OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 28, 2022

 'कोमण् वेल्त्' कायिकक्रीडास्पर्धाः अद्य आरभन्ते।

पतकशतकमालक्ष्य भारतम्। 

बर्मिङ्हाम्> २२ तमः 'कोमण् वेल्त् राष्ट्राणां कायिकक्रीडास्पर्धाः अद्य यू के राष्ट्रे बर्मिङ्हामनगरे आरभन्ते।  ११ दिवसकालीनायम् अस्यां क्रीडास्पर्धायां ७२ राष्ट्रेभ्यः पञ्चसहस्रं कायिकक्रीडकाः भागं करिष्यन्ति। २८० संख्याकाः पतकाधिकरणाः सन्ति। 

   एषु प्रतिद्वन्द्वेषु १०० पतकानि भारतेन लक्ष्यीक्रियन्ते। २१५ क्रीडकाः भारतं प्रतिनिधीभूय स्पर्धिष्यन्ति। पिच्छकन्दुक-भारोद्वहन-मल्लयुद्धादिषु स्पर्धासु भारताय सुवर्णप्रतीक्षा अस्ति।