्रथममावेदनम्। किन्तु मावोवादिभिः अपहृतेषु सैनिकेषु १७ पुरुषाणां मृतदेहाः बीजपुरं-सुक्म जनपदयोः सीमायां वनान्तर्भागे दृष्टाः आसन्। एकः अपि द्रष्टव्यः इति सैनिकाधिकारिभिः सूचितम्।
शनिवासरे पञ्चहोरापर्यन्तं दीर्घिते संघट्टने कञ्चित् महिलामभिव्याप्य ९ मावोवादिनः हताः। १५ मावोवादिनः मृत्युमुपगताः स्युरिति सि आर् पि एफ् सैनिकानामूहः। ३०० संख्याकं सैनिकव्यूहं ५०० संख्याकः मावोवादिसंघः आक्रमणं कुर्वन्नासीत्।
कोविडस्य द्वितीयतरङ्गः - महाराष्ट्रे कर्कशनियन्त्रणानि।
मुम्बई> महाराष्ट्रे कोविड्-१९ रोगस्य द्वितीयतरङ्गव्यापनम् अतितीव्रमित्यतः कर्कशानि नियन्त्रणानि विधातुं राज्यसर्वकारेण निश्चितम्। प्रतिशुक्रवासरं रात्रौ अष्टवादनादारभ्य सोमवासरे उदयात् परं सप्तवादनपर्यन्तं सम्पूर्णं पिधानं प्रख्यापितम्।
गतदिने राज्ये उपार्धलक्षं जनाः कोविड्बाधिताः अभवन्। मुम्बई नगरे अपि रोगबाधितानां प्रतिदिनसंख्या दशसहस्रपर्यन्तम् जाता। भारतस्य प्रतिदिननूतनरोगिषु ६०% महाराष्ट्रे एव।
केरले मतदानं कुजवासरे; घोषप्रचारणमद्य समाप्यते।
कोच्ची> केरले विधानसभानिर्वाचनस्य प्रचारणं तीव्रं तीक्ष्णं च भूत्वा समाप्तिचरणमायाति। प्रचारघोषः अद्य सायं सप्तवादने समाप्स्यते।
सि पि एम् नेतृत्वे वामपक्षजनाधिपत्यसख्यं अविरामप्रशासनाय प्रयतते। कोण्ग्रस् दलनेतृत्वे ऐक्यजनाधिपत्यसख्यं तु विनष्टं प्रशासनं प्रत्याहर्तुं प्रयतते। भा ज पा दलनेतृत्वे एन् डि ए नामकं सख्यं तु पूर्वोक्तं सख्यद्वयं पराजित्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रभावेण स्वकीयशक्तिं प्रकटयितुमुत्सहते च। त्रयाणामपि सख्यानां राष्टियनेतारः यावच्छक्यं केरले वर्तमानाः सन्तः प्रचारणस्य नेतृत्वमावहन्ति स्म।
१४० मण्डलेषु एप्रिल् षष्ठदिनाङ्के प्रभाते सप्तवादनतः सायं सप्तवादनपर्यन्तं कोविडनुशासनपूर्वकमेव मतदानवेला।