OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 2, 2022

 केरले अतिवृृष्टिः - ४ मरणानि, सर्वत्र विनाशः। 

विद्यालयेषु अद्य विरामः।

अनन्तपुरी> केरलराज्ये दिनद्वयेन अनुवर्तमानया अतिवृष्ट्या दक्षिण-मध्यकेरलेषु सर्वत्र व्यापकतया नाशनष्टाः जाताः। अनन्तपुरी, कोट्टयं जनपदयोः एकैकः मृत्युं प्राप्तः। मत्स्यबन्धनाय समुद्रं गतवन्तौ द्वौ जलयानदुर्घनया अदृष्टौ अभवताम्। 

  वृष्टिप्रकोपेन राज्ये ९० जनाः वासगृहाणि त्यक्त्वा अभयकेन्द्राणि प्राप्तवन्तः। कोल्लं, पत्तनंतिट्टा, इटुक्की, तृश्शूर्, कोट्टयं, वयनाट् जनपदेषु सप्त पुनरधिवासशिबिराणि उद्घाट्तानि। 

   कोट्टयं जनपदे पञ्च स्थानेषु भूविच्छेदाः जाताः। ४८ वासस्थानानि भागिकतया विशीर्णानि।  इटुक्की, पत्तनंतिट्टा जनपदेष्वपि मृत्प्रपाताः जाताः। विद्यालयेषु मङ्गलवासरे विरामः प्रख्यापितः। आराज्यम् अतिवृष्टिः दिनद्वयमपि अनुवर्तिष्यते इति पर्यावरणविभागेन निगदितम्।