सवाहिरिः यू एस् सैन्येन हतः।
वाषिङ्टण्> अल् खायिदा इति भीकरसंघटनस्य नेता अय्मान् अल् सवाहिरिः [७१] यू एस् सैन्येन हतः। अफ्गानिस्थानस्य राजधानीभूते काबूलस्थे षेरपुरं नामके स्थाने सपरिवारं अज्ञातवासं कुर्वन्नासीत् सवाहिरिः। तत्स्थानं प्रति रविवासरे कृतेन 'ड्रोण्' अग्निशस्त्राक्रमणेन सवाहिरिः हतः इति यू एस् राष्ट्रपतिः जो बैडनः विश्वं न्यवेदयत्।
न्यूयोर्कस्थं वाणिज्यभवनसमुच्चयं लक्ष्यीकृत्य २००१ सेप्टंम्बर् ११ दिनाङ्के संवृत्तस्य भीकराक्रमणस्य मुख्यसूत्रधारः, तथा नेतुः बिन् लादस्य दक्षिणहस्तीयश्च आसीत् सवाहिरिः। २०११ तमे वर्षे बिन् लादनस्य हत्यानन्तरं सवाहिरिः अल् खायिदायाः प्रथमनेता भूत्वा अमेरिक्काम् इतरराष्ट्राणि च विरुध्य भीकरप्रवर्तनानां कपटनिगूढायोजनं कुर्वन्नासीत्। यू एस् राष्ट्रेण अस्य २. ५ कोटि डोलर् परिमितं शिरोमूल्यं प्रख्यापितमासीत्।

.webp)




.webp)

%20(1).webp)

.webp)
