OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 1, 2022

 गगने संदृष्टः उत्कावर्षो न। चीनीयाकाशबाणस्य अवशिष्टानि एव। 

नवदिल्ली> उत्कापतनमिव प्रसृताः बहवः चलनचित्रखण्डाः सामूहिकमाध्यमे त्वरितप्रसरमभवन्। आकाशे पीत - नील- रक्तवर्णरूपाणि चलनयुक्तानि प्रभासमानानि प्रकाशदृश्यानि एव गतदिनेषु सामाजिकमाध्यमेषु जनश्रद्धाम् आकर्षयन्ति प्रसृतानि। एष्यायाः दक्षिणपूर्वाकाशे रात्रौ दृश्यमेतत् प्रत्यक्षमभवत्। उत्कावर्षः इति नाम्ना एव चलनचित्रखण्डाः प्रसृताः। किन्तु भूपरिधौ प्रविष्टस्य चीनेन प्रेषितस्य आकाशबाणस्य अवशिष्टान्येतानि इति इदानीं दृढीकरणमस्ति।