OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 16, 2021

 ब्रसीले कोरोणा P1 अतिशक्तः। युवानम् अपि बाधते।

   ब्रसीलिय> लाटिन् अमेरिक्क राष्ट्रेषु कोविड्- अतिव्यापनकारणं ब्रसीले विद्यमानः P१ श्रेणीस्थः वैराणुः इति आवेदनम्। 'आन्टी बोडी'तः रक्षां प्राप्तुं क्षमतायुक्तः भवति नूतनः वैराणुः इति वैज्ञानिकाः वदन्ति। पूर्विकानपेक्षया नूतनाय २.५ गुणिता प्यापनक्षमता अस्ति इति अध्ययनफले प्रतिपादयति। वैराणुव्यापनं प्रतिरोद्धुं ब्रसीलतः विमानसेवा स्थगायिता अस्ति। इयं P१ श्रेणी वैराणुः अतिवेगेन ब्रसीले व्याप्तमासीत्। युवानः अतिवेगेन अणुसङ्क्रमणेन बाधिताः भवन्ति इति अपघातस्यतीव्रतां संवर्धयति।