OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 17, 2021

 भारते प्रतिदिनकोविड्बाधिताः लक्षद्वयमतीताः। 

नवदिल्ली> कोविड् महामारेः द्वितीयतरङ्गे रोगबाधितानां प्रतिदिनसंख्या अनुस्यूततया द्वितीयदिनेSपि लक्षद्वयमतीताः। शुक्रवासरस्य प्रभाते समाप्तासु २४ होरासु २,१७,३५३ जनाः कोविड्बाधिताः अभवन्। १,१८५ मरणान्यपि गतदिने अभवन्निति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। राष्ट्रे आहत्य १,४२,९१,९१७ जनाः कोविड्बाधिताः अभवन्। 

 दशसु राज्येषु रोगव्यापनं तीक्ष्णं वर्तते। महाराष्ट्रं, केरलं, कर्णाटकं, तमिल्नाट्, आन्ध्रप्रदेशः, दिल्ली, उत्तरप्रदेशः,पश्चिमवंगः,छत्तीसगढः, राजस्थानम् इत्येतेषु राज्येषु रोगिणां प्रतिदिनसंख्या अत्यधिका जायमाना अस्ति। सर्वेषु राज्येषु रोगनियन्त्रणाय कठोराः पदक्षेपाः स्वीकृताः सन्ति।