OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 29, 2022

मध्ये मध्ये दुर्घटनया पतति। मिग् २१ युद्धविमानानि २०२५ संवत्सराभ्यन्तरे पूर्णतया त्यक्तुं परिगणयति।


नवदिल्ली> भारतीयव्योमसेनायाः अवशिष्टेषु चतसृषु मिग्२१ युद्धविमानेषु एकम् आगामि सेप्तंबर् मासे सेवनात् विरम्यते। अन्यानि त्रीणि आगामि त्रिसंवत्सराभ्यन्तरे क्रमेण त्यक्ष्यन्ति इति व्योमसेनाधिकारिभिः आवेदितम्। गतविंशतिमासाभ्यन्तरे षट् मिग् २१ विमानानि भग्नानि अभवन्। अपघाते पञ्च वैमानिकानां प्राणापायः च अभवत्। मिग्२१ युद्धविमानानां स्थानेषु नूतनयुद्धविमानानि योजयितुं  निश्चितम् इति अधिकारिणः सूचयन्ति ।