OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 15, 2021


 कोरानानिर्देशानां ये पालनं न कुर्वन्ति तेभ्यः प्रदेशसर्वकारस्य कठोरादेशः।

वार्ताहरः वत्स देशराज शर्मा।

     हरियाणा सर्वकारादेशस्य उल्लङ्घकाः ये ये निजीयविद्यालयानामध्यक्षाःवर्तन्ते तैःसह सर्वकारःकठोरतायाःपालनं करिष्यति। अप्रैलमासस्य त्रिंशतद्दिनाङ्कपर्यन्तं ये ये सञ्चालकाः विद्यालयसञ्चालनं करिष्यन्ति तदा सर्वकारःतेषां मान्यता विषये विचारं करिष्यति। परन्तु सर्वकारस्यैषःनिर्देशोऽपि विद्यालयानामुपरि प्रतिबन्धकरणेऽसमर्थः। शिक्षामन्त्री श्रीकंवरपालगुर्जरेण कथितं यत् विद्यालयानाम्परीक्षाऽपि ओनलाईनरूपेण भविष्यति यतोहि विद्यालयानां निर्वाहकत्वं अथवा अनिर्वाहकत्वं वा भवतु सर्वं सर्वकारस्याधिकारक्षेत्रे वर्तते। शिक्षामन्त्रिणा कथितं यत् ओण् लैन् परीक्षोपरि शीघ्रं कोऽपि निर्णय आगमिष्यति। यावत् कोऽपि निर्णयो न भविष्यति तावद्विद्यालयानां सञ्चालनमवरुद्धो भविष्यति । ये ये विद्यालयेषु एतदादेशस्य पालनं न करिष्यन्ति तेषां मान्यताऽपि निरस्ता भवितुं अर्हति।