OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 6, 2021

 जनाधिपत्यं विजयताम् - छात्रैः निर्वाचनावबोधप्रचरणं कृतम्। 


एरणाकुलम्> संस्कृतभाषाप्रचरणस्य अंशतया माध्यमिकस्तराः छात्राः संस्कृतभाषायामेव मतदानस्य प्राधान्यमालक्ष्य निर्वाचनावबोधप्रवर्तनं कृतवन्तः। केरले एरणाकुलं जनपदस्थे 'सौत् चिट्टुर्  सेन्ट् मेरीस् यू पि विद्यालयछात्राः एव ईदृशं सविशेषं प्रवर्तनं कृतवन्तः। 

 राष्ट्रस्य शोभनभविष्यत्कालकांक्षिणः जनाः सयुक्तिकं स्वकीयं मतदानाधिकारं कुर्वन्तु इत्यभ्यर्थयन्ति स्फोरकपत्रप्रकाशनेन छात्राः। राज्यस्य राष्ट्रस्य वा विकासप्रवर्तनैः सह आर्षभारतसंस्कृतेः उन्नमनाय तथा संस्कृतभाषायाः प्रचारणाय च स्वकीयशेषीविनियोगं साधयितुं प्रत्येकं स्थानाशिनं भाविनं शिक्षामन्त्रिणं च  अभ्यर्थयन्ति च छात्राः। अस्य विद्यालयस्य संस्कृताध्यापकः अभिलाष् टि प्रतापः अस्मिन्नायोजने नेतृत्वमावहत्।